अथापि स्यात्—आकाशवत्सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथमित्याह—
नचैवमित्यादि ।


नचैवमिह मन्तव्यमध्वभेदः कुतो न्वयम् ।

कारित्रेण विभागोऽयमध्वनां यत्प्रकल्प्यते ॥ १७९१ ॥

कारित्रे वर्त्तते यो हि वर्त्तमानः स उच्यते ।

कारित्रात्प्रच्युतोऽतीतस्तदप्राप्तस्त्वनागतः ॥ १७९२ ॥

फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु ।

न वाक्षेपोस्त्यतीतानां नातः कारित्रसम्भवः ॥ १७९३ ॥

यतः संप्राप्तकारित्रो वर्त्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽना
गत इत्यध्वानः कारित्रेण व्यवस्थिताः । किं पुनरत्र कारित्रममिप्रेतम्, यदि दर्शना
दिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम्—यतश्चक्षुः पश्यति
श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वं, विजा
नातीति कृत्वा रूपादीनामिन्द्रियगोचरत्वम् । एवं सति प्रत्युत्पन्नस्य तत्सभागस्य
चक्षुषो निद्राद्यवस्थायां कारित्राभावाद्वर्त्तमानता न स्यात् । अथ फलदानग्रहणल
क्षणं कारित्रम्—यथा चक्षुषा सहभवा धर्मा जात्यादयः पुरुषपुरुषाकारफलम्, अनन्त
रोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत्फलं जनना
त्प्रयच्छद्धेतुभावावस्थानाद्गृह्णच्चक्षुर्वर्त्तमानमुच्यत इति । एवं तर्ह्यतीतानामपि सभा
गसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमाद्वर्त्तमानत्वप्रसङ्गः । अथ समस्तमेव फल
दानग्रहणलक्षणं कारित्रमिष्यते । एवमतीतस्य सभागहेत्वादेरर्द्धवर्त्तमानत्वप्रसङ्ग
इत्येतद्दोषभयादाचार्यसहन्तभद्र आह—धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, नतु
फलजननं, नचातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति, वर्त्तमानावस्थायामेवाक्षि
प्तत्वात् । नचाक्षिप्तस्याक्षेपो युक्तोऽनवस्थाप्रसङ्गात् । तस्मादतीतानां न कारित्रसम्भव
इति नास्ति लक्षणसङ्कर इति ॥ १७९१ ॥ १७९२ ॥ १७९३ ॥