275 न्यापोढ इत्युच्यते । तेनापोहः शब्दार्थ इति प्रसिद्धम् । तत्र विधिवादिनश्चोदयन्ति ।
यदि भवतां द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणा उपाधयो विशेषणानि शब्द
प्रत्ययं प्रति निमित्तानि परमार्थतो न सन्ति, तत्कथं लोके दण्डीत्यभिधानप्रत्ययाः
प्रवर्त्तन्ते द्रव्याद्युपाधिनिमित्ताः । तथाहि—दण्डी विषाणीत्यादिधीध्वनी लोके द्र
व्योपाधिकौ प्रसिध्दौ, शुक्लः कृष्ण इति गुणोपाधिकौ, चलति भ्रमतीति कर्मनिमित्तौ,
अस्ति विद्यत इति सत्ताप्रवृत्तिनिमित्तकौ, गौरश्वो हस्तीति सामान्यविशेषोपाधी, इह
तन्तुषु पट इति समवायबलात् । तत्रैषां द्रव्यादीनामभावे दण्डीत्यादिधीध्वनी नि
र्विषयौ स्यातामिति । आदिग्रहणं प्रत्येकमभिसम्बध्यते । तेन प्रत्येकं छत्री विषाणी
त्यादिसमानजातीयधीध्वनीनां ग्रहणं भवति । अन्त्यास्तु विशेषा योगिनामेव ग्राह्या
इति न तेषामादिशब्देन परिग्रहः । न चानिमित्तावेतौ युक्तौ, सर्वत्राविशेषेण सर्वदा
तयोर्वृत्तिप्रसङ्गात् । न चाविभागेन तयोः प्रवृत्तिरस्ति । तस्मात्सन्ति द्रव्यादय इति
परः । प्रयोगः—ये परस्परमसङ्कीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्ययाः,
असङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशब्दप्रत्यया इति स्वभावहेतुः । अनिमित्तत्वे सर्वत्रा
विशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणम् ॥ ८६७ ॥ ८६८ ॥


उच्यत इत्यादिना प्रतिविधत्ते ।


उच्यते विषयोऽमीषां धीध्वनीनां न कश्चन ।

अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम् ॥ ८६९ ॥

तत्र यदि मुख्यतो बाह्येन विषयभूतेन सनिमित्तत्वमेषां साधयितुमिष्टं तदाऽनैका
न्तिकता हेतोः साध्यविपर्यये बाधकप्रमाणाभावात् । अथ येन केनचिन्निमित्तेन स
निमित्तत्वमिष्यते तदा सिद्धसाध्यता । तथा ह्यस्माभिरिष्यत एवैषामन्तर्जल्पवासना
प्रबोधो निमित्तम्, न तु विषयभूतं, भ्रान्तत्वेन पूर्वस्य शाब्दप्रत्ययस्य निर्विषयत्वात् ।
अन्तर्मात्रानिविष्टमिति । विज्ञानसन्निविष्टं, वासनेति यावत् ॥ ८६९ ॥


एतदेवागमेन संस्पन्दयन्नाह—यस्य यस्येत्यादि ।


यस्य यस्य हि शब्दस्य यो यो विषय उच्यते ।

स स (संविद्य)ते नैव वस्तूनां सा हि धर्मता ॥ ८७० ॥

यो यो विषय इति । स्वलक्षणसामान्यादिः । सा हि धर्मतेति । सा—प्रकृतिः,
सर्ववाक्पथातीतत्वं वस्तूनां स्वभाव इति यावत् । यथोक्तम्— येन येन हि नाम्ना
वै यो यो धर्मोऽभिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्मते
ति ॥ ८७० ॥