यद्येवमित्यादिना प्रतिविधत्ते ।


यद्येवं ये विनश्यन्ति घटाद्याः समवायिनः ।

तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः ॥ ८६० ॥

स एव व्यवतिष्ठेत किं सम्बन्ध्यन्तरस्थितेः ।

अथान्य एव संयोग........बहुतादिवत् ॥ ८६१ ॥

नाद्यस्तल्लक्षणस्यैव समवायस्य संस्थितौ ।

पूर्ववत्ते स्थिता एव प्राप्नुवन्ति घटादयः ॥ ८६२ ॥

न तेषामनवस्थाने तेषां (वृत्त्यात्मकः क्वचित्) ।

सम(वायोऽ)वतिष्ठेत संज्ञामात्रेण वा तथा ॥ ८६३ ॥

अतः प्रागपि सद्भावान्न ते वृत्ताः स्युराश्रये ।

पश्चादिव तथा ह्येषा वृत्तिस्तेषामवस्तुतः ॥ ८६४ ॥

तथाहि ये ते विनश्यन्ति घटादयः स्वकारणादिसमवायिनस्तेषां स्वकारणेषु वृ
त्त्यात्मको योऽसौ समवायः कल्पितः स एव किं तेषु विनष्टेषु सम्बन्ध्यन्तरेष्वस्ति,
आहोस्विदन्य एव, यथा संयोगो बहुत्वं वा प्रतिसंयोगि भिद्यते । आदिशब्दाद्विभा
गादिपरिग्रहः । तत्र यद्याद्यः पक्षस्तदा प्रागवस्थावदप्रच्युतप्रवृत्तित्वादवस्थिता एव
घटादयः प्राप्नुवन्ति, तेषां वा घटादीनामनवस्थानेऽनवस्थितप्रवृत्तित्वान्नावस्थितिः स
मवायस्य प्राप्नोति, अन्यथा न वृत्त्यात्मकः स्यात् । तथाभूतस्य च स्वतन्त्रत्स्यानुप
कारिणो वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव स्यात्, न तु वस्तुतथा
भावस्तथेति । तद्वृत्त्यात्मक इत्येवं ततः संज्ञामात्रान्वयो दोषस्तं दर्शयति—अत इत्यादि । प्रागपि सम्बन्धिनाशात् । अविनष्टसम्बन्ध्यवस्थायामपीत्यर्थः । ते घटादयः ।
स्वाश्रये वृत्तास्तस्य समवायस्य भावात्सद्भावबलान्न सिध्येयुः । पश्चादिव—विन
ष्टसमवायिकारणवत्, परमार्थतो वृत्त्यभावात् । तथाहीत्यादिना हेत्वर्थं दर्शयति
॥ ८६० ॥ ८६१ ॥ ८६२ ॥ ८६३ ॥ ८६४ ॥