तत्र कथमन्येषामप्रामाण्यं प्रामाण्ये वा कथमिहान्तर्भाव इत्येतद्द्वयं प्रतिपादयति ।
अत्र शाब्दोपमार्थापत्त्यभावयुक्त्यनुपलब्धिसम्भवैतिह्यप्रतिभाख्यानिख्यातिप्रमाणान्तराणि परै
रभ्युपगतानि । तत्र शाब्दमधिकृत्याह—शब्दज्ञानादित्यादि ।


शब्दज्ञानात्परोक्षार्थज्ञानं शाब्दं परे जगुः ।

तच्चाकर्तृकतो वाक्यात्तथा प्रत्ययिनोदितात् ॥ १४८९ ॥

इदं च किल नाध्यक्षं परोक्षविषयत्वतः ।

नानुमानं च घटते तल्लक्षणवियोगतः ॥ १४९० ॥

434
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत्सुनिश्चितम् ।

न भवेदनुमानं च यावत्तद्विषयं न तत् ॥ १४९१ ॥

तत्र शबरस्वामी शाब्दलक्षणमाह—शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दमिति ।
शब्दस्वलक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तच्छब्दादागतमिति कृत्वा
शाब्दप्रमाणम् । तच्च द्विविधम् । अपौरुषेयशब्दजनितं प्रत्ययितपुरुषवाक्यजं च ।
एतच्च प्रत्यक्षाद्भिन्नं परोक्षविषयत्वात् । नाप्यनुमानं त्रैरूप्याभावात् । तथाहि—
साध्यधर्मविशिष्टो धर्मी अनुमेय इष्यते, न केवलो नापि धर्ममात्रम्, यावच्च तद्धर्मि
त्वेन धर्मिविषयं लिङ्गं नावधार्यते न तावदनुमानस्य प्रवृत्तिः सम्भवति । यावत्प
क्षधर्मत्वावधारणा न भवति न तावदनुमानमिति यावत् ॥ १४८९ ॥ १४९० ॥
॥ १४९१ ॥