485

एवं विस्तरेण प्रमाणान्तरं निराकृत्य सङ्क्षेपेण निराकुर्वन्नाह—अथवेत्यादि ।


अथवाऽस्थान एवायमायासः क्रियते यतः ।

प्रत्यक्षश्च परोक्षश्च द्विधैवार्थो व्यवस्थितः ॥ १७०१ ॥

द्विविध एव ह्यर्थः प्रत्यक्षः परोक्षश्च ॥ १७०१ ॥


ननु चापरोऽप्यस्ति प्रत्यक्षाप्रत्यक्षः, नैव प्रत्यक्षो नाप्यप्रत्यक्ष इत्याह—उभये
त्यादि ।


उभयानुभयात्मा हि नैवासौ युज्यते परः ।

एकस्यैकत्र विज्ञाने व्याहते हि क्रियाक्रिये ॥ १७०२ ॥

साक्षाद्धि ज्ञानजनकः प्रत्यक्षो ह्यर्थ उच्यते ।

यथोक्तविपरीतस्तु परोक्षः कृतिभिर्मतः ॥ १७०३ ॥

आद्यार्थविषयं तावन्नेदं शाब्दोपमादिकम् ।

प्रत्यक्षेऽन्तर्गतिप्राप्तेर्वैफल्यं वा स्मृतेरिव ॥ १७०४ ॥

परोक्षविषयत्वेऽपि सर्वेषां विषयः कथम् ।

यदि साक्षात्परोक्षोऽयं न स्यात्प्रत्यक्षवस्तुवत् ॥ १७०५ ॥

परव्यपाश्रयेणापि प्रतिपत्तौ किमस्य सा ।

सम्बद्धेतरतो नो वा भेदाभासा न वा तथा ॥ १७०६ ॥

असम्बद्धात्तदुद्भूतावव्यवस्था प्रसज्यते ।

न च संगच्छते व्याप्तिर्भेदाभासा भवेद्यदि ॥ १७०७ ॥

परोक्षविषया यावत्सम्बद्धार्थसमाश्रया ।

अपरामृष्टतद्भेदा प्रतीतिरनुमा स्फुटा ॥ १७०८ ॥

इति प्रमाणान्तरपरीक्षा ।

न ह्येकस्यान्योन्यप्रत्यनीकानेकधर्मसम्पातो युक्तः, एकत्वहानिप्रसङ्गात्, तथाहि
—विशिष्टस्याव्यवधानेन यथागृहीतार्थावसायकारणस्य ज्ञानस्य साक्षाल्लिङ्गादिव्यव
धानं विना जनकोऽर्थः प्रत्यक्ष उच्यते । एवं च कृत्वा क्षणिकः शब्द इत्यादिज्ञान
मप्रत्यक्षार्थमिति सिद्धम् । नचैकस्य पदार्थस्यैकत्र क्रियाक्रिये युक्ते, येन विज्ञानजन
कत्वाजनकत्वाभ्यां प्रत्यक्षाप्रत्यक्षस्वभावो भवेत् । नाप्यनुभयस्वभावो युक्तः, एक
स्वभावनिषेधस्यापरस्वभावविधिनान्तरीयकत्वाद्वस्तुनः । अनेकस्य तु नैकत्र क्रिया