पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह—रागद्वेषादयश्चेत्यादि ।


रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः ।

अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिताः ॥ १९४८ ॥

इहत्याभ्यासरहितास्ते ये प्रथमभाविनः ।

को हेतुर्जन्मनस्तेषां यदि न स्याद्भवान्तरम् ॥ १९४९ ॥

न ह्यालम्बनसान्निध्यात्तेषां जन्मोपपद्यते ।

प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात् ॥ १९५० ॥

प्रतिसङ्ख्यानिवृत्तौ च तेषां प्राबल्यदर्शनात् ।

नष्टाजातेपि विषये विपर्यासाभिवृद्धितः(नः ?) ॥ १९५१ ॥

शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु ।

रागादयः प्रवर्त्तन्ते तद्रूपा विषया नच ॥ १९५२ ॥

तदनालम्बना एव सदृशाभ्यासशक्तितः ।

इहत्या अपि वर्त्तन्ते रागादित्वाद्यथोत्तरे ॥ १९५३ ॥

प्रयोगः—रागद्वेषेर्ष्यामदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत्पाटवं
तदभ्यासपूर्वकम्, यथेहैव जन्मनि पटुमन्दयथोक्तगुणस्य पुरुषस्याभ्यासवशाद्दृष्टम् ।
अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित्पुरुषस्य तत्पा
टवमिति कार्यहेतुः । अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति ना
सिद्धो हेतुः । अतएवाह—अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति ।
547 अपरलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेन्न । इहत्याभ्यासरहितास्ते ये
प्रथमभाविनः पटवो रागादय इत्ययुक्तमपरलौकिकाभ्यासपूर्वत्वसाधनम् । न चाहेतुकं
युक्तम्, नित्यं सत्त्वादिप्रसङ्गात् । तस्माद्यदि जन्मान्तरं (न) भवेत्तेषाम्—रागादीनां
पटूनां, जन्मनः—उत्पत्तेः, को हेतुः स्यात् । तस्माज्जन्मान्तरीय एवाभ्यासो हेतु
रिति सिद्धः परलोकः । नचालम्बनं कारणम्, आलम्बनस्य भावेऽपि रागादीनां
कदाचिदशुभादिप्रतिसङ्ख्यानसद्भावे सत्यनुत्पत्तेः । अशुभाद्यालम्बना रागादिप्रतिप
क्षभूता प्रज्ञा प्रतिसङ्ख्यानम् । असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आ
लम्बनवशात्तद्भावः । तथाहि—अतीतानागतेऽपि विषये सङ्कल्पवशादभिवृद्धसुखा
दिविपर्यासस्य पुंसः प्रतिसङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं दृश्यते । नहि
यद्भावाभावयोर्यस्य भावाभावाविपर्ययस्तत्तस्य कारणं युक्तमतिप्रसङ्गात् । इतोऽपि
नालम्बनवशाद्भावादीनां प्रवृत्तिः । तथाहि—यदि यथालम्बनमेव प्रवर्त्तेरन्नेवमा
लम्बनवशात्प्रवृत्ताः स्युर्यथा नीलादिज्ञानं न चैवं प्रवर्त्तन्ते । किं तर्हि—आत्मीय
नित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते । न च शुभादिरूपा
विषयाः । न च यद्यदाकारशून्यं तत्तस्यालम्बनं युक्तमतिप्रसङ्गात् । तत्—तस्मा
दारोपितविषयत्वेन निरालम्बना रागादयः । ततश्च सिद्धमाद्याः प्रथमभाविनोऽपीह
जन्मनि ये रागादयस्ते सजातीयाभ्यासवशात्प्रवर्त्तन्त इति ॥ १९४८ ॥ १९४९ ॥
॥ १९५० ॥ १९५१ ॥ १९५२ ॥ १९५३ ॥