अन्यथेत्यादिना सविस्तरमन्वयव्यतिरेकसंदर्शनेनान्यथानुपपन्नत्वैकलक्षणं हेतुं
समर्थयते ।


अन्यथाऽनुपपन्नत्वं यस्यासौ हेतुरिष्यते ।

एकलक्षणकः सोऽर्थश्चतुर्लक्षणको न वा ॥ १३६५ ॥

एकं लक्षणमन्यथाऽनुपपन्नत्वं यस्यास्ति स एकलक्षणः । स एव लौकिकैः परी
क्षकैर्वा हेतुरिष्यते, नान्यः । अर्थापत्त्या तु पक्षधर्मत्वादित्रयमनेनैवाक्षिप्यत इति
चतुर्लक्षणकोऽपि वा भवतु । न वा चतुर्लक्षणो यस्मात्क्वचिदेकलक्षणो द्विलक्षणस्त्रि
लक्षणोऽपि वा न्याय्यः, यस्मादन्यथानुपपत्तिरेकं लक्षणं तेनैकलक्षण इति व्यपदि
श्यते, अन्यथाऽनुपपत्तिसहितां सजातीयसिद्धतां विजातीयव्यावृत्तिं चाभिस
मीक्ष्य द्विलक्षणः, अन्यथानुपपन्नत्वं सजातीयवृत्तिः साध्यविपक्षाच्च व्यावृत्तिरिति
त्रिलक्षणः । न तु पक्षधर्मत्वादिलक्षणधर्मत्रययोगात्रिलक्षणहेतुरिष्यते । तस्य सम्य
ग्ज्ञानं प्रति हेतुत्वानुपपत्तेः ॥ १३६५ ॥