संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः ।

स्वरसेनैव वर्त्तन्ते तथैव न मदादिवत् ॥ १९५९ ॥

अवश्यं चैतदवसेयमभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथाहि—ये
प्रज्ञाशीलादयः संसारानुचिताः संसारे नाभ्यस्ताः ते स्वरसेनायत्नेन न वर्त्तन्ते ।
मदादिवदिति वैधर्म्यदृष्टान्तः । मदो—दर्पः । अन्यथा मदादिवत्प्रज्ञादीनामपि
स्वरसेन प्रवृत्तिः स्यात् ॥ १९५९ ॥