266 भिद्यते, किं तर्हि ? भाववत् सत्तावत्, तल्लिङ्गाविशेषाद्विशेषलिङ्गाभावात्सर्वत्रैक एव
समवायः । योगवदिति । वैधर्म्यदृष्टान्तः । अकारणत्वाच्च भाववदेव नित्यः सिद्धः,
अकारणत्वं च प्रमाणतः कारणानुपलब्धेः सिद्धम् ॥ ८२४ ॥ ८२५ ॥ ८२६ ॥


तदेतदित्यादिना दूषणमारभते ।


तदेतदिहविज्ञानं परेषामेव वर्त्तते ।

स्वसिद्धान्तानुरागेण न दृष्टं लौकिकं तु तत् ॥ ८२७ ॥

तदनेन हेतोराश्रयासिद्धतामाह । इह तन्तुषु पट इत्यादिका हि धियः स्वसिद्धा
न्तानुरागोपकल्पिता एव । नतु लोके तथोत्पद्यमानाः संवेद्यन्त इत्यतः साध्यधर्मी न
सिद्धः ॥ ८२७ ॥


नानात्वेत्यादिना—तामेव धर्म्यसिद्धिं समर्थयते ।


नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः ।

इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ ८२८ ॥

नैव तन्तुपटादीनां नानात्वेनोपलक्षणम् ।

विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः ॥ ८२९ ॥

ययोर्हि नानात्वमुपलक्षितं भवेत्तयोरेवाधाराधेयभावे सतीहबुद्धिरुद्भवन्ती लोके
दृष्टा, यथेह कुण्डे श्रीफलानीति, नच तन्तुपटोर्नानात्वमुपलक्षितं विद्यते च, तत्कथं
तत्रेहबुद्धिर्भवेत् ॥ ८२८ ॥ ८२९ ॥


स्यादेतद्यदि नामाऽस्माभिः सिद्धान्तबलादुपकल्पितेयमिहमतिस्तथाप्यस्या भवद्भि
र्निबन्धनं वक्तव्यमित्याह—स्वेच्छेत्यादि ।


स्वेच्छया रचिते वाऽस्मिन्कल्पितेष्विव वस्तुषु ।

न कारणनियोगोऽयं परं प्रत्युपपद्यते ॥ ८३० ॥

यो हि यत्कारणमेव नेच्छति स कथं कार्यं स्वयमुपकल्प्य तत्कारणं पर्यनुयुज्यते,
आत्मैव हि भवता पर्यनुयोक्तव्यः, येनेदं कार्यमुपकल्पितमिच्छावशात्, नैवेच्छानां
वस्तुस्वभावानुरोधः, स्वातन्त्र्यवृत्तित्वादासाम्, नातो वस्तुसिद्धिरनवस्थाप्रसङ्गात् ।
तथाहि—भवदुप़कल्पितस्यापि हि वस्तुनः कैश्चिदन्यथाऽपि कल्पयितुं शक्यत्वात्
॥ ८३० ॥


अपिच न केवलमिह तन्तुषु पट इत्यादिका धियो लोके न सिद्धाः, किन्तु तद्वि
परीता एव प्रसिद्धा इति दर्शयन्नाह—वृक्ष इत्यादि ।