487 चोद्यं ननु तदेवेत्यादिना परिहृतं, तथापि विस्तरेण प्रतिपादनाय वादान्तरं वा दर्श
यितुं पुनरुच्यते ॥ १७०९ ॥


तत्र सामान्यविशेषात्मकत्वसाधनाय यथाक्रममह्रीकः प्रयोगद्वयमाह—भाव इति ।


भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते ।

अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति ॥ १७१० ॥

किंचिद्विवक्षितं वस्तु घटादि, स यदि घटादिर्भावः पटादिना भावान्तरेणातुल्यः
स्यात्—ततो यदि व्यावृत्तः स्यात्, तदा खपुष्पान्न तस्य विशेषः स्यात्, सर्वथा
वस्त्वन्तराद्व्यावृत्तत्वात्, नच वस्त्वन्तराद्व्यावृत्तस्यान्या गतिः सम्भवति खपुष्पतां
मुक्त्वा । तस्मात्तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं
नाम सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् । विशेषात्मकत्वं तर्हि
कथमिति चेदत्रोच्यते—अतुल्यत्वविहीनश्चेत्तेभ्यो भिन्नो न सिद्ध्यति—स एव
घटादिर्भावो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात्, तेन घटादिना
यद्यतुल्यो न भवेदिति यावत् । तदाऽयं घटोऽयं च पट इति पदादिभ्यो घटादि
र्भिन्नो न सिद्ध्येत्, स्वस्वरूपवत् । भिद्यते च । तस्माद्विशेषात्मकत्वमपि सिद्धम्
॥ १७१० ॥


सर्वथाऽपीत्यादिनाऽस्यैव प्रयोगद्वयस्यार्थं विस्तरेण समर्थयते ।


सर्वथाऽपि ह्यतुल्यत्वे ह्यभिप्रेतेऽस्य वस्तुनः ।

वस्त्वन्तरेण नियतं वस्तुत्वमवहीयते ॥ १७११ ॥

वस्तुनो हि निवृत्तस्य क्वान्या सम्भविनी गतिः ।

लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजवत् ॥ १७१२ ॥

तस्मात्खपुष्पातुल्यत्वमिच्छता तस्य वस्तुनः ।

वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥ १७१३ ॥

अन्यथा हि न सा बुद्धिरित्यादिना सामान्यात्मकत्वसाधनायोपपत्त्यन्तरमाह ।


अन्यथा हि न सा बुद्धिर्बलिभुग्दशनादिषु ।

वर्त्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥ १७१४ ॥

सारूप्यान्नियमोऽयं चेत्सामान्यं च तदेव नः ।

स्वभावानुगता शक्तिरनेनैवोपवर्णिता ॥ १७१५ ॥