यदि तर्हि विषया न कारणं कथं विषयोपनिपाते रागादय उत्पद्यमाना दृश्यन्त
इत्याह—विषयोपनिपात इत्यादि ।


विषयोपनिपाते तु सुखदुःखादिसम्भवाः ।

तस्मात्समानजातीयवासनापरिपाकजाः ॥ १९५४ ॥

रागद्वेषादयः क्लेशाः प्रतिसङ्ख्यानविद्विषाम् ।

अयोनिशोनम(सौमनः ?)स्कारविधेयानां यथाबलम् १९५५ ॥

साक्षात्तु विषया नैव रागद्वेषादिहेतवः ।

एकः क्लेशो हि तत्र स्यात्सर्वेषां तस्य बोधवत् ॥ १९५६ ॥

एष हि क्रमः—विषयोपनिपाते सतीन्द्रियजं सुखमुत्पद्यते । तस्माच्च सुखात्प्र
तिसङ्ख्यानवैकल्ये सत्यात्मादिविपर्यासलक्षणायोऽनिशो(सौ ?)मनस्कारे स्थितानां
548 पू्र्वरागाद्याहितवासनापरिपाको भवति ततो रागादयः क्लेशाः प्रवर्त्तन्त इति न
साक्षाद्विषयाः कारणम् । स्यादेतत्—स्वराद्धान्तोपवर्णनमात्रमेव केवलम्, नत्वत्र काचि
द्युक्तिरित्याह—एक इत्यादि । एक इति । एकाकारः । तत्रेति । विषये । तस्येति ।
विषयस्य । बोधवदिति । नीलादिग्राहकाकारवत् । नचैकाकारस्तत्र क्लेशः प्रवर्त्तते ।
तथाहि—एकस्मिन्स्त्रीरूपे कस्यचिद्रागः कस्यचिद्द्वेषः कस्यचिदीर्ष्येत्यनेकाकारस्य
प्रवृत्तिर्दृश्यते ॥ १९५४ ॥ १९५५ ॥ १९५६ ॥