स्वस्य स्वस्येत्यादिना प्रतिविधत्ते ।


स्वस्य स्वस्यावभासस्य वेदनेऽपि स वर्त्तते ।

बाह्यार्थाध्यवसाये यद्द्वयोरपि समो यतः ॥ १२१० ॥

नहि परमार्थतो ज्ञानाकारोऽपि शब्दानां वाच्यतयाऽभीष्टो येन तत्र सङ्केतास
म्भवश्चोद्यते, यतः सर्व एवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वय
द्विचन्द्रदर्शनवद्भ्रान्त इष्यते, केवलमर्थशून्याभिजल्पवासनाप्रबोधाच्छब्देभ्योऽर्थाव
सायिविकल्पमात्रोत्पादात् । तत्प्रतिबिम्बकं शब्दानां वाच्यमित्यभिधीयते जननात्,
नत्वभिधेयतया । तत्र यद्यपि स्वस्य स्वस्यैवावभासस्य वक्तृश्रोतृभ्यां परमार्थतः संवे
दनं, तथापि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वाद्द्वयोरपि वक्तृश्रोत्रोर्बाह्यार्था
ध्यवसायस्तुल्य एव । तथापि वक्तुरयमभिमानो वर्त्तते—यमेवाहमर्थं प्रतिपद्ये
तमेवायं प्रतिपद्यत इति । एवं श्रोतुरपि योज्यम् । एकार्थाध्यवसायित्वं कथमनयो
र्वक्तृश्रोत्रोः परस्परं विदितमिति चेत्, यदि नाम परमार्थतो न विदितम्, तथापि
भ्रान्तिबीजस्य तुल्यत्वादस्त्येव परमार्थतः स्वप्रतिभासानुरोधेन तैमिरिकद्वयवद्भ्रान्त
एवायं व्यवहार इति निवेदितमेतत् । तेनैकार्थाध्यवसायवशात्सङ्केतकरणमुपपद्यत
एव ॥ १२१० ॥


366

अत्र दृष्टान्तमाह—तिमिरोपहताक्षो हीत्यादि ।