489

अयमत्र परमार्थः—मेचकरत्नवदेकमेव वस्त्वनेकाकारम्, ते चाकाराः केचिदनु
वृत्तिबुद्धिग्राह्याः केचिद्व्यावृत्तिबुद्धिग्राह्याः । तत्र येऽनुवृत्तिबुद्धिग्राह्यास्तेऽनुवृत्ततया
सामान्यमिति कीर्त्त्यन्ते, ये तु ततोऽपरे व्यावृत्तिबुद्धिग्राह्यास्ते व्यावृत्तत्वाद्विशेषा
इति कल्प्यन्ते, तत्रानुवृत्तिबुद्धिर्भावो भाव इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिर्घटोऽयं
न पट इत्येवमादिभेदाकारा ॥ १७२० ॥ १७२१ ॥ १७२२  ॥


तदत्र प्रतिविधत्ते परस्परस्वभावत्व इत्यादि ।


परस्परस्वभावत्वे स्यात्सामान्यविशेषयोः ।

साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ १७२२ ॥

परस्परास्वभावत्वेऽप्यनयोरनुषज्यते ।

नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥ १७२३ ॥

अत्र पक्षद्वयम्, किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत्सामान्य
मन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे साङ्कर्यं
स्यात् । ततश्चेदं सामान्यमयं विशेष इति विभागाभावात्परमार्थत एकस्य वस्तुनो
द्वैरूप्यं नोपपद्यते । अथ माभूत्साङ्कर्यमिति द्वितीयः पक्षः समाश्रीयते । तत्र परस्प
रास्वभावत्वेऽप्यङ्गीक्रियमाणे नानात्वं—स्वभावभेदः सामान्यविशेषयोः संप्रसज्यते ।
एवं ह्यनयोरसांकर्यं भवेद्यद्यनयोर्नानात्वं स्यात्, ततश्चैवम्भावेऽपि—नानात्वेऽपि
वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्तम् । अथापि स्यात्—यदि
नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातस्तथापि सामान्यविशेषात्मकं
वस्त्वभिन्नमेवेति । तदेतत्तु परस्परविरुद्धम् । तथाहि—एकस्माद्वस्तुनः सामान्यवि
शेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं स्वभावविवेकः सिद्ध्येत्, एकस्मादभेदे
तयोरप्यभेदप्रसङ्गादेकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेकेऽ
ङ्गीक्रियमाणे ताभ्यामभिन्नमेकं वस्तु न सिद्ध्येत्, ताभ्यामभिन्नत्वात्तस्याप्येकत्वेनाभिम
तस्य द्वित्वप्रसङ्गात्सामान्यविशेषस्वरूपवत् । तस्मादेकमुभयात्मकमिति परस्परव्याह
तमेतत् ॥ १७२२ ॥ १७२३ ॥


सत्यपीत्यादिना सुमतेर्मतमाशङ्कते ।


सत्यप्येकस्वभावत्वे धर्मभेदोऽत्र सिद्ध्यति ।

भेदसंस्था(ऽ)विरोधश्च यथा कारकशक्तिषु ॥ १७२४ ॥