433
अज्ञातार्थाप्रकाशत्वादप्रमाणं तदिष्यते ।

नवक्तुःनाशक्तसूचकत्वेन तावकीनं तथा नतुननु ॥ १४८६ ॥

इत्यनुमानपरीक्षा ।

अयमिति । वक्ता । तेनेति । वचनात्मकेन । अज्ञातेत्यादिना दूषणमाह—
नहि वचनस्य वक्रपेक्षया संसूचनादप्रामाण्यमिष्टं, किं तर्हि ? । अज्ञातार्थाप्रकाश
नात् । वक्तुःसक्तसूचकत्वमस्यास्त्येव । त्वदीयं त्वनुमानं न वक्तुःसक्तसंसूचकमित्यसमानमेतत् ।
अन्यथा ह्युभयसिद्धमेव भवेत् । तस्मान्न्यायादनपेतं प्रमाणं सर्वेषां युक्तं प्रत्यक्षव
दिति न्याय्यम् ॥ १४८५ ॥ १४८६ ॥


इत्यनुमानपरीक्षा ।

प्रमाणान्तरपरीक्षा ।

शाब्दविचारः ।

इदानीं प्रमाणद्वितयनियमसाधनार्थं सङ्ख्याविप्रतिपत्तिकरणार्थमाह—नन्वित्यादि ।


ननु शब्दप्रमाणादिप्रमाणान्तरसम्भवात् ।

निर्दिष्टं लक्षणं कस्माद्द्वयोरेव प्रमाणयोः ॥ १४८७ ॥

अनेनाव्यापितां प्रमाणलक्षणस्य दोषं प्रमाद्वितयनिश्चितमित्यत्र द्वितयावधारणवै
फल्यं चाह ॥ १४८७ ॥


उच्यत इत्यादिना परिहरति ।


उच्यते न द्वयादन्यत्प्रमाणमुपपद्यते ।

प्रमाणलक्षणायोगाद्योगे चान्तर्गमादिह ॥ १४८८ ॥

अन्तर्गमादिहेति । अस्मिन्नेव प्रमाणद्वये । एतदुक्तं भवति—प्रमाणद्वयादन्यस्य
प्रमाणलक्षणमविसंवादित्वं नास्त्येव, सति चात्रैवान्तर्भावात्पृथङ्न्ोच्यते प्रमाणा
न्तरमिति ॥ १४८८ ॥


तत्र कथमन्येषामप्रामाण्यं प्रामाण्ये वा कथमिहान्तर्भाव इत्येतद्द्वयं प्रतिपादयति ।
अत्र शाब्दोपमार्थापत्त्यभावयुक्त्यनुपलब्धिसम्भवैतिह्यप्रतिभाख्यानिख्यातिप्रमाणान्तराणि परै
रभ्युपगतानि । तत्र शाब्दमधिकृत्याह—शब्दज्ञानादित्यादि ।


शब्दज्ञानात्परोक्षार्थज्ञानं शाब्दं परे जगुः ।

तच्चाकर्तृकतो वाक्यात्तथा प्रत्ययिनोदितात् ॥ १४८९ ॥

इदं च किल नाध्यक्षं परोक्षविषयत्वतः ।

नानुमानं च घटते तल्लक्षणवियोगतः ॥ १४९० ॥