365 त्प्रतिबिम्बात्मकोऽपोहः सङ्केतविषययोर्द्वयोर्वक्तृश्रोत्रोरेको न सिद्ध्यति । कस्मादित्याह
न हि ज्ञानमित्यादि । प्रत्यात्मसंवेदनीयमेवार्वाग्दर्शनानां ज्ञानम् । न ह्यन्यदी
यज्ञानमपरोऽपरदर्शनः संवेदयते । ज्ञानादव्यतिरिक्तश्च परमार्थतः प्रतिबिम्बात्मक
लक्षणापोहः । ततश्च वक्तृश्रोत्रोर्द्वयोरपि कस्यचिदेकस्य सङ्केतविषयस्यार्थस्यासिद्धेः
कुत्र सङ्केतः क्रियते गृह्यते वा । न ह्यसिद्धे वस्तुनि वक्ता सङ्केतं कर्तुमीशानोऽपि
श्रोता गृहीतुमतिप्रसङ्गात् । तथाहि—श्रोता यत्प्रतिपद्यते स्वविज्ञानारूढमर्थप्रति
बिम्बकं न तद्वक्रा संवेद्यते । यच्च वक्रा संवेद्यते न तच्छ्रोत्रा, स्वस्य स्वस्यैवावभा
सस्य वेदनात् आनर्थक्यं च प्रतिपादयन्नाह—सङ्केते न चेत्यादि । यत्सङ्केतकाले
प्रतिबिम्बकमनुभूतं श्रोत्रा वक्रा वा न तद्व्यवहारकालेऽनुभूयते । तस्य क्षणक्षयित्वेन
चिरनिरुद्धत्वात् । यच्च व्यवहारकालेऽनुभूयते न तत्सङ्केतकाले दृष्टम् । अन्यस्यैव
तदानीमनुभूयमानत्वात् । नचान्यत्र सङ्केतादन्यत्र व्यवहारो युक्तोऽतिप्रसङ्गादिति
॥ १२०८ ॥ १२०९ ॥


स्वस्य स्वस्येत्यादिना प्रतिविधत्ते ।


स्वस्य स्वस्यावभासस्य वेदनेऽपि स वर्त्तते ।

बाह्यार्थाध्यवसाये यद्द्वयोरपि समो यतः ॥ १२१० ॥

नहि परमार्थतो ज्ञानाकारोऽपि शब्दानां वाच्यतयाऽभीष्टो येन तत्र सङ्केतास
म्भवश्चोद्यते, यतः सर्व एवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वय
द्विचन्द्रदर्शनवद्भ्रान्त इष्यते, केवलमर्थशून्याभिजल्पवासनाप्रबोधाच्छब्देभ्योऽर्थाव
सायिविकल्पमात्रोत्पादात् । तत्प्रतिबिम्बकं शब्दानां वाच्यमित्यभिधीयते जननात्,
नत्वभिधेयतया । तत्र यद्यपि स्वस्य स्वस्यैवावभासस्य वक्तृश्रोतृभ्यां परमार्थतः संवे
दनं, तथापि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वाद्द्वयोरपि वक्तृश्रोत्रोर्बाह्यार्था
ध्यवसायस्तुल्य एव । तथापि वक्तुरयमभिमानो वर्त्तते—यमेवाहमर्थं प्रतिपद्ये
तमेवायं प्रतिपद्यत इति । एवं श्रोतुरपि योज्यम् । एकार्थाध्यवसायित्वं कथमनयो
र्वक्तृश्रोत्रोः परस्परं विदितमिति चेत्, यदि नाम परमार्थतो न विदितम्, तथापि
भ्रान्तिबीजस्य तुल्यत्वादस्त्येव परमार्थतः स्वप्रतिभासानुरोधेन तैमिरिकद्वयवद्भ्रान्त
एवायं व्यवहार इति निवेदितमेतत् । तेनैकार्थाध्यवसायवशात्सङ्केतकरणमुपपद्यत
एव ॥ १२१० ॥