364

ये पुनर्वस्तुविषयाः शब्दास्तेषां प्रतिबिम्बकमात्रवाचकत्वसिद्धौ प्रमाणयन्नाह—
तन्मात्रेत्यादि ।


तन्मात्रद्योतकाश्चेमे साक्षाच्छब्दाः ससंशयाः ।

सङ्केतसव्यपेक्षत्वात्कल्पितार्थाभिधानवत् ॥ १२०५ ॥

ये सङ्केतसव्यपेक्षास्तेऽर्थशून्याभिजल्पाहितवासनामात्रनिर्मितविकल्पप्रतिबिम्ब
कमात्रावद्योतकाः, यथा वन्ध्यापुत्रादिशब्दाः कल्पितार्थाभिधायिनः सङ्केतसव्यपे
क्षाश्च ससंशया विवादास्पदीभूता घटादयः शब्दा इति स्वभावहेतुः ॥ १२०५ ॥


एवं स्वपक्षं प्रसाध्य परपक्षनिषेधाय प्रमाणयन्नाह—परोपगतेत्यादि ।


परोपगतभेदादिविधानप्रतिपादकाः ।

न चैते ध्वनयस्तस्मात्तद्वदेवेति गम्यताम् ॥ १२०६ ॥

भेदः—स्वलक्षणम्, आदिशब्देन जात्यादिपरिग्रहः । तस्मादिति । सङ्केतसा
पेक्षत्वात् । तद्वदेवेति । कल्पितार्थाभिधानवत् ॥ १२०६ ॥


द्वयोरपि हेत्वोरनैकान्तिकतां परिहरन्नाह—सङ्केतासम्भव इत्यादि ।


सङ्केतासम्भवो ह्यत्र भेदादौ साधितः पुरा ।

वैफल्यं च न तद्धेत्वोः सन्दिग्धव्यतिरेकिता ॥ १२०७ ॥

अशक्यसमयत्वादनन्यभाक्त्वाच्चेति पूर्वं स्वलक्षणादौ सङ्केतासम्भवस्य सङ्केतवै
फल्यस्य च प्रसाधितत्वात् । तत्—तस्मात् । हेत्वोर्द्वयोर्न सन्दिग्धविपक्षव्यतिरेकि
तेति ॥ १२०७ ॥


नन्वित्यादिना परः प्रथमे हेतावनैकान्तिकतामुद्भावयति ।


ननु चापोहपक्षेऽपि कथं सङ्केतसम्भवः ।

साफल्यं च कथं तस्य न द्वयोः स हि सिद्ध्यति ॥ १२०८ ॥

वक्तृश्रोत्रोर्न हि ज्ञानं वेद्यते तत्परस्परम् ।

सङ्केते न च तद्दृष्टं व्यवहारे समीक्ष्यते ॥ १२०९ ॥

यथाहि स्वलक्षणादौ सङ्केतासम्भवो वैफल्यं च तथाऽपोहपक्षेऽपि समानम्,
ततश्चाकृतसमयत्वात्तन्मात्रद्योतकत्वमपि शब्दानां न युक्तमित्यनैकान्तिकता हेतोः ।
साफल्यं च कथमिति । सम्भवतीति शेषः । तस्येति । सङ्केतस्य । कथं पुनस्तत्र
सङ्केतासम्भव इत्याह—न द्वयोः स हि सिद्ध्यतीति । हिशब्दो हेतौ । यस्मा