एतदेवागमेन संस्पन्दयन्नाह—यस्य यस्येत्यादि ।


यस्य यस्य हि शब्दस्य यो यो विषय उच्यते ।

स स (संविद्य)ते नैव वस्तूनां सा हि धर्मता ॥ ८७० ॥

यो यो विषय इति । स्वलक्षणसामान्यादिः । सा हि धर्मतेति । सा—प्रकृतिः,
सर्ववाक्पथातीतत्वं वस्तूनां स्वभाव इति यावत् । यथोक्तम्— येन येन हि नाम्ना
वै यो यो धर्मोऽभिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्मते
ति ॥ ८७० ॥


276

अथशब्दप्रत्ययस्य भ्रान्तत्वाविषयत्वयोः किं प्रमाणमिति चेत्, उक्तमत्र प्रमाण
मस्माभिर्यद्भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः सर्व एवायं शाब्दप्रत्ययो भ्रान्त इति ।
तथाहि—योऽतस्मिंस्तदिति प्रत्ययः स भ्रान्तो यथा मरीचिकायां जलप्रत्ययः, तथा
चायं भिन्नेष्वर्थेष्वभेदाध्यवसायी शाब्दप्रत्यय इति स्वभावहेतुः । नच सामान्यं व
स्तुभूतं ग्राह्यमस्यास्ति, येनासिद्धता हेतोरिति स्यात्, तस्य पूर्वं विस्तरेण निरस्त
त्वात् । भवतु वा सामान्यं, तथापि तस्य भेदेभ्योऽर्थान्तरत्वे भिन्नेष्वभेदाध्यवसायो
भ्रान्तिरेव, न ह्यन्येनान्ये समाना युक्तास्तद्वन्तो नाम स्युः । अनर्थान्तरत्वेऽपि सा
मान्यस्य सर्वमेव विश्वमेकमेव वस्तु परमार्थत इति तत्र सामान्यस्य प्रत्ययो भ्रान्ति
रेव । नह्येकवस्तुविषयः सामान्यप्रत्ययः, भेदग्रहणपुरःसरत्वात्तस्य । भ्रान्तत्वे च
सिद्धे निर्विषयत्वमपि सिद्धम् । स्वाकारार्पणेन जनकस्य कस्यचिदर्थस्यालम्बनलक्षण
प्राप्तस्याभावात् । अथवा—अन्यथा निर्विषयत्वं साध्यते । यत्रैव हि कुतसमया ध्व
नयः, स एव तेषामर्थो युक्तो नान्योऽतिप्रसङ्गात् । न च क्वचिद्वस्तुन्येषां परमार्थ
तः समयः समस्तीत्यतो निर्विषया धीध्वनयः । प्रयोगः—ये यत्र भावतः कृतसमया
न भवन्ति, न ते परमार्थतस्तमभिदधति, यथा सास्नादिमति पिण्डेऽश्वशब्दोऽकृत
समयः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन्वस्तुनि सर्वे ध्वनय इति व्याप
कानुपलब्धेः । कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात्, तस्य चेहाभावः । नचाय
मसिद्धो हेतुरित्यादर्शयन्नाह—यत इत्यादि ।