यतः स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा ।

बुद्ध्याकारो न शब्दार्थे घटामञ्चति तत्त्वतः ॥ ८७१ ॥

तथाहि गृहीतसमयं वस्तु शब्दार्थत्वेन व्यवस्थाप्यमानं कदाचित्स्वलक्षणं वा व्यव
स्थाप्यते, जातिर्वा, तद्योगो वा, तया—जात्या, योगः—सम्बन्धः, यद्वा जातीमान्,
पदार्थबुद्धेर्वा आकार, इति विकल्पाः । तत्र सर्वेष्वेव समयासम्भवान्न युक्तं शब्दार्थ
त्वम् । तत्त्वत इत्यनेन सांवृतस्य शब्दार्थस्याप्रतिषेधं दर्शयति । तेन स्ववचनव्याघातो
न भवति । अन्यथा हि प्रतिज्ञायाः स्ववचनविरोधः स्यात् । तथा ह्येतान्स्वलक्षणा
दीन्शब्देनाप्रतिपाद्य न शक्यमशब्दार्थत्वमेषां प्रतिपादयितुम् । तत्प्रतिपिपादयिषया
च शब्देन स्वलक्षणादीनुपदर्शयता शब्दार्थत्वमेषामभ्युपेतं स्यात् । पुनश्च तदेव प्रति
ज्ञया प्रतिषिद्धमिति स्ववचनव्याघातः । एतेन यदुक्तमुद्योतकरेण अवाचकत्वे श
277 ब्दानां प्रतिज्ञाहेत्वोर्व्याघात
इति तदपि प्रत्युक्तं भवति, नहि सर्वथा शब्दार्थापवा
दोऽस्माभिः क्रियते, तस्यागोपालमपि प्रतीतत्वात् । किन्तु तात्त्विकत्वं धर्मो यः
परैस्तत्रारोप्यते तस्य निषेधः क्रियते । न तु धर्मिणः ॥ ८७१ ॥