405

अन्यथेत्यादिना पात्रस्वामिमतमाशङ्कते—


अन्यथाऽनुपपन्नत्वे ननु दृष्टा सुहेतुता ।

नासति त्र्यंशकस्यापि तस्मात्क्लीबास्त्रिलक्षणाः ॥ १३६४ ॥

स ह्याह । अन्यथाऽनुपपन्नत्वं एव शोभनो हेतुर्न तु पुनस्त्रिलक्षणः । तथाह्यसत्य
न्यथानुपपन्नत्वे त्र्यंशकस्यापि तत्पुत्रत्वादेर्न दृष्टा सुहेतुता । तस्मात् क्लीबाः—अ
सक्ताः, त्रिलक्षणा हेतव इति । अन्यथेति । साध्येन विनाऽनुपपन्नत्वं, हेतोः साध्य
एव सत्त्वमित्यर्थः ॥ १३६४ ॥


अन्यथेत्यादिना सविस्तरमन्वयव्यतिरेकसंदर्शनेनान्यथानुपपन्नत्वैकलक्षणं हेतुं
समर्थयते ।


अन्यथाऽनुपपन्नत्वं यस्यासौ हेतुरिष्यते ।

एकलक्षणकः सोऽर्थश्चतुर्लक्षणको न वा ॥ १३६५ ॥

एकं लक्षणमन्यथाऽनुपपन्नत्वं यस्यास्ति स एकलक्षणः । स एव लौकिकैः परी
क्षकैर्वा हेतुरिष्यते, नान्यः । अर्थापत्त्या तु पक्षधर्मत्वादित्रयमनेनैवाक्षिप्यत इति
चतुर्लक्षणकोऽपि वा भवतु । न वा चतुर्लक्षणो यस्मात्क्वचिदेकलक्षणो द्विलक्षणस्त्रि
लक्षणोऽपि वा न्याय्यः, यस्मादन्यथानुपपत्तिरेकं लक्षणं तेनैकलक्षण इति व्यपदि
श्यते, अन्यथाऽनुपपत्तिसहितां सजातीयसिद्धतां विजातीयव्यावृत्तिं चाभिस
मीक्ष्य द्विलक्षणः, अन्यथानुपपन्नत्वं सजातीयवृत्तिः साध्यविपक्षाच्च व्यावृत्तिरिति
त्रिलक्षणः । न तु पक्षधर्मत्वादिलक्षणधर्मत्रययोगात्रिलक्षणहेतुरिष्यते । तस्य सम्य
ग्ज्ञानं प्रति हेतुत्वानुपपत्तेः ॥ १३६५ ॥


अथवा प्राधान्यादन्यथाऽनुपपत्तिनामधेयेनैवैकलक्षणव्यपदेशो न तु पक्षधर्मत्वा
दिभिस्तेषामप्राधान्यादकिञ्चित्करत्वाद्वेत्येतद्दर्शयन्नाह—यथेत्यादि ।


यथा लोके त्रिपुत्रः सन्नेकपुत्रक उच्यते ।

तस्यैकस्य सुपुत्रत्वात्तथेहापि च दृश्यताम् ॥ १३६६ ॥

ननु चाविनाभावसम्बन्धात्रिरूपस्यैव सुहेतुतासहेतुता युक्तेत्याह—अविनेत्यादि ।


अविनाभावसम्बन्धस्त्रिरूपेषु न जातुचित् ।

अन्यथाऽसम्भवैकाङ्गहेतुष्वेवोपलभ्यते ॥ १३६७ ॥

अन्यथासम्भव एकमङ्गं येषां ते तथोक्तास्ते च ते हेतवश्चेत्यन्यथासम्भवैकाङ्गहे
तवः ॥ १३६७ ॥