अथ मतं नाभ्यां कार्यकारणताऽभावौ साध्येते, किं तर्हि, व्यवहार इति, तत्राह
तद्भावव्यवहार इत्यादि ।


तद्भावव्यवहारे तु योग्यतायाः प्रसाधने ।

सङ्केतकाले विज्ञातो विद्यतेऽर्थो निदर्शनम् ॥ १६९८ ॥

इति युक्त्यनुपलब्धिविचारः ।

तयोर्हेतुफलताभावयोर्भावस्तद्भावस्तत्र व्यवहारो यः स तद्भावव्यवहारः । ज्ञा
नाभिधानप्रवृत्तिलक्षणमनुष्ठानं तस्मिन्योग्यता साध्यते । प्रयोगश्च—ये यद्व्यापारा
नन्तरनियतोपलभ्यस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा सङ्केतकालानुभूताः
कुलालादिव्यापारानन्तरोपलभ्यस्वभावा घटादयः, तथाच ताल्वादिव्यापारान
न्तरनियतोपलभ्यस्वभावाः शब्दा इति स्वभावहेतुः । तथानुपलब्धावपि व्यवहारे
साध्ये प्रयोगः—येषामुपलब्धिलक्षणप्राप्ताभिमतानां येष्वनुपलब्धिस्ते तदभावव्यव
हारयोग्याः, तद्यथा विषाणाभावव्यवहारयोग्याः शशशमस्तकादयः, उपलब्धिलक्ष
484 णप्राप्ताभिमतानां पराभिमतसामान्यादिपदार्थानामनुपलब्धिश्च तदाश्रयत्वेनेष्टेषु साव
लेयादिष्विति स्वभावानुपलब्धिः । तद्विविक्तानां सावलेयादीनामुपलम्भान्नासिद्धिः,
नाप्यनैकान्तिकता हेतोरभिव्यक्तेर्निराकरिष्यमाणत्वात्, एतावन्मात्रनिबन्धनत्वाच्चा
भावव्यवहृतेः, नापि विरुद्धता सपक्षे भावादिति ॥ १६९८ ॥