तत्र स्वलक्षणे तावत्सङ्केतासङ्केतसम्भवोपदर्शनादशब्दार्थत्वं प्रतिपादयन्नाह—तत्रेत्यादि ।


तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते ।

सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः ॥ ८७२ ॥

न शब्दैः प्रतिपाद्यत इति । तत्र सङ्केताभावादिति भावः । कथं सङ्केताभाव
इत्याह—सङ्केतेत्यादि । सङ्केतव्यवहाराभ्यामाप्तः प्राप्तो यः कालस्तस्य व्याप्तिर्व्या
पनं तया वियोगात्कारणात् । न तत्र स्वलक्षणे समय इति शेषः । एतदुक्तं भवति
—समयो हि व्यवहारार्थं क्रियते, न व्यसनितया, तेन यस्यैव सङ्केतव्यवहाराप्तकाल
व्यापकत्वमस्ति तत्रैव समयो व्यवहर्तॄणां युक्तो नान्यत्र । न च स्वलक्षणस्य सङ्के
तव्यवहाराप्तकालव्यापकत्वमस्ति । तस्मान्न तत्र समय इति ॥ ८७२ ॥