अथापि स्यात्समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तान्नैकैकपरमाणुप्र
तिभास इति, यथोक्तं भदन्तशुभगुप्तेन—प्रत्येकपरमाणूनां स्वातन्त्र्ये नास्वातन्त्र्येणास्ति सम्भवः ।
अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥
इति । तदेतदनुत्तरमिति दर्शयन्नाह—
साहित्येनापीति ।


साहित्येनापि जातास्ते स्वरूपेणैव भासिनः ।

त्यजन्त्यनंशरूपत्वं न चेत्ता(नच ता ?) सुदशास्वमी ॥ १९७० ॥

लब्धापचयपर्यन्तं रूपं नैषांतेषां समस्ति चेत् ।

कथं नाम न तेऽमूर्त्ताते मूर्त्ता भवेयुर्वेदनादिवत् ॥ १९७१ ॥

तासु दशास्विति । सहितावस्थासु । किंच—यदि निरंशाः परमाणवो न तर्हि
552 मूर्त्ता इत्यभ्युपगन्तव्यमिति स्ववचनविरोधं प्रतिज्ञायामाह—लब्धापचयेत्यादि ।
लब्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम् । एतदुक्तं भवति—यद्यप
चीयमानावयवविभागेनापचीयमानस्वभावा न भवन्ति, यदि निरंशा इति यावत्,
तदा न मूर्त्ता वेदनादिवत्सिद्ध्यन्ति, विशेषाभावात् ॥ १९७० ॥ १९७१ ॥