अन्यथेति । यदि च भावो भावान्तरातुल्यः स्यात्तदा किमिति घटादिष्वेव
भावो भाव इत्यभिन्ना बुद्धिर्भवति नतु काकदन्तादिष्विति तत्र कारणं वक्तव्यम्,
सारूप्यं कारणमिति चेत्तदेव तर्हि सामान्यमिति सिद्धं, सामान्यपर्यायत्वात्सारू
प्यस्य । अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता
शक्तिः कारणमिति चेत् । साऽप्यनेनैव सारूप्येणोपवर्णिता—व्याख्याता । सारूप्य
वदत्रापि समानमुत्तरमिति यावत् । तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद्वस्तु
रूपेण सर्वं घटादि परस्परमभिन्नमिति सिद्धम् ॥ १७१४ ॥ १७१५ ॥ १७१६ ॥
अन्यथा हि न सा बुद्धिर्बलिभुग्दशनादिषु ।
वर्त्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥ १७१४ ॥
सारूप्यान्नियमोऽयं चेत्सामान्यं च तदेव नः ।
स्वभावानुगता शक्तिरनेनैवोपवर्णिता ॥ १७१५ ॥
अत्यन्तभिन्नता तस्माद्धटते नैव कस्यचित् ।
सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥ १७१६ ॥