१. निग्रहस्थानलक्षणम्
नमो विघ्घ्नप्रमथनाय ॥ 1b
यत्प्रयोजनरहितं तत्प्रेक्षापूर्व्वकारिभिर्न्नारभ्यते । यथा बलित्वग्दर्शन
विनिश्चयादिकं । अप्रयोजनञ्चेदं प्रकरण
मित्याशंकावतस्तदाशंकापरिजिहीर्षया
प्रयोजनप्रदर्शनाय न्यायवादिन
1b1 मित्यादिवाक्यमुपन्यस्तवान् । कथम्पु
नरनेन वाक्येनास्य प्रयोजनमुपदर्श्यत इत्यास्तां
तावदेतद् । अर्थस्तु
व्याख्यायते ॥ न्यायस्त्रिरूपलिङ्गलक्षणा युक्तिः । नीयते प्राप्यते विवक्षितार्थ
सिद्धिरनेनेति कृत्त्वा अत एव त्रिविधं लिङ्गमि1b2 त्यादिना त्रि
रूपमेव
लिङ्गमनन्तरम्वक्ष्यति । तदभिधायि वचनमित्यपरे । तम्वदितुं शीलं यस्य स
तथोक्तः । तमपि निगृह्णन्ति पराजयन्त इत्यर्थः । निगृह्णन्तु नामान्याय
वादिनम्पराजयाधिकरणत्त्वादेव । न्यायवादिनन्त्वनिग्रहार्हमपि यन्निगृह्णन्त्ये
तन्न सम्भाव्यते । परोत्कर्षव्यारोपधियस्तु तमपि पराजयन्त इति सम्भावना
यामपि शब्दः समुच्चयार्थोऽतिशयद्योतनार्थो वा केषु । निगृह्णन्तीत्याह ।
वादेषु
1b1 साधनदूषणसंशब्दितेषु विचारेष्विति यावत् । विवादेष्विति
क्वचित्पाठः ।
तत्र विरुद्धा वादा विवादा स्तेष्विति व्याख्येयं ।
विरुद्वाश्च कथं । साधनदूषणसंशब्दितानाम्विचाराणान्तद्विरुद्धार्थसाधन
प्रवृत्तत्त्वात् ॥ कथम्पुनर्न्यायवादिनमसत्स्वसि
द्ध्यादिषु हेतुदोषेषु निगृह्णन्ती
त्याह ॥ असद्व्ययवस्थोपन्यासैः । 1b1 असतामसाधूनाम्व्यवस्थाः । असत्यो
2 वा व्यवस्थाः सद्भिः कुत्सितत्त्वात् । ताश्च फलजात्यसन्निग्रहस्थान
लक्ष
2a णास्तासामुपन्यासाः । प्रयोगस्तैरिति विग्रहः । के पुनरह्रीकास्त एवं
विधा इत्याह ॥ शठा धूर्ता मायाविनः परसम्पत्तावीर्ष्यालव इति यावत् ।
यस्मात्तं तथा निगृह्णन्ति
इति तस्मात्तन्निषेधार्थं तेषां शठानान्तेषाम्वा
ऽसद्व्यवस्थोपन्यासानान्तस्य वा निग्रहस्य त्रयाणां वा निषेधो निरासस्तदर्थन्तन्नि
मित्तमिदम्प्रकरणमारभ्यते ॥ स ए वार्थोऽस्ये
ति विग्रहीतव्यं । तन्निषेधे च
कृते सम्यग्विचारः प्रवर्तते तत्पूर्वकश्च सर्वः पुरुषार्थ इत्यभिप्रायः । आसन्न
विषयिणा त्वन्तर्विपरिवर्त्ति प्रकरणमिदमापरा
मृषति । अन्तस्तन्त्वात्मना
परिनिष्पन्नत्वात् । अन्यथाऽपरिनिष्पन्नात्मतयाऽसन्नत्वाभावादिदम् शब्द
प्रयोगो न स्यात् । आरभ्यत
1b1 इति वर्तमानकालनिर्देशः ।
क
थमिति चेत् । वर्तमानसामीप्ये वर्तमानवद्वे पाणिनिः ३।३।३१ ति वचनात्
सम्बन्धोऽप्यभिधानीय एवान्यथा बालोन्मत्तप्रलापवदग्राह्यमिदं प्रेक्षापूर्वकारिणा
म्भवेदिति चेत्
सत्त्यमेतत् । प्रयोजनान्तर्गतत्त्वात् पृथ ग सौ नाभिहितः । तथाहि
तन्निषेधार्थमिदमारभ्यते
1b1 ततश्चैतत्प्रयोजनमनेन प्रकरणेन साध्यते ।
तथा च प्रयोजनप्रकरण
योः साध्यसाधनलक्षणः सम्बन्ध इति सूचितं । ये त्वन्ये
क्रियानन्तर्यादिलक्षणाः सम्बन्धास्ते न वाच्या एव प्रकरणक्रियायामनङ्गभू
तत्त्वात् । तथाहि तेषु सत्स्वपि प्रयो
