548 पू्र्वरागाद्याहितवासनापरिपाको भवति ततो रागादयः क्लेशाः प्रवर्त्तन्त इति न
साक्षाद्विषयाः कारणम् । स्यादेतत्—स्वराद्धान्तोपवर्णनमात्रमेव केवलम्, नत्वत्र काचि
द्युक्तिरित्याह—एक इत्यादि । एक इति । एकाकारः । तत्रेति । विषये । तस्येति ।
विषयस्य । बोधवदिति । नीलादिग्राहकाकारवत् । नचैकाकारस्तत्र क्लेशः प्रवर्त्तते ।
तथाहि—एकस्मिन्स्त्रीरूपे कस्यचिद्रागः कस्यचिद्द्वेषः कस्यचिदीर्ष्येत्यनेकाकारस्य
प्रवृत्तिर्दृश्यते ॥ १९५४ ॥ १९५५ ॥ १९५६ ॥


स्यादेतन्न पूर्वाभ्यासादिह जन्मन्याद्यरागादयः । किं तर्हि ? । अन्येषां मैथुना
दिसमाचारदर्शनात्परोपदेशाद्वेत्याह—अन्यवृत्त्युपलम्भेनेत्यादि ।


अन्यवृत्त्युपलम्भेन परेभ्यः श्रवणेन वा ।

न च तेषामियं वृत्तिर्व्यभिचारोपलम्भनात् ॥ १९५७ ॥

अन्येषां वृत्तिश्चरितमिति यावत् ॥ १९५७ ॥


अदृष्टेत्यादिना तमेव व्यभिचारं दर्शयति ।


अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः ।

सभागगतिसंपर्के प्रयान्त्येव हि विक्रियाम् ॥ १९५८ ॥

वृत्तान्तो मैथुनादिसमुदाचारः । सभागा सदृशी गतिर्यासां वराहीप्रभृतीनां ता
स्तथोच्यन्ते । तामिः सह संपर्कः समवधानम् । विक्रियेति । विप्लुतिः । मैथुनस
मुदाचार इति यावत् ॥ १९५८ ॥


संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः ।

स्वरसेनैव वर्त्तन्ते तथैव न मदादिवत् ॥ १९५९ ॥

अवश्यं चैतदवसेयमभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथाहि—ये
प्रज्ञाशीलादयः संसारानुचिताः संसारे नाभ्यस्ताः ते स्वरसेनायत्नेन न वर्त्तन्ते ।
मदादिवदिति वैधर्म्यदृष्टान्तः । मदो—दर्पः । अन्यथा मदादिवत्प्रज्ञादीनामपि
स्वरसेन प्रवृत्तिः स्यात् ॥ १९५९ ॥


केचिदाहुः—श्लेष्मणः सकाशाद्रागः पित्ताद्द्वेषो वाताम्मोह इति । तत्राह—
बलासादीत्यादि ।


बलासादिप्रभावेण नच तेषां समुद्भवः ।

पूर्ववद्व्यभिचारस्य सर्वथाऽप्युपलम्भतः ॥ १९६० ॥