यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम् ।

तत्किमेतन्नु विच्छिन्नं विस्पष्टमवभासते ॥ १९६५ ॥

तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति ।

चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत् ॥ १९६६ ॥

551

विच्छिन्नमित्यनेन ज्ञानाद्व्यतिरिक्तस्य ग्राह्यस्य सिद्धिमादर्शयति, विस्पष्टमित्यनेन
तु प्रत्यक्षताम् । एतदेव प्रसङ्गेन द्रढयन्नाह—तस्यैवमित्यादिना ॥ १९६५ ॥
॥ १९६६ ॥