432
लौकिकं लिङ्गमिष्टं चेन्न त्वन्यैः परिकल्पितम् ।

ननु लोकोऽपि कार्यादेर्हेत्वादीनवगच्छति ॥ १४८२ ॥

तत्त्वतस्तु तदेवोक्तं न्यायवादिभिरप्यलम् ।

तल्लौकिकाभ्यनुज्ञाते किं त्यक्तं भवति स्वयम् ॥ १४८३ ॥

ननु लोकोऽपीति । हेत्वादीनवगच्छतीति सम्बन्धः । कार्यादेरित्यादिशब्दात्स्व
भावग्रहणम् । एवं हेत्वादीनित्यत्रापि स्वभावग्रहणमेव । बहुवचनं तु व्यक्तिभेदात् ।
यदेव लिङ्गं तादात्म्यतदुत्पत्तिप्रतिबद्धाल्लोकार्थ प्रतिपद्यते तदेवोक्तं लिङ्गमस्माभिः,
तदभ्यनुज्ञाने किं त्यक्तं स्याद्यस्यानुमानत्वनिषेधो भवेत् ॥ १४८२ ॥ १४८३ ॥


अथापि स्यान्नैवास्माकं किंचिदनुमानमिष्टं, किंतु परेण तत्प्रमाणमिष्टं,तदभ्युप
गमान्मम विफला व्याहृतिर्न भवतीति, अत्राह—अप्रमाणेनेत्यादि ।


अप्रमाणेन चैतेन परः किं प्रतिपद्यते ।

अप्रमाणकृतश्चासौ प्रत्ययः कीदृशो भवेत् ॥ १४८४ ॥

कुतश्चायं निश्चयो जातः परेण तत्प्रमाणमभ्युपगतमिति, नहि पराभ्युपगमः
प्रत्यक्षः, न चान्यत्तव प्रमाणमस्ति, येन निश्चयः स्यात् । भवतु नाम निश्चयः,
तथाऽपि तेनाप्रमाणेन पराभ्युपगतेन किमिति परः प्रतिपद्यते, न वै व्यसनमेतत् ।
अथापि स्याद्यथा रिपुहस्तादाच्छिद्य खङ्गं तेनैव स एव रिपुर्निपात्यते, एवं परेण
यत्प्रमाणत्वेनाभ्युपगतं तदेव गृहीत्वा परो निराक्रियत इत्याशङ्क्याह—अप्रमाणकृत इति । एतदुक्तं भवति—यदि मोहात्परेणाप्रमाणमेव प्रमाणमिति कृत्वा संगृहीतं
कथं तेनाप्रमाणेन परस्य सम्यग्ज्ञानोत्पादनं शक्यते कर्तु, सम्यग्ज्ञानफलत्वात्प्रमा
णस्य । नहि मोहात्खड्ग इति कृत्वा गृहीतेन येनकेनचिच्छेदकेन परश्छेत्तुं शक्यत
इति न समानो दृष्टान्तः ॥ १४८४ ॥


अविद्धकर्णस्तत्वटीकायामाह—ननु वा प्रमाणेन किमिति परः प्रतिपाद्यते, उभ
यसिद्धं हि प्रतिपादकं भवतीति । तदेतदयुक्तम् । यस्माद्वचनात्मकमनुमानं नच
वक्तुः प्रमाणम्, अथ च वक्ता तेन परं प्रचिपादयति,परप्रतिपादनार्थत्वात्प्रयासस्य ।
नावश्यमुभयसिद्धेन प्रयोजनमिति । तदाशङ्कते—अनुमानमित्यादिना ।


अनुमानं प्रमाणं चेद्वक्तुचेच्चक्रुर्न वचनात्मकम् ।

प्रकाशयति तेनायं यथा तद्वदिदं भवेत् ॥ १४८५ ॥