368

चिन्तेत्यादिना भूयः प्रत्यक्षतः कल्पनासिद्धिमाह ।


चिन्तोत्प्रेक्षादिकाले च विस्पष्टं या प्रवेद्यते ।

अनुविद्धेव सा शब्दैरपह्नोतुं न शक्यते ॥ १२१७ ॥

तस्याश्चेत्यादिना शाब्दव्यवहाराख्यकार्यलिङ्गतोऽपि सिद्धिमाह ।


तस्याश्चाध्यवसायेन भ्रान्ता शब्दार्थयोः स्थितिः ।

अन्यायोगादसत्त्वेऽस्याः सेदृश्यपि च सम्भवेत् ॥ १२१८ ॥

यतस्तात्त्विकी शब्दार्थव्यवस्था पूर्वैर्निषिद्धा, भ्रान्तेति च व्यवस्थापिता । यदि
चास्याः कल्पनाया असत्त्वं स्यात्तदा सा—शब्दार्थव्यवस्था, ईदृश्यपि—भ्रान्तापि,
न सम्भवेत्, तदभिप्रायवशात्तस्याव्यवस्थानात् । अन्येषां च स्वलक्षणादीनां बाह्यानां
वाच्यत्वेनायोगस्य प्रतिपादितत्वात् ॥ १२१८ ॥


ननु चान्येऽपि न केवलमभिलापिनीं प्रतीतिं कल्पनां वर्णयन्ति, किन्तु जातिगु
णक्रियादिसम्बन्धयोग्यामपि । सा कस्मान्न गृह्यत इत्याह—जात्यादीत्यादि ।


जात्यादियोजनायोग्यामप्यन्ये कल्पनां विदुः ।

सा जात्यादेरपास्तत्वाददृष्टेश्च न सङ्गता ॥ १२१९ ॥

अदृष्टेश्चेति । जात्यादेरिति सम्बन्धः । अयं चाभ्युपगम्य जात्यादीन्परिहार
उक्तः ॥ १२१९ ॥


जात्यादीनामित्यादिना तदेवादृष्टत्वं समर्थयते ।


जात्यादीनामदृष्टत्वात्तद्योगाप्रतिभासनात् ।

क्षीरोदकादिवच्चार्थे घटना घटते कथम् ॥ १२२० ॥

क्षीरोदकादिवच्चेति । यथा क्षीरोदकादेर्मिश्रीभूतस्य विवेकेनाप्रतिभासनान्न
घटना शक्यते कर्तुं तद्वज्जात्यादीनां सत्त्वेऽपि विवेकेनाश्रयादप्रतिभासनान्न शक्यते
तदाश्रयेण सहेत्यर्थः ॥ १२२० ॥


यदि तर्हि जात्यादियोजना कल्पना न युक्तैव, तत्कथं लक्षणकारेणोक्तं नाम
जात्यादियोजना कल्पनेति, आह—हेयेत्यादि ।


हेयोपादेयविषयकथनाय द्वयोक्तितः ।

परापरप्रसिद्धेयं कल्पना द्विविधोदिता ॥ १२२१ ॥

तत्र हेया जात्यादियोजना परप्रसिद्धा कल्पना, उपादेया स्वप्रसिद्धा नामयोज
नाकल्पना, इति दर्शनाय द्विप्रकाराऽपि कल्पना निर्दिष्टा । कथमवगम्यत इत्याह—