जनाभावे नारभ्यत एव प्रकरणं ।
असत्स्वपि च तेषु सति प्रयोजने प्रारभ्यत एव । तस्मात्प्रकरणारम्भस्य
प्रयोजनान्वयव्यतिरेकानुविधानात्प्रयोजनमेवाभिधानी
यम्प्रेक्षापूर्वकारिणा । तस्मिं
श्चाभिहिते सम्बन्धोप्युक्त एव भवतीति मन्यते । नानवधारितप्रकरण
शरीराः प्रवर्तन्ते प्रेक्षावन्तस्तस्मात्प्रयोजनवत्प्रवृत्त्यङ्गत्वात्प्रकरण
2b शरीरमपि
वक्त्व्यमेवेति चेत् । एवमेतत्प्रयोजनवाक्येन त्वभिहितत्वान्नैव तदपि सम्बन्धव
त्पृथगभिधानमर्हति । यतस्तन्निषेधार्थमिदमारभ्यत इत्युक्तमतश्च तत्
निषे
धोऽस्य शरीरमित्युक्तम्भवति । यदा चैतन्निषेधार्थमिदमारभ्यते तदा पूर्वको हेतु
रसिद्धः । प्रतिप्रमाणद्वयञ्चानेन सूचितं प्रारब्धव्यमिदम्प्रकरणम्प्रेक्षावता
सति
सामर्थ्ये । ग्राह्यम्वा प्रयोजनवत्वात् । सम्बन्धवत्वाच्च तदन्यशास्त्रवदिति
स्वभावहेतुः ।
3
एवमभिधाय प्रयोजनं सकलप्रकरणार्थसंग्राहकं श्लोकमाह
असाधनाङ्वचन
1b1 मित्यादिना । असाधनाङ्गवचनमदोषोद्भावनञ्च द्वयोर्वादिप्रतिवादि
नोर्यथाक्रमं निग्रहस्थानं पराजयाधिकरणं । अन्यत्त्वित्येत
द्धेयव्यतिरिक्तम
क्षपादप रिकल्पितं प्रतिज्ञासंन्यासादिकं वक्ष्यमाणं निग्रहस्थानं न युक्तमिति
कृत्वा नेष्यते
। निग्रहस्थानमिति वर्त्तते । अयं तावत् स
मासेन श्लोकार्थः ।
इष्टस्ये
1b1 त्यादिना विभागमारभते । इष्टोऽर्थोऽनित्त्यः शब्द इत्यादि
साध्यत्त्वेनेप्सितः । तस्य सिद्धिः प्रतिपत्तिः साधनं । तदनेन भावस्य
साधनोयं साधनशब्दस्तावदस्मिन्व्याख्यानेऽभिप्रेतो न तु करणसाधन इति
दर्शयति ॥ तस्य साधनस्येष्टार्थसिद्धिलक्षणमस्याङ्गं किन्तदित्याह । निर्वर्त्तकं
जनकं । अने
नाङ्गशब्दं व्याचष्टे । कारणपर्यायोयमत्राङ्गशब्दो नावयवपर्याय
इत्यर्थः । तच्च साधनाङ्गमिह निश्चितत्रैरूप्यं लिङ्गमुच्यते । अस्य साधनाङ्गस्य
वचनं त्रिरूपलिङ्गा
ख्यानं । तस्य साधनाङ्गस्यावचनमनुच्चारणम
1b2
नभिधानं यत्तदसाधनाङ्गवचनं । अनेनैतत्कथयति असाधनाङ्गस्य पक्षोपनयना
देर्वचनमसाधनाङ्गवचनमिति नै
3a व प्रतिपत्तव्यमस्मिन्व्याख्याने । किन्तु साधनाङ्ग
स्यैवावचनमसाधनाङ्गवचनमिति । तदसाधनाङ्गवचनं वादिनो निग्रहस्थानं ।
तदेतेन श्लोकस्य पूर्व्वभागम्विवृणोति । कथम्पुनः साधनाङ्गस्यानुच्चारणम्भवति
निग्रहस्थानं चेत्याह । तदभ्युपगम्येति
1b2 तदितीष्टं साध्यमभ्युपगम्याह
मेतत्साधयामीति प्रतिज्ञयाप्रतिभया करण
भूतया तूष्णीम्भावात् । अप्रतिभाऽत्र
पूर्व्वाधिगतार्थविस्मरणं स्तम्भितत्त्वञ्च गृह्यते ।
अनेन सर्व्वथा साधनाङ्गस्यावचनमाह अभिधाने वा यदि न समर्थितं तदोक्त
मप्यऽ
नूक्तमेव स्वकार्याकरणात् । इत्यभिप्रायवानाह —
साधनाङ्गस्या
समर्थनाद्वेति
1b2 । तदभ्युपगम्येतिवर्तते । वा शब्दः पुर्व्वापेक्षया
विकल्पार्थः । साधना
ङ्गस्यासमर्थनं त्रिष्वपि रूपेषु निश्चयाप्रदर्शनं । तस्मात्तू
