014 यत्रेति विग्रहः । एतच्चाभिहितं भगवता । यथोक्तम्—चक्षुरुत्पद्यमानं न कुतश्चि
दागच्छति निरुध्यमानं न क्वचित्सन्निचयं गच्छति । इति हि भिक्षवश्चक्षुरभूत्वा भ
वति भूत्वा च प्रतिविगच्छती
ति । अयं च त्रैकाल्यपरीक्षोपक्षेपः । अथ किमयं
दृष्टमात्रकालभावी ? यथाहुश्चार्वाकाः—भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः इति । नेत्याह—अनाद्यन्तमिति । अविद्यमानावाद्यन्तावस्मिन्निति विग्रहः । एतदपि
निर्दिष्टं भगवता— अनवराग्रो हि भिक्षवो जातिसंसारइत्यादिना । अवरमित्य
न्तोऽभिधीयते, अग्रमिति चादिः, तयोः प्रतिषेधादनवराग्र इत्युच्यते । एतच्चानुत्प
न्ना(र्य)मार्गानधिकृत्योक्तं, उत्पन्नार्यमार्गाणां तु शान्त एव संसारः । अतएवोक्तम्—
दीर्घो बालस्य संसारः सद्धर्ममविजानतःइति । अयं च लोकायतपरीक्षोपक्षेपः ।
अथ किमयं प्रतीत्यसमुत्पादो बहिरर्थात्मक आहोस्विच्चित्तमात्रशरीर इति, आह—
प्रतिबिम्बादिसन्निभमिति । एतेन चित्तमात्रात्मक एवेति दर्शयति । तथाहीदमुक्तं भवति ।
यथाहि प्रतिबिम्बालातचक्रगन्धर्वनगरादयश्चित्तमात्रशरीरास्तथाऽयमपीति । एतच्चोक्तं
भगवताबाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तम
र्थाभासं प्रवर्त्तते ॥
इति । अयं च बहिरर्थपरीक्षोपक्षेपः । तदेवं यथोक्तासदर्थकल्प
नाजालरहितत्वं प्रतीत्यसमुत्पादस्य प्रतिपाद्योपसंहरन्नाह—सर्वप्रपञ्चेत्यादि । सर्वेषां
यथोक्तानां प्रकृतिहेतुत्वादीनां प्रपञ्चानां सन्दोह:—समूहः, तेन निर्मुक्तः । अथ
किमयमन्यैरपि हरिहरहिरण्यगर्भादिभिरेवमभिसम्बुद्धः ? नेत्याह—अगतं परैरिति ।
सर्वतीर्थानां वितथात्मदृष्ट्यभिनिविष्टत्वाद्भगवत एवायमावेणिकोऽभिसम्बोध इति दर्श
यति । एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति ॥ ४ ॥


अथायमेवंभूतः प्रतीत्यसमुत्पादः किं स्वयमभिसम्बुध्य गदितो भगवता, आ
होस्वित्पराभिमतापौरूषेयवेदाश्रयेण, यथाहुर्जैमिनीयाः—तस्मादतीन्द्रियार्थानां सा
क्षाद्द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥
इति । नैवमि
त्याह—स्वतन्त्रश्रुतिनिःसङ्ग इति—स्वतन्त्रा श्रुतिः—स्वतःप्रमाणभूतो वेदः,
नित्यं वचनमिति यावत् । तस्या निःसङ्गः—निरास्थः, तन्निरपेक्ष एव साक्षाद्दर्शी
प्रतीत्यसमुत्पादं गदितवानित्यर्थः । न चाप्यपौरुषेयं वाक्यमस्ति । यथोक्तं भगवता
इत्येते आनन्दपौराणा महर्षयो वेदानां कर्त्तारो मन्त्राणां प्रवर्त्तयितारइति ।
एतच्च पश्चात्प्रतिपादयिष्याम इति भावः । अयं च श्रुतिपरीक्षायाः स्वतन्त्रप्रामाण्य