सम्भवविचारः ।

तत्र सम्भवश्च लक्षणया समुदायः । सम्भवप्रतिपत्तौ समुदायिप्रतिपत्तिः । यथा—
सहस्रसद्भावे ज्ञाते शतादिसत्ताप्रतिपत्तिः । इदं च किल दृष्टान्ताभावान्नानुमानम् ।


अत्र दूषणमाह—समुदायेत्यादि ।


समुदायव्यवस्थाया हेतवः समुदायिनः ।

शतादिसम्भवज्ञानं सहस्रात्कार्यलिङ्गजम् ॥ १६९९ ॥

इति सम्भवविचारः ।

यस्मात्समुदायिभ्योऽन्यस्य समुदायस्याभावात्समुदायव्यवस्थायाः समुदायिन एव
कारणं तस्मात्सहस्राच्छतादिसंभवप्रतीतिः कार्यलिङ्गजैव ॥ १६९९ ॥