ष्णीम्भावादसमर्थनाच्च साधनाङ्गस्यानुच्चारणं । ततश्च प्रतिज्ञातार्थाकारणात्
वादिनो
निग्रहाधिकरण मिति 1b2 प्रकृतेन सम्बन्धः । क्वचित्तु वादिन
इति पाठः । तत्र तच्छब्देन प्रकृतमनुच्चारणं संबध्यते ।
कथम्पुनः साधनाङ्गासमर्थनम्भ
वति । येन तद्विपर्ययेनासमर्थनात्प्रति
ज्ञातार्थाकारणाद्वादिनो निग्रहाधिकरणत्त्वमिति कदाचित्कश्चिद् ब्रूयादित्येतत्परि
जिहीर्षुरादिप्रस्थानमारचयति
त्रिविधमेवे
1b2 त्यादिना त्रिप्रकारमेव लिङ्ग
4 मङ्गङ्करणं कस्यासिद्धेः प्रतिपत्तिरूपायाः । कस्य सिद्धेरित्याह । अप्रत्य
क्षस्या परोक्षस्यानुमेयभूतस्य वस्तुन इति
यावत् । अवधारणञ्चतुरादि
व्यवच्छेदमाचष्टे । त्रिविधमेवेति नियमः कथमयमिति चेत् । यस्माद्विधि
प्रतिषेधरूपतया द्विधा साध्यं व्यवस्थितं । विधिरूपञ्च सद्भा
3b वरूपङ्कारणरू
पम्वा भवद् भवेत् । नान्यत् । तत्र हेतोः प्रतिबन्धायोगात् । नह्यर्थान्तरस्याका
र्यस्य सद्भावेऽपरस्य सद्भावो युक्तः । पटसद्भाव इवोष्ट्रस्य । नाप्यर्थां
तरस्याकारणस्य निवृत्तावकार्यस्यान्यस्य च निवृत्तिर्युक्तिमती । उष्ट्रे निवृत्ताविव
पटस्य । न चान्वयव्यतिरेकविकलस्यागमकत्त्वं युक्तं । पटस्याप्युष्ट्रगमकत्त्व
प्रसङ्गात् । स्वभावभूतधर्मसद्भावे तु स्वभावभूतस्यान्यस्य सद्भावो युक्तो नहि
स्वभावः स्वम्भावम्परित्यज्य वर्त्ते । तत्स्वभावत्त्वाभावप्रसङ्गात् । तन्निवृत्तौ
च निवृ
त्तिः ॥ कार्यस्यापि भावे कारणस्य भावो युक्तः । तन्निवृत्तौ च
निवृत्तिरन्यथा तेन विनापि भावात्कार्यमेव तत्तस्य न स्यात्तदन्यवत् ।
तस्मात्स्वभाव
कारणभूतसाध्यभेदात् । द्विधैव विधिरूपं साध्यं तत्रैव हेतोः
प्रतिबन्धात् । स्वभावभूतञ्च साध्यं स्वभावहेतुः साधयति । कारणभूतञ्च
कार्यहेतु
रित्यभ्युपेयं । प्रतिषेधमप्युपलब्धिलक्षणप्राप्तानुपलब्धिरेव साधयति ।
नान्या यथा तथा विस्तरेण प्रतिपादयिष्यति । तदिदमिह संक्षिप्तमर्थ
तत्त्वं
विषयव्यपेक्षया विषयिणो लिंगस्य व्यवस्था । विषयश्च विधिः प्रतिषेधो वा
भवेत् । विधावप्यर्थान्तरम्वा विधीये तानर्थान्तरं वा अर्थान्तरविधावपि का
र्यकारणमनुभयम्वा साध्यते । कार्यप्रतिपादनेपि कारणसामान्यम्वाऽमेघादि
व्यावृत्तं वस्तुमात्रं लिङ्गत्वेनोच्यते । कारणविशेषो वा योऽप्रति
बद्धसामर्थ्ये मे
घादिः । प्रतिषेधोपि निषेध्याभिमतस्यानुपलम्भेनोपलम्भेन
वा प्रतिपाद्येत । अनुपलम्भेपि उपलम्भनिवृत्तिमात्रलक्षणो वा भवेत् ।
तत्तुल्ययोगावस्थः केवला
4a परपदार्थोपलम्भरूपो वेति विकल्पाः । तत्र
नावश्यं गम्भीरध्वानादियुक्तमपि मेघादिकारणमात्रं वृष्ट्यादिकार्याविर्भावक
मन्तरा प्रतिबन्धसम्भवेन व्य
भिचारात् । अतो न कारणमात्रं गमकं । कारण
विशेषादप्यप्रतिहतशक्तेरनन्तरं सम्बन्धस्मृतिव्यवहितादनुमेयविज्ञानात्प्राक्
कार्यमेवोद्भूतमक्षज्ञानग्राह्यं
भवतीति न तस्यापि लिङ्गत्वं । कार्यन्तु कारण
