तत्र सविकल्पकमज्ञानस्वभावं वा चक्षुरादिकं प्रत्यक्षं प्रमाणमिति प्रत्यक्षस्वरूप
विप्रतिपत्तिः, तन्निराकरणेन तल्लक्षणमाह—प्रत्यक्षं कल्पनापोढमभ्रान्तमिति ।


प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी ।

प्रतीतिः कल्पना क्लृप्तिहेतुत्वाद्यात्मिका न तु ॥ १२१४ ॥

तत्र ज्ञानस्य कल्पनापोढत्वमभ्रान्तत्वं चानूद्य प्रत्यक्षत्वं विधीयते, सर्वत्रैव ल
क्ष्यस्य विधीयमानत्वात् । यथा—यः कम्पते सोऽश्वत्थ इति । लक्ष्यमत्र प्रत्यक्षम् ।
तल्लक्षणस्यैव प्रस्तुतत्वात् । नतु कल्पनापोढाभ्रान्तलक्षणं प्रकृतं, येन तद्विधीयत
367 इति स्यात् । कल्पनाप्रतिषेधाच्च ज्ञानस्य सामर्थ्यलब्धत्वात्, अवत्सा धेनुरानीयता
मिति यथा वत्सप्रतिषेधेन गोधेनोः, इत्यतो ज्ञानमिति नोक्तम् । का पुनरत्र कल्प
नाऽभिप्रेता ? यदपोढं ज्ञानं प्रत्यक्षमित्याह—अभिलापिनी प्रतीतिः कल्पनेति ।
अथ यस्यां क्लृप्तिहेतुत्वाद्यात्मिकायां शङ्करस्वामिप्रभृतयो विस्तरेण दोषमुक्तवन्तः
सापि किं गृहीतव्या उत नेत्याह—क्लृप्तिहेतुत्वाद्यात्मिका नत्विति । गृह्यत इति
शेषः । तेन तदाश्रयेण ये दोषाः परेणोक्तास्ते तत्पक्षानङ्गीकारादेव नावतरन्तीत्युक्तं
भवति । क्लृप्तिर्व्यपदेशस्तद्धेतुत्वं जात्यादीनामिति बोद्धव्यम्, यतो जात्यादिविशेष
मन्तरेण न व्यपदेशोऽस्ति । आदिशब्देन शब्दसंसर्गचित्तौदारिकसूक्ष्मताहेतू वितर्क
विचारौ तथा ग्राह्यग्राहककल्पनेत्येवमादि ग्रहीतव्यम् । अभिलापो—वाचकः शब्दः,
स च सामान्याकारः, स विद्यते यस्याः प्रतिभासतः सा तथोक्ता ॥ १२१४ ॥