स्यादेतन्न पूर्वाभ्यासादिह जन्मन्याद्यरागादयः । किं तर्हि ? । अन्येषां मैथुना
दिसमाचारदर्शनात्परोपदेशाद्वेत्याह—अन्यवृत्त्युपलम्भेनेत्यादि ।


अन्यवृत्त्युपलम्भेन परेभ्यः श्रवणेन वा ।

न च तेषामियं वृत्तिर्व्यभिचारोपलम्भनात् ॥ १९५७ ॥

अन्येषां वृत्तिश्चरितमिति यावत् ॥ १९५७ ॥