लिङ्गं युक्तं । तदविनाभावात् । तदतिक्रमे वा हेतुमत्ताम्विलंघयेत् । अनुभयमप्य
सम्बन्धानुगमकमतिप्रसङ्गो
वा । अनर्थान्तरमप्यव्यभिचाराङ्गम्यत इति युक्ति
मत् । निषेधोप्युपलम्भेन न युज्यते विरोधात् । कथं हि नामोपलभ्यते च नास्ति
5 चेत्युपपद्यते । तज्ज्ञान
निवृत्तिमात्रमपि व्यभिचारि । एकज्ञानसंसर्गिणस्तु कैवल्य
दृष्टेरसत्ताव्यवहारो युक्तो यदि हि स्यादुपलभ्य सत्त्व एव भवेत् । प्रमाणञ्च यद
नुपपद्य
मानविषयं न तद्विषयि युक्तं । यथा वाजिविषाणं । अनुपपद्यमानविषय
ञ्चोक्तप्रकारेण स्वभावादि स्यादन्यसंयोग्यादिपरपरिकल्पितं लिं
गमिति व्याप
कानुपलम्भः । वैधर्म्येण नीलादिज्ञानं । तदेव वा कार्यादिलिङ्गं । नैमित्तिकशब्दा
र्थानुपपत्तिर्बाधिका । किमेवं सिद्धमगमकत्त्वमन्येषां । तथाहि विष
यित्वङ्ग
मकत्त्वं प्रकाशकत्त्वमित्यादयः पर्यायाः । तस्मात्साध्यस्य त्रिविधत्त्वात्तङ्गमको
हेतुरपि त्रिविध एवेति स्थितमेतत् ।
कथन्त्रिविधमित्याह । स्वभाव
1b2 इत्यादि
। च शब्दः
स्वभावकार्यापेक्षया समुच्चयार्थः । एतच्चाभिमतहेतुप्रदर्शनं स्वभावकार्यानुप
लम्भभेदात्त्रिविधमप्रत्यक्षस्य सिद्धेरङ्गं । नतु कारणैकार्थसमवायिविरो
4b ध्यादि
भदादिति दर्शनार्थं । ननु चोपलब्धिलक्षणप्राप्तानुपलम्भश्चेति वक्तव्यं । तस्यैवा
प्रत्यक्षस्य सिद्धेर्वक्ष्यमाणेन न्यायेनाङ्गत्त्वान्नानुपलम्भमात्रस्य तत्कथं सामान्ये
तो
क्तमिति चेत् । एवमेतत्समर्थितसाधनाङ्गाधिकारात्तु सामान्यशब्दोप्यय
मनुपलम्भशब्दौपलब्धिलक्षणप्राप्तानुपलम्भ एव वर्त्तते । तथाहि सामान्यशब्दा
अपि शब्दा
न्तरसन्निधानात्प्रकरणसामर्थ्याच्च विशेषेष्ववतिष्ठन्ते । यदाह । नहि
विशेषशब्दसन्निधेरेव शब्दानां विशेषावस्थितिहेतुरपि तु प्रकरणसामर्थ्यादि
कमपीति
यथा चानुपलम्भमात्रस्य समर्थितसाधनाङ्गत्त्वं न सम्भवति तथोत्तरत्र
प्रतिपादयिष्यति । अप्रत्यक्षसिद्धिहेतुलिङ्गाधिकाराद्वाऽचोद्यमेवैतत् ।
किम्पुन
रस्य त्रिविधस्य साधनाङ्गस्य समर्थनं । यद्विपर्ययादसमर्थनम्भविष्यतीत्याह ।
तस्ये
1b3 त्यादि । साध्यशब्दोत्रानित्यत्त्वादिधर्ममात्रस्य वाचकः ।
अवयव
समुदायोपचारात् न तु साध्यधर्मिधर्मसमुदायस्य व्याप्तेरेवाभावप्रसङ्गात ।
शब्दादिधर्म्मिविशिष्टस्यानित्त्यत्त्वादेर्दृष्टान्तधर्मिण्यभावात् ।
व्याप्तिं प्रसाध्या
न्वयव्यतिरेकसाधकेन प्रमाणेन अनेनान्वयव्यतिरेकनिश्चयावुक्तौ । धर्मिणि
1b3 जिज्ञासितविशेषे शब्दादौ भावसाधनं 1b2 । पक्षधर्मत्त्वसाधकेन
प्रमा
णेन सत्त्वकथनमित्यर्थः । अनेनापि पक्षधर्मत्त्वनिश्चय उक्तः । कथम्पुनः
सर्व्वोपसंहारेण व्याप्तिं प्रसाध्य धर्मिणि भावः कथ्यत इत्यत्रोदाहरणमाह ।
यथेत्या
1b3
दि । तत्सर्व्वमि त्यनेन सर्व्वोपसंहारेण व्याप्तिप्रदर्शनङ्क
थयति । किमर्थं । विप्रतिपत्तिनिरासार्थं । तथाहि पक्षसपक्षा
