546 वासनापरिपाकस्याकुलत्वम् । यथानुभूतप्रतिनियतदेशकालस्वभावादिभेदरूपेणाप्र
वृत्तिः । तत्र यदुक्तं चार्वाकेण जातिस्मरणमसिद्धम् । एकग्रामागतानां सर्वेषां
स्मरणादिति । तदनेन प्रतिक्षिप्तं भवति । तथाहि—एकग्रामागता अपि सर्वे न
स्मरन्ति । सतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भवन्त्येव ।
आसामिति । वाचाम् ॥ १९४६ ॥


स्वल्पीयानपीत्यादिना प्रसङ्गविपर्यये हेतोः पक्षैकदेशासिद्धतामाह—


स्वल्पीयानपि येषां तु नोपघातो महात्मनाम् ।

श्रूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुटा ॥ १९४७ ॥

महात्मनामिति । पुण्यवताम् ॥ १९४७ ॥


पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह—रागद्वेषादयश्चेत्यादि ।


रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः ।

अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिताः ॥ १९४८ ॥

इहत्याभ्यासरहितास्ते ये प्रथमभाविनः ।

को हेतुर्जन्मनस्तेषां यदि न स्याद्भवान्तरम् ॥ १९४९ ॥

न ह्यालम्बनसान्निध्यात्तेषां जन्मोपपद्यते ।

प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात् ॥ १९५० ॥

प्रतिसङ्ख्यानिवृत्तौ च तेषां प्राबल्यदर्शनात् ।

नष्टाजातेपि विषये विपर्यासाभिवृद्धितः(नः ?) ॥ १९५१ ॥

शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु ।

रागादयः प्रवर्त्तन्ते तद्रूपा विषया नच ॥ १९५२ ॥

तदनालम्बना एव सदृशाभ्यासशक्तितः ।

इहत्या अपि वर्त्तन्ते रागादित्वाद्यथोत्तरे ॥ १९५३ ॥

प्रयोगः—रागद्वेषेर्ष्यामदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत्पाटवं
तदभ्यासपूर्वकम्, यथेहैव जन्मनि पटुमन्दयथोक्तगुणस्य पुरुषस्याभ्यासवशाद्दृष्टम् ।
अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित्पुरुषस्य तत्पा
टवमिति कार्यहेतुः । अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति ना
सिद्धो हेतुः । अतएवाह—अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति ।