तैरित्यादिना प्रतिविधत्ते ।


तैः कारित्रमिदं धर्मादन्यत्तद्रूपमेव वा ।

अभ्युपेयं यदन्याऽस्ति गतिः काचिन्न वास्तवी ॥ १७९४ ॥

507
अन्यत्वे वर्त्तमानानां प्रागूर्ध्वं वाऽस्वभावता ।

हेतुत्वसंस्कृतत्वादेः कारित्रस्येव गम्यताम् ॥ १७९५ ॥

अन्यथा नित्यतापत्तिः स्वभावावस्थितेः सदा ।

नैतद्रूपातिरिक्तं हि विद्यते नित्यलक्षणम् ॥ १७९६ ॥

तत्कारित्रं धर्मादन्यद्वा स्यादनन्यद्वेति तैरभ्युपगन्तव्यम्, अन्यानन्ययोरन्योन्य
परिहारस्थितलक्षणत्वात् । एकनिषेधस्यापरविधिनान्तरीयकत्वात् । नान्या वस्तुनो
गतिरस्ति । तत्र यद्यन्यत्तदा वर्त्तमानानां प्रागूर्ध्वावस्थयोः निःस्वभावता प्राप्नोति ।
हेतुत्वसंस्कृतत्वाद्धेतोः कारित्रवत् । आदिशब्देन वस्तुत्वादयो गृह्यन्ते । अन्यथा
यदि प्रागूर्ध्वं च निःस्वभावता न स्यात्तदा सर्वस्य संस्कृतस्य नित्यता प्राप्नोति, स्व
मावस्य सर्वदा व्यवस्थितत्वात् । नच सदासत्त्वव्यतिरेकेण नित्यत्वलक्षणमस्ति य
दाह— नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यती ति ॥ १७९४ ॥ १७९५ ॥
॥ १७९६ ॥