6 पेक्षयान्तर्व्याप्तिर्ब्बहिर्व्याप्तिश्च प्रदर्श्य
5a त इत्येके विप्रतिपन्नाः । तच्च
न युक्तं वस्तुबलायातत्त्वाद्व्याप्तेः । पूर्व्व साध्येन व्यार्प्तिं प्रसाध्य पश्चा
द् धर्म्मिणि सत्त्वं कथयितव्यमित्ययमीदृशः क्रमनियमः किमत्रास्ति न वेत्या
ह ।
अत्रापी
1b3 त्यादि । अत्रेति मन्मते साधनाङ्गसमर्थने वा ऽपिशब्दोऽवधारणे
प्रतिषेधे न च सम्बन्धनीयः । नैव कश्चिदयमीदृशः क्रमनियमः 1b3 परिपाटि
नियम इति या
वत् । किंकारणमित्याह । इष्टार्थसिद्धेरुभयत्राविशेषा 1b3
दिति । व्याप्तिसाधनाभिधानपूर्व्वकधर्मिभावसाधनाभिधाने धर्मिभावसाधनाभिधाने
धर्मिभावसाधनाभिधानपूर्व्वके वा व्याप्तिसा
धनाभिधाने साध्यार्थसिद्धेर्विशेषाभावा
दित्यर्थः । एवम कूतं क्रमनियमो हि किमर्थमाश्रीयते । साध्यसिध्यर्थं ।
यथा साधर्म1वति दृष्टान्तप्रयोगे सा
ध्येनैव हेतोरविनाभावः प्रदर्श्यते ।
न हेतुना साध्यस्य । तथा वैधर्म्यवति साध्याभाव एव हेतोरभावः कथ्यते । न तु
हेत्वभावे साध्यस्य । किमर्थं । माभूद्धेतोः
साध्येनाविनाभावित्त्वाप्रदर्शनेनेष्टार्थ
सिद्धेरसिद्धिर्विपर्ययसिद्धिश्चेति । यदाह । एवं हि हेतोः सपक्ष एव सत्त्वं । साध्या
भावे चासत्त्वमेव शक्यं द
र्शयितुं । न विपर्ययादिति । यथा नित्यताऽकृतकत्त्वेन
नाशित्त्वाद्वाऽत्र कार्यता । स्यादनुक्ता कृता व्यापित्त्वनिष्ठश्च समन्वय इति ।
तदत्र युक्तं क्रमसमाश्रयणं
इह तु विनाप्यनेनाभिमतार्थसिद्धिः सम्पद्यत इति
सूवतन्न कश्चित्क्रमनियम इति । इष्टार्थसिद्धेरुभयत्राविशेषादित्येतदेवात्र कुत
इति चेदाह । यस्माद् धर्मिणी
त्यादि । साध्येन व्याप्तिं प्रसाध्येत्युक्तं प्राक् । किम्पु
नस्तद्व्याप्तिसाधनमित्याह । अत्रेत्यादि
1b3 । अत्रेति स्यभावहेतौ । कार्या
नुपलम्भयोस्तु पश्चाद्व्याप्तिसाधनमभिधा
5b स्यात् । विपर्यये साध्यस्य हेतोर्व
र्त्तमानस्य सत इति शेषः । बाधकं प्रमाणं येन साध्यविपर्यये वर्त्तमानो हेतुर्बाध्यते
तस्य कथनं यत्तद्व्याप्तिसाधनमित्यर्थः ।
किं
पुनस्तद्वाधकप्रमाणोपदर्शनमित्याह — यदि न सर्व्वं वस्तु सत्कृतकं
7 चेति 1b5 पूर्व्वोक्तिहेतुद्वयं परामृषति । प्रतिक्षणविनाशि 1b5 स्यात्तदा
ऽसदेव स्यादिति सम्बन्धः । कुतः
अक्षणिकस्य पदार्थस्य क्रमयौगपद्याभ्यामर्थ
क्रिया 1b5 ऽयोगात् । तथाह — क्षणिकत्त्वेनाभिमतस्य भावस्य क्रमेण
तावदर्थक्रिया न युज्यते । कार्यनिर्वर्त्तनयोग्यस्य
स्वभावस्य सदा सत्त्वात् । अन्यथा
पश्चादपि न कुर्यात् । पूर्व्वस्वभावाप्रच्युतः पुरावत् । सहकारिणमासाद्य करोतीति
चेत् । न अनाधेयात्माति
शयस्य पूर्व्वस्वभावापरित्यागिनः सहकारिष्वपेक्षायो
गात् । आदधत्त्येव सहकारिणस्तस्यात्मातिशयमिति चेत् । न सहकारिभिराहि
तस्यातिश
यस्य तत्त्वान्यत्त्वायोगात् । तथाहि न तावदयमात्मातिशयस्तस्यात्म
भूतः । तस्यैव तदव्यतिरेकादात्मातिशयवत्सहकारिबलादुत्पत्तिप्रसङ्गात्
