501 जनकत्वाजनकत्वविरोधस्तदवस्थ एव । अन्वेतीत्यन्वयो जनक एव स्वभाव उच्यते ।
नन्वित्यभिमुखीकरणम् । अपि च—अन्वयव्यतिरेकाभ्यां विशेषेभ्य एव कार्यसि
द्धेस्त एव स्वलक्षणयुक्ताः, न सामान्यार्थम्, क्रियाकारिलक्षणत्वाद्वस्तुत्वस्य, ततश्च
किं सामान्यं स्वलक्षणाद्भिन्नामाहोस्विदभिन्नमिति किमर्थक्रियार्थिनस्तत्र भेदाभेदचि
न्तया, यस्माद्यमेव स्वभावमर्थक्रियायोग्यमभिसन्धायैष पुमानर्थक्रियार्थी प्रवर्त्तते,
तद्गतावेव भेदाभेदौ चिन्त्येतेऽर्थक्रियार्थिभिर्न व्यसनितया । अन्यथा हि यद्यक
ल्पितौ भेदाभेदौ नेष्येते, तदा तस्यार्थक्रियायोग्यस्यात्मना—स्वेन रूपेण भेदः पार
मार्थिकोऽस्त्येव, व्यावृत्त्या च विकल्पबुद्धिप्रतिभासाऽनुरोधिन्या कृतव्यवस्था सा
मान्यताऽध्यवसिततद्भावाऽस्त्येवेत्यविवाद एव । इयतैवार्थक्रियार्थिनो भेदसामान्य
चिन्ता समाप्तेति किमनर्थक्रियाकारिणः सामान्यस्य भेदाभेदचिन्तया । अथापि
स्याद्वस्त्वेव सामान्यमस्तु, किं परिकल्पितया व्यावृत्त्येत्याह—वस्त्वित्यादि । यदि
पटादिरूपं घटादिरन्वियात्, तदा मधूदकाद्याहरणार्थी पटादावपि प्रवर्त्तेतेति प्रवृ
त्त्यादेः प्रसङ्गः स्यात् । आदिशब्दात्तुल्योत्पत्तिनिरोधादिप्रसङ्ग ॥ १७६४ ॥ १७६५ ॥
॥ १७६६ ॥ १७६७ ॥ १७६८ ॥ १७६९ ॥ १७७० ॥ १७७१ ॥ १७७२ ॥
॥ १७७३ ॥ १७७४ ॥ १७७५ ॥


अथ सौगतैरिव परैरपीदमिष्यते—तस्माद्यतो यतोऽर्थो नाव्यावृत्तस्तन्निबन्धना
जातिभेदाः प्रकल्पन्ते तद्विशेषावगाहिन इति, अत्राह—कल्पनारचितस्येत्यादि ।


कल्पनारचितस्यैव वैचित्र्यस्योपवर्णने ।

को नामातिशयः प्रोक्तो विप्रनिर्ग्रन्थकापिलैः ॥ १७७६ ॥

वैचित्र्यस्येति । भेदस्य ॥ १७७६ ॥


वर्द्धमानकभङ्गेनेत्यादिना कुमारिलमतमाशङ्कते ।


वर्द्धमानकभङ्गेन रुचकः क्रियते यदा ।

तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ॥ १७७७ ॥

हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ।

नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम् ॥ १७७८ ॥

स ह्याह—उत्पादस्थितिनाशस्वभावत्वात्सर्वमेव वस्तु त्र्यात्मकम् । एकस्मादपि प्री
त्यादिकार्यत्रयदर्शनात्, तथाहि—यदा वर्द्धमानकं भङ्क्त्वा रुचकः क्रियते, तदा