277 ब्दानां प्रतिज्ञाहेत्वोर्व्याघात इति तदपि प्रत्युक्तं भवति, नहि सर्वथा शब्दार्थापवा
दोऽस्माभिः क्रियते, तस्यागोपालमपि प्रतीतत्वात् । किन्तु तात्त्विकत्वं धर्मो यः
परैस्तत्रारोप्यते तस्य निषेधः क्रियते । न तु धर्मिणः ॥ ८७१ ॥


तत्र स्वलक्षणे तावत्सङ्केतासङ्केतसम्भवोपदर्शनादशब्दार्थत्वं प्रतिपादयन्नाह—तत्रेत्यादि ।


तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते ।

सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः ॥ ८७२ ॥

न शब्दैः प्रतिपाद्यत इति । तत्र सङ्केताभावादिति भावः । कथं सङ्केताभाव
इत्याह—सङ्केतेत्यादि । सङ्केतव्यवहाराभ्यामाप्तः प्राप्तो यः कालस्तस्य व्याप्तिर्व्या
पनं तया वियोगात्कारणात् । न तत्र स्वलक्षणे समय इति शेषः । एतदुक्तं भवति
—समयो हि व्यवहारार्थं क्रियते, न व्यसनितया, तेन यस्यैव सङ्केतव्यवहाराप्तकाल
व्यापकत्वमस्ति तत्रैव समयो व्यवहर्तॄणां युक्तो नान्यत्र । न च स्वलक्षणस्य सङ्के
तव्यवहाराप्तकालव्यापकत्वमस्ति । तस्मान्न तत्र समय इति ॥ ८७२ ॥


कस्मात्पुनः स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वं न सम्भवतीत्याह—व्य
क्त्यात्मान
इत्यादि ।


व्यक्त्यात्मानोऽनुयन्त्येते न परस्पररूपतः ।

देशकालक्रियाशक्तिप्रतिभासादिभेदतः ॥ ८७३ ॥

तस्मात्सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते ।

नचागृहीतसङ्केतो (बोध्येता)न्य इव ध्वनेः ॥ ८७४ ॥

सावलेयादयो हि व्यक्तिभेदा देशादिभेदेन परस्परतोऽत्यन्तव्यावृत्तमूर्त्तयो नैते
परस्परमन्वाविशन्ति । तत्रैकत्र कृतसमयस्य पुंसोऽन्यैर्व्यवहारो न स्यात् । प्रतिभासा
दीत्यादिशब्देन वर्णसंस्थानावस्थाविशेषादिपरिग्रहः । व्यवहारो न दृश्यत इति । तेन
तत्र समयाभावान्नासिद्धता हेतोरिति भावः । न चाप्यनैकान्तिकत्वमिति दर्शयन्नाह
नचागृहीतेत्यादि । गृहीतः सङ्केतो यत्र स तथा, न गृहीतसङ्केतोऽगृहीतस
ङ्केतः । अन्य इवेति । विजातीयार्थवत् । ध्वनेरिति । शब्दात् । एतदुक्तं भवति ।
यद्यगृहीतसङ्केतमर्थं शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यश्वं प्रतिपादयेत् । सङ्केतकर
णानर्थक्यं च स्यात् । तस्मादतिप्रसङ्गापत्तिर्बाधकं प्रमाणमिति सिद्धा व्याप्तिः । अ
यमेव चाकृतसमयत्वादिति हेतुराचार्यदिग्नागेन न जातिशब्दो भेदानां वाचक