।
एवञ्चाभ्युपेतमस्याक्षणिकत्त्वमवहीयते व्यतिरिक्त एव स तस्मादिति चेत् ।
भवतु किन्तु तस्मादेवात्मातिशयात्कार्योत्पत्तेस्तदवस्थमस्यार्थक्रियास्वसामर्थ2मि
ति दुर्न्निवारः प्रसङ्गः समापतति । सम्बन्धोप्यनेन कथमिति वश्चिन्ता
विषयमवतरत्येव । अतिशयबलात्करोतीत्यत्रापि सहकार्यपेक्षापक्षोदितो दोषः ॥
समर्थस्वभावत्त्वादनाधेयातिशयत्त्वेपि कुविन्दादिवत् किञ्चिदपेक्ष्य कार्य
जनक इति चेत् । न तत् सारं । नहि सहकारिणः प्रत्ययास्तस्य तावदतिशयमा
धातुं
6a क्षमाः । न चाप्यनुपकारके भावेऽपेक्षा युक्तिमनुपतत्यतिप्रसा3ङ्गात् ।
एवञ्च सर्व्वकालमस्याकार्यजनकत्त्वप्रसङ्गः । कुविन्दादीनामपि तत्स्वभावस्य
करणादका
रकस्य वा ।
तत्स्वभावत्त्वादित्यादि हेतुविन्दा4
वुक्तमिति
नेहोच्यते । एवन्तावत्क्रमेणास्यार्थक्रिया न युज्यते नापि युगपत् । तथाहि
अर्थक्रियानिवर्त्तनयोग्यस्व
भावाध्यासितमूर्तिः सहैवासावतश्च पश्चादपि तद्रूप
वियोगात्कार्यमुत्पादयेदन्यथोदयानन्तरमेवास्य क्षयः स्यात् । न चाप्यक्षणि
कत्त्वेनोपगतस्य सकृ
त् कार्यमुत्पद्यमानमुपलभ्यते क्रमसम्भवदर्शनात् । तदे
वमयमक्षणिकः पदार्थः क्रमेण युगपद्वा न काञ्चिदप्यदर्थक्रियामात्रामंशतोपि क्ष
मो
निर्वर्तयितुमित्त्यसत्त्वमेवास्य । यदि नामार्थक्रिया सा न युक्ता तक्तिमित्यसत्त्वमे
वास्य स्यादित्याह । अर्थक्रियेत्यादि
1b5 । अर्थक्रियायाः साम
र्थ्यन्तदेव लक्षणं
यस्य सत्त्वस्येति विग्रहः । अतोऽर्थक्रियासामर्थ्यलक्षणात्सत्त्वाद्व्यावृत्तम्व्यवच्छिन्नं ।
8
इति श्रुतेर्हेतौ । तस्मादर्थे वा । कथम्पुनरि
दमवसीयते । अर्थक्रियासामर्थं5सत्त्वलक्षणमित्यत आह । सर्व्वे
1b5 त्यादि । सर्व्वेषां सामर्थ्याना
मुपाख्या श्रुतिः । उपाख्यायते अनयेति कृत्वा तस्याविरहोऽभावः ।
स एव लक्षणं
यस्य निरुपाख्यस्य स तथा ख्यायते । अत्रापीति श्रुतिहेतौ । सर्व्वग्रहणं घटादीना
मपि क्षणिकत्त्वेनाभिमतानाम्विषयभेदेनार्थक्रियासामर्थ्य
निर्वृत्तेरस्तीति तेषामसत्त्व
व्यवच्छेदाय । नैवार्थक्रियासामर्थ्यं सत्त्वलक्षणमपि तु सत्तायोग इति चेत् । न ।
सत्ताया अभा
6b वात् । तदभावश्चान्यत्र प्रतिपादित इति नेहोच्यते । सत्तायाश्च
नैव सत्त्वं प्राप्नोति सत्तायोगाभावात् । निःसामान्या
नि सामान्यानीति समयात् ।
न च स्वयमतद्रूपाः पदार्थात्मानः स्वभावान्तरसम्पर्क्कमासादयन्तोपि ताद्रूप्यम्प्रति
पद्यन्ते । स्फटिकाभ्रपटलादय इव
जवाकुसुमादिरूपमिति यक्तिञ्चिदेतत् ।
तत्वेतावदेवाभिधानीयं । सर्व्वसामर्थ्यविरहलक्षणं निरुपाख्यमि
1b6 ति
तक्तिमनेनोपाख्याग्रहणेनेति चेत् । सूक्त
मेतत्सर्व्वसामर्थ्यरहितस्य तु सामर्थ्य
निबन्धनस्य कस्यचिदपि शब्दस्यावृत्तेरसद्व्यवहारविषयत्त्वख्यापनाय । संज्ञा
याश्चानुगतार्थत्त्वसिद्ध्यर्थ
मिदमुक्तमिति गम्यते । यदि त्वेवं साध्यविपर्यये हेतो
