उपचारेण देशनायाः किं प्रयोजनमित्याह—उच्छेददृष्टीति ।


उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् ।

अन्यथा शून्यतासूत्रे देशना नीयते कथम् ॥ १८५२ ॥

नास्त्यतीतं कर्मेत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा
तस्याप्यभावं प्रतिपद्येरन्नित्युच्छेददृष्टिमापन्नाः स्युर्विनेया इत्यस्ति कर्मेत्युक्तं भगवता ।
अन्यथा हि यद्यतीतं स्वरूपेण स्यात्तदा परमार्थशून्यता सूत्रे देशना कथं नीयते ।
चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुद्ध्यमानं न क्कचित्सन्निचयं गच्छतीति हि
चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छतीति । वर्त्तमानेऽध्वन्यभूत्वा भवतीति
चेन्न । अध्वनो भावानर्थान्तरत्वात्त एवाध्वानस्तथाऽवस्थितिवचनात् । अथ स्वात्म
519 न्यभूत्वा भवति, तथा सिद्धमनागतं चक्षुर्नास्तीति । अपिच सदाऽवस्थितत्वे संस्का
राणां हेतुफलयोरभावात् दुःसमुदयसत्याभावः, तदभावान्निरोधमार्गयोरपि, ततश्च
सत्यचतुष्टयाभावात्परिज्ञाप्रहाणसाक्षाक्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां
प्रतिपन्नकानां च पुद्गलानामभाव इति सकलमेव प्रवचनं निरुध्यत इति नातीतादि
वस्तुजातकल्पना साध्वी ॥ १८५२ ॥