015 परीक्षायाश्चोपक्षेपः । अथ समधिगताशेषस्वार्थसम्पत्तेर्भगवतः किमर्थमियं प्रती
त्यसमुत्पाददेशनेत्याह—जगद्धितविधित्सयेति । जगते हितं जगद्धितं । तत्पुनर
विपरीतप्रतीत्यसमुत्पादावबोधोपायमशेषक्लेशज्ञेयावरणप्रहाणम्, तद्विधातुमिच्छा जग
द्धितविधित्सा, सा तद्देशनायाः कारणम् । साऽपि जगद्धितविधित्सा कुतोऽस्य
जायेतेत्याह—अनल्पेत्यादि । अनल्पैः कल्पासङ्ख्येयैः सात्मीभूता महादया यस्येति
विग्रहः । सा च महादया भगवतः समधिगताशेषस्वार्थसम्पत्तेरपि परार्थकरणव्या
पारापरित्यागादवगम्यते ॥ ५ ॥


अथासौ सात्मीभूतमहादयः किं कृतवानित्याह—इत्यादि । य इति सा
मान्यवचनोऽपि बुद्धे भगवति प्रवर्त्तते, अन्यस्य यथोक्तगुणासंभवात् । प्रती
त्यसमुत्पाद
मिति । हेतून्प्रत्ययान्प्रतीत्य—समाश्रित्य यः स्कन्धादीनामुत्पादः स
प्रतीत्यसमुत्पादः । एतदुक्तं भवति । हेतुप्रत्ययबलेनोत्पन्नान्स्कन्धादीन्यो जगादेति ।
यद्यपि समुत्पाद इति व्यतिरेकीव निर्देशस्तथापि प्रतीत्यसमुत्पन्नमेव वस्तु भेदान्तर
प्रतिक्षेपमात्रजिज्ञासायां तथा निर्दिश्यते । यद्वा—समुत्पद्यत इति समुत्पादः कृत्य
ल्युटो बहुलमिति वचनात्कर्त्तरि घञ् । ततः प्रतीत्यशब्देन सुप्सुपेति मयूरव्यंसकादि
त्वाद्वा समासः । असमस्तमेव वा । एतेन च सर्वेण भगवतः सम्यक्परहितानुष्ठान
सम्पत्सोपाया परिदीपिता भवति । तथाहि—यः प्रतीत्यसमुत्पादमेवंभूतं जगादे
त्यनेन यथावत्परहितानुष्ठानं भगवतो दर्शितम् । इदमेव हितानुष्ठानं भगवतो यत्प
रेषामविपरीतस्वर्गापवर्गमार्गोपदेशः । यथोक्तम्— युष्माभिरेव कर्त्तव्यमाख्यातारस्त
थागताः
इति । अस्याश्चाविपरीतपरहितानुष्ठानसम्पद उपायो धर्मेषु साक्षाद्दर्शित्वं म
हाकरुणा च, यतः कृपालुरपि यथाभूतापरिज्ञानान्न सम्यक्परहितमुपदेष्टुं समर्थः, परि
ज्ञानवानपि कृपाहीनो नैवोपदिशेत्, उपदिशन्नप्यहितमप्युपदिशेत् । तस्मात्प्रज्ञाकृपे
द्वे अपि सम्यक् परहितानुष्ठानोपायो भगवतः । तच्च साक्षाद्दर्शित्वं स्वतन्त्रश्रुतिनिःसङ्ग
त्वेन दर्शितम्; सात्मीभूतमहादयत्वेन च महाकरुणायोगः । ननु चाविपरीतः प्रती
त्यसमुत्पादो बोधिसत्वश्रावकादिभिरपि निर्दिष्टः, तत् कोऽत्रातिशयो भगवत इ
त्याह—गदतांवरइति । यद्यपि ते श्रावकादयः प्रतीत्यसमुत्पादं गदन्ति, तथापि
भगवानेव तेषां गदतांवरः । भगवदुपदिष्टस्यैव धर्मतत्वस्य प्रकाशनान्नहि तेषां स्वतो
यथोक्तप्रतीत्यसमुत्पाददेशनायां शक्तिरस्ति । सर्वगुणदोषप्रकर्षापकर्षनिष्ठाधिष्ठान