त्बाधकप्रमाणोपदर्शनं न क्रियते ततः किं स्यादितिचेदाह । एवं साधनस्य साध्य
विप
र्यये बाधकप्रमाणानुपदर्शने
1b6 सत्यनिवृत्तिरेवाशंकाया इति सम्बन्धः ।
का पुनः सा शंका । स कृतको वा स्यान्नित्यश्चैवं प्रकारा ।
ननु विप
क्षहेतोर्वृत्तिर्नोपलभ्यते तत्कथमनिवृत्तिरित्याह । अदर्शने 1b6 पि
वृत्तेरस्य साधनस्याक्षविपर्यये साध्यस्य हयुपस्कारः । किमित्येवमप्यनिवृत्तिरित्याह ।
वि
रोधाभावादि
1b6 ति । साधनसाध्यविपक्षयोरिति शेषः । अयमस्याभिप्रायो यदि
साधनस्य साध्यविपर्यस्य च परस्परम्विरोधः सिद्धः स्यात् । भवेददर्शनमात्रे
7a ते अन्यथा
बाधकासिद्धौ संशयो दुर्न्निवारः स्यादित्याशङ्क्याह । न च नैव सर्व्वानुपलब्धिर्बा
धिका प्रतिषेधिका युक्तेत्युपस्कारः । कस्य भावस्य सत्त्वस्य साध्यविपर्यये
हेतोरिति
शेषः । प्रकरणाद्वैतद् गम्यत एव । इदमुक्तम्भवति । व्यापकानुपलब्धिरेव सहभाव
9 बाधते हेतोः साध्याभावेन । यथा प्रतिपादितम्प्राक् । नाप्यदर्श
नमात्राद्व्यावृत्तिर्वि
प्रकृष्टसर्व्वदर्शिनोऽदर्शनस्याभावासाधनादि
1b7 त्यादिना । तस्मात्सूक्तमन्यथा
बाधकासिद्धौ संशयो दुर्न्निवारः स्यादिति । अनेन पूर्व्वोक्त
मेव स्मारयति । एवञ्चै
तदर्थवत् । अभावसाधनस्यादर्शनस्याप्रतिषेधादित्युक्तं । तत्र भवेत्कस्यचिदाशंका
किमनेनाभावसाधनस्येति विशे
षणेन यावता सर्व्वमेवादर्शनमभावसाधनमित्य
तस्तदाशङ्काविनिवृत्त्यर्थमिदमाह । न चेत्यादि
1b11 । अत्र च शब्दो हि
शब्दार्थे प्रतिपत्तव्यः । तस्मिं
नैव वाऽवधारणे व्याख्यानन्तु पूर्व्ववत् ।
ननु च बाधकस्यैव प्रमाणस्य क्रमाक्रमायोगस्यासामर्थ्येन व्याप्तिर्न सिद्धा तत्कथं
तत्स्वयं असिद्धव्याप्तिकं स
दपरस्य सत्त्वादेर्हेतोर्व्याप्तिसाधने पर्याप्तं । प्रमा
णान्तरेण तत्र व्याप्तिः साध्यत इति चेत् । सैव तर्हीयमनवस्थादोषादिवानुबध्ना
तीति कदाचित्परो ब्रूयादित्या
शङ्क्य सर्व्वमिदमाह । तत्रेत्यादि
1b11 । तत्र
शब्दो वाक्योपन्यासार्थः । सामर्थ्यं यद्वस्तुलक्षणं तत्क्रमाक्रमयोगेन व्याप्तं सिद्धं ।
यत्र सामर्थ्यं तत्र क्रमाक्रमाभ्यामर्थक्रियया
भवितव्यमित्यनेनाकारेण तदेव कुत
इति चेदाह । प्रकारान्तरासग्भवात्
1b11 । यस्मादन्यत् क्रमाक्रमव्यतिरिक्तं
प्रकारान्तरं नास्ति । तस्माद्यत्रेदं सत्त्वलक्षणमर्थक्रिया
7b सामर्थ्यं तत्रावश्यं च
क्रमाक्रमाभ्यामर्थक्रियया भवितव्यं । ननु च क्रमाक्रमाभ्यामन्यो रासि
10 6र्नास्तीत्येतदेव कथं सिद्धं । क्रमाक्रमयोरन्योन्यपरिहारस्थितलक्षणत्त्वेन
तृती
यप्रकारव्यतिरेकत्वात् । भावाभाववदिति ब्रूमः । भवत्वेवं स तु क्रमयौगपद्य
रूप एवेति कुत इति चेत् । कस्तहर्यन्यो भवतु । कश्चिद् भवेदिति चेत् । किमर्थ
न्तर्हि मह
त्यनर्थसङ्कटे पतितोसि यदिदन्तया तद्रूपाभिधानेप्यसमर्थोसि । यदि
नाम सामर्थ्यं क्रमाक्रमयोगेन व्याप्तं सिद्धं तथापिकिं सिद्धमिति चेदाह । तेन
