016 त्वाद्वा भगवानेव श्रेष्ठो नेतरे । तेषां तद्विपरीतत्वात् । एतेन च भगवतः श्रावका
दिभ्यो विशिष्टत्वप्रतिपादनेन सवासनाशेषक्लेशज्ञेयावरणप्रहाणलक्षणा स्वधि(धी ?)स
म्पत्परिदीपिता भवति । अन्यथा कथमिव तेभ्यो विशिष्टो भवेत्, यदि यथोक्तगु
णयोगिता न स्याद्भगवतः । अतएवाह—तं सर्वज्ञमिति । अयं च सर्वज्ञसिद्ध्यु
पक्षेपः । अथ तं प्रणम्य किं क्रियत इत्याह—क्रियते तत्त्वसङ्ग्रहइति । यथोक्तान्येव
प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि, अविपरीतत्वात्, तेषामितस्ततो विप्रकीर्णाना
मेकत्र हि सङ्क्षेपः सङ्ग्रहः, तत्प्रतिपादकत्वाद्ग्रन्थस्यापि तथा व्यपदेशः । सीताहरणं
काव्यमिति यथा । अथवा सम्यक् समन्ताद्वा गृह्यन्ते अनेन तत्वानीति सङ्ग्रहो ग्रन्थ
एवोच्यते क्रियत इति प्रारब्धापरिसमाप्तकालापेक्षया वर्तमानकालनिर्देशः ॥ ६ ॥


तत्र प्रकृतिव्यापाररहितत्वप्रतिपादनाय साङ्ख्यमतमुपदर्शयन्नाह—अशेषशक्ति
प्रचिता
दित्यादि ।


प्रकृतिपरीक्षा ।

अशेषशक्तिप्रचितात्प्रधानादेव केवलात् ।

कार्यभेदाः प्रवर्त्तन्ते तद्रूपा एव भावतः ॥ ७ ॥

यदशेषाभिर्महदादिकार्यग्रामजनिकाभिरात्मभूताभिः शक्तिभिः, प्रचितम्—युक्तं
सत्वरजस्तमसां साम्यावस्थालक्षणं प्रधानम्, तत एवैते महदादयः कार्यभेदाः प्रवर्त्तन्ते
इति कापिलाः । प्रधानादेवेत्यवधारणं कालपुरुषादिव्यवच्छेदार्थम् । केवलादिति
वचनं सेश्वरसाङ्ख्योपकल्पितेश्वरनिरासार्थम् । प्रवर्त्तन्त इति—साक्षात्पारम्पर्येण वो
त्पद्यन्त इत्यर्थः । तथाहि तेषां प्रक्रिया । प्रधानाद्बुद्धिः प्रथममुत्पद्यते, बुद्धेश्चाह
ङ्कारः, अहङ्कारात्पञ्चतन्मात्राणि शब्दस्पर्शरसरूपगन्धात्मकानि, इन्द्रियाणि चैका
दशोत्पद्यन्ते । पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणलक्षणानि, पञ्च कर्मेन्द्रि
याणि वाक्पाणिपादपायूपस्था मनश्चैकादशमिति । पञ्चभ्यश्च तन्मात्रेभ्यः पञ्च भू
तानि । शब्दादाकाशम्, स्पर्शाद्वायुः, रूपात्तेजः, रसादापः, गन्धात्पृथिवीति । य
थोक्तमीश्वरकृष्णेन—प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षो
डशकात्पञ्चभ्यः पञ्च भूतानि ॥
इति । तत्र महानिति बुद्धेराख्या । बुद्धिश्चायं
घटः पट इति विषयाध्यवसायलक्षणा । अहङ्कारस्तु—अहं सुभगोऽहं दर्शनीय इ
त्याद्यभिधानलक्षणः । मनस्तु सङ्कल्पलक्षणम् । तद्यथा—कश्चिदेवं बटुः श्रृणोति
ग्रामान्तरे भोजनमस्तीति, तत्र तस्य सङ्कल्पः स्यात्, यास्यामीति, किं तत्र गुडद