एकसम्बन्धनाशेऽपीत्यादिना परः प्रत्यवतिष्ठते ।


एकसम्बन्धिनाशेऽपि समवायोऽवतिष्ठते ।

अन्यसम्बन्धिसद्भावाद्योगो नो चेन्न भेदतः ॥ ८५९ ॥

एवं मन्यते यदि प्रथमे हेतौ विनष्टाशेषसम्बन्धित्वादिति हेत्वर्थोऽभिप्रेतः । तदा
पक्षैकदेशासिद्धता हेतोः । न ह्यशेषाणां सम्बन्धिनां विनाशः क्वचिदस्ति । प्रलयेऽपि
परमाण्वादीनामवशिष्यमाणत्वात् । अथ यथाकथंचिद्विनष्टसम्बन्धित्वसम्बन्धमधिकृत्य
हेतुरुच्यते, तदाऽनैकान्तिकता, यदि नामैकः सम्बन्धी क्वचिद्विनष्टस्तथाऽप्यपरसम्ब
न्धिनिबन्धनावस्थितिरस्य भविष्यति । यद्येवं संयोगस्याप्यनया नीत्या नित्यत्वं प्राप्नो
273 तीत्याशङ्क्य परः प्रतिविधत्ते—न भेदत इति । संयोगो हि प्रतिसंयोगि भिद्यते ।
तेनास्यानित्यत्वं युक्तं, समवायस्तु—इहप्रत्ययनिबन्धनस्याभिन्नत्वादेक एव जगति ।
तेनास्यानित्यत्वमयुक्तमन्यत्रापि सम्बन्ध्यन्तरे तस्योपलभ्यमानत्वात् ॥ ८५९ ॥