सामर्थ्य
स्य क्रमाक्रमयोगेन व्याप्तत्वेन व्यापकस्य धर्मस्य क्रमाक्रमयोगस्यानुप
लब्धिः 2a1 । अक्षणिके पदार्थेऽभ्युपगते सामर्थ्यं बाधते निराकरोतीत्यर्थः ॥
तथा ह्ययं क्रमाक्रमयोगस्तस्य सामर्थ्यस्य व्यापकः । ततश्चास्य निवृत्तावश्य
मेव सामर्थ्यस्यापि निवृत्तिरन्यथाऽयमस्य व्यापक एव न प्राप्नोति । यस्मा
त्तद्वा
धते इति तस्मा त्क्रमयौगपद्यायोगस्य व्यापकाभावस्य कर्मभूतस्य सामर्थ्याभावेन
व्याप्याभावेन कर्त्तृभूतेन व्याप्तिसिद्धेः कारणान्नानवस्थाप्र
सङ्गः ।
एवं स्वभावहेतोः साधनाङ्गसमर्थनमभिधायाधुना निगमयति । एवमि
2a1
त्यादिना । एवञ्च यदि न समर्थनं क्रियते तदेव तद्वादिनः पराजयमावहती
ति प्राक्
प्रतिज्ञातमेवायोजयति । तस्यासमर्थन
2a2 मित्यादिना । कस्मादेवं प्रारब्धार्था
साधनादिति । न ह्यसमर्थितं साधनमारब्धमर्थं साधयितुं समर्थं । विवादाभा
8a व
प्रसङ्गात् । तथाहि सार्व्वज्ञज्ञानसाधने संस्कारोत्कर्षभेदेन सम्भवे प्रकर्षपर्यन्तवृ
त्तयः प्रज्ञादयो गुणाः स्थिराश्रयवर्त्ति सकृद्यथाकथंचिदाहितविशेषं विना
हेतु
रात्मनीति । यदि तर्हि बाधकप्रमाणोपदर्शनेन हेतोर्व्याप्तिः प्रसाध्यते । तथा सत्त्य
नवस्था भवतः प्राप्नोतीत्याशंकापनोदनाय पूर्व्वपक्षमारचयन्नाह । अत्रापी
1b9
त्यादि । अत्रेति बाधके प्रमाणे । अदर्शनमप्रमाणयतस्तव नादर्शनमात्राद्धेतोर्व्यति
रेकनिश्चय इत्यनेनाकारेण न केवलं मौले हेतावित्यपि शब्दः किं पूर्व्व
स्यापि
मौलस्य हेतोरव्याप्तिः प्राप्नोतीति क्रियापदं । किङ्कारणं । क्रमयौगपद्यायोगस्य वा
सामर्थ्येन व्याप्त्यसिद्धः । तथाहि यद्यदर्शनमात्रेण न व्यतिरेकनिश्चय
स्तथा सति
क्रमयौगपद्यायोगश्च भविष्यति सल्लक्षणं सामर्थ्यञ्च भविष्यति । कोऽनयोर्वि
रोध इत्यत्रैव बाधके प्रमाणे व्याप्तिर्न सिद्धा । यदि नामात्र
न सिद्धा मौलहेता
वेतद्वलेन व्याप्तिः सेत्स्यतीति चेदाह । पूर्व्वस्यापि मौलस्यापि हेतोरव्याप्तिः प्राप्नो
तीत्यध्याहारः । तथाहि न स्वयमप्रमाणकं बा
धकं प्रमाणमन्यस्य प्रमाणमुपकल्पयि
11 तुमलं प्रामाण्यप्रसङ्गात् ।
यद्येवमत्रापि तर्हि व्यापके प्रमाणेऽन्येन व्यापकेन प्रमाणेन व्याप्तिर्निश्ची
यत
इत्याह । इहापि
1b9 न केवलं मौलहेतावित्यपिनाह । पुनः साधनोपक्रमे
सत्यनवस्था भवेत् । तथाहि यत्तद्वाधके प्रमाणे व्याप्तिप्रसाधनार्थं बाधकं प्रमा
ण
मुच्यते । तत्रापि व्याप्तिरन्येन बाधकेन प्रमाणेन साध्या । यस्मान्न तदपि स्वयम
प्रमाणमितरस्य प्रामाण्यं कर्त्तु समर्थमित्येतत्तत्रापि शक्यम्वक्तुं । तस्याप्यन्येन
व्याप्तिः साध्यत इति चेत् । यद्येवं तत्रापीयमेव वार्त्तेंत्यनवस्था भवतस्तथा
सति प्रसजति । एवं समारचितपूर्व्वपक्षः साम्प्रतमत्र प्रतिविधानमाह । नाभा
वसा
8b धनस्ये
1b10 त्यादि । व्यतिरेकसाधनत्त्वेनेत्युपस्कारः । इदमुक्तम्भवति ।
न सर्व्वमत