ऐतिह्यादिविचारः ।

अन्ये त्वैतिह्यादि च प्रमाणान्तरमिच्छन्ति, तत्रानिर्दिष्टवक्तृकं प्रवादपारम्पर्यमै
तिह्यम् । यथा—इह वटे यक्षः प्रतिवसतीति । अनियतदेशकालमाकस्मिकं सदस
त्सूचकं ज्ञानं प्रतिभा । यथा—कुमार्या ए भवति, अद्य मे भ्राता आगमिष्य
तीति । तच्च किल तथैव भवतीति प्रमाणम् । अत्र दूषणमाह—ऐतिह्येत्यादि ।


ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता ।

नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ॥ १७०० ॥

इत्यैतिह्यादिविचारः ।

आदिशब्देन प्रत्यभिज्ञादीनां ग्रहणम् । तेषामपि परैः कैश्चित्प्रमाणत्वेन गृहीत
त्वात् । अतिप्रसङ्गत इति । स्वप्नान्तिकस्यापि कदाचित्सत्यतादर्शनात्प्रमाणान्तरत्वं
स्यात् ॥ १७०० ॥