स्वातिरिक्तेत्यादिना शङ्करस्वामी प्रमाणयति ।


स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वतः ।

वास्यादिवच्चेद्वैफल्यमन्यद्ध्यपि फलं मतम् ॥ १३५३ ॥

उक्तन्यायेन वास्यादेरन्यदस्ति फलं न च ।

कारकत्वं च नो सिद्धं जनकत्वविवक्षया ॥ १३५४ ॥

स्थापकत्वविवक्षायां न विरोधोऽस्ति कश्चन ।

तेनानैकान्तिको हेतुर्विरोधाप्रतिपादनात् ॥ १३५५ ॥

आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्वास्यादिवदिति । वैफल्यमित्यादिना
दूषयति । विफलं, सिद्धसाध्यतादोषात् । यतोऽन्यदपि जन्यं फलं परिच्छेदेत्यादिना
कथितम् । हिशब्दो हेतौ । वास्यादिवदिति च साध्यविकलो दृष्टान्तश्छिदया सहै
कत्वस्य प्रतिपादितत्वात् । कारकत्वादिति च जन्यजनकत्वविवक्षायामसिद्धो हेतुः,
स्थापकत्वेनैवेष्टत्वात् । साधनस्य स्थापकत्वविवक्षायामप्यनैकान्तिको विरोधाभा
वात् । सामान्यविवक्षायामनैकान्तिक एव, विरोधस्यानुपदर्शितत्वात् ॥ १३५३ ॥
॥ १३५४ ॥ १३५५ ॥