ननु च यदि विषयाकारं ज्ञानं स्यात्तदा भवेद्विषयसारूप्यस्य प्रामाण्यम्, या
वता ग्राह्यविषयसमानाकारं समानस्वभावं ज्ञानमुपपद्यते, नैव तथा, ग्राह्याज्जात्यन्त
रत्वाद्रूपरसयोरिवेत्याह—ग्राह्येत्यादि ।


ग्राह्यसाधारणाकारं तस्माज्जात्यन्तरत्वतः ।

रसरूपादिवज्ज्ञानं नैव चेदुपपद्यते ॥ १३५६ ॥

न्यायानुसरणे सर्वमस्माभिरुपवर्णितम् ।

इदमन्यच्च विस्पष्टं ग्राह्यग्रहविवेचने ॥ १३५७ ॥

402

विज्ञानवादन्यायानुसारिभिरस्माभिरेतदिष्टमेवेति न किंचित्क्षीयते । तथाहि—य
त्किंचिदिदमस्पष्टं भवता ग्राह्यदूषणमभिहितम् । इदं तु स्पष्टं ग्राह्यविवेचनाय साध
नमभिधीयतेऽस्माभिः । ग्राह्ये ग्रहोऽभिनिवेशस्तस्य विवेचनमपनयनम् ॥ १३५६ ॥
॥ १३५७ ॥