केचिदाहुः—श्लेष्मणः सकाशाद्रागः पित्ताद्द्वेषो वाताम्मोह इति । तत्राह—
बलासादीत्यादि ।


बलासादिप्रभावेण नच तेषां समुद्भवः ।

पूर्ववद्व्यभिचारस्य सर्वथाऽप्युपलम्भतः ॥ १९६० ॥

549
तस्मादेते यदभ्यासपूर्वका आद्यभाविनः ।

स एवान्यभवः सिद्ध इति नास्तिवता हता ॥ १९६१ ॥

तत्र बलासः—श्लेष्मा । पूर्ववदिति । यथा विषयेषु व्यभिचार उक्तः प्रतिस
ङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवादि
त्यादिना । किंच—श्लेष्माद्युपचयापचयाभ्यां न
रागादीनामुपचयापचयौ भवतः । नच यद्भेदाद्यस्य भेदो न भवति तत्तस्य कार्यं
युक्तमतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीव्रद्वेषो दृष्टो नतु तीव्ररागः, पित्तप्रकृति
रपि तीव्ररागो दृष्टो न तीव्रद्वेषादिरिति साङ्कर्यं दृश्यते । न च यमन्तरेण यस्य भावः
स तस्य हेतुर्युक्तः । यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि व्यभिचारान्न
श्लेष्मादिधर्मा रागादयः । तस्मादित्युपसंहारः । यदभ्यासपूर्वका इति । यस्मिन्न
भ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ १९६० ॥ १९६१ ॥