488
अत्यन्तभिन्नता तस्माद्धटते नैव कस्यचित् ।

सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥ १७१६ ॥

अन्यथेति । यदि च भावो भावान्तरातुल्यः स्यात्तदा किमिति घटादिष्वेव
भावो भाव इत्यभिन्ना बुद्धिर्भवति नतु काकदन्तादिष्विति तत्र कारणं वक्तव्यम्,
सारूप्यं कारणमिति चेत्तदेव तर्हि सामान्यमिति सिद्धं, सामान्यपर्यायत्वात्सारू
प्यस्य । अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता
शक्तिः कारणमिति चेत् । साऽप्यनेनैव सारूप्येणोपवर्णिता—व्याख्याता । सारूप्य
वदत्रापि समानमुत्तरमिति यावत् । तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद्वस्तु
रूपेण सर्वं घटादि परस्परमभिन्नमिति सिद्धम् ॥ १७१४ ॥ १७१५ ॥ १७१६ ॥


भेदसमर्थनार्थमाह—अवधीकृत इत्यादि ।


अवधीकृतवस्तुभ्यो वैरुप्यरहितं यदि ।

तद्वस्तु न भवेद्भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥ १७१७ ॥

तेभ्यः स्वरूपं भिन्नं हि वैरूप्यमभिधीयते ।

वैरूप्यं न च भिन्नं चेत्येतदन्योन्यबाधितम् ॥ १७१८ ॥

तस्माद्भिन्नत्वमर्थानां कथंचिदुपगच्छता ।

वैरूप्यमुपगन्तव्यं विशेषात्मकताऽप्यतः ॥ १७१९ ॥

अवधीकृतेभ्य इति । पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवे
त्तदाऽभेदात्तेभ्यः पटादिभ्यस्तद्धटादि भिन्नं न भवेदात्मस्वरूपवदभिन्नत्वप्रसङ्गात् ।
तथाहि—तेभ्यः पटादिभ्यो यद्विभिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते
नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनां नच घटादिभ्यो भेदोऽस्तीति स्ववचन
व्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ १७१७ ॥ १७१८ ॥ १७१९ ॥


एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहार
हेतुत्वं प्रतिपादयन्नाह—वस्त्वेकात्मकमेवेदमिति ।


वस्त्वेकात्मकमेवेदमनेकाकारमिष्यते ।

ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥ १७२० ॥

आद्या एतेऽनुवृत्तत्वात्सामान्यमिति कीर्त्तिताः ।

विशेषास्त्वभिधीयन्ते व्यावृत्तत्वात्ततोऽपरे ॥ १७२१ ॥