प्रत्यक्षलक्षणपरीक्षा ।

तत्र प्रमाणे स्वरूपफलगोचरसङ्ख्यासु परेषां विप्रतिपत्तिश्चतुर्विधा । तन्निराकरणेन
स्पष्टं प्रमाणलक्षणमादर्शयितुं स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितमित्येतत्समर्थना
र्थमाह—प्रत्यक्षमित्यादि ।


प्रत्यक्षमनुमानं च यदुपाधिप्रसिद्धये ।

परैरुक्तं न तत्सिद्धमेवंलक्षणकं हि तत् ॥ १२१३ ॥

उपाधिप्रसिद्धय इति । गुणद्रव्यक्रियाजातिसमवायाद्युपाधिप्रसिद्धये । परै
रिति । वैशेषिकादिभिः । एवमिति । वक्ष्यमाणम् ॥ १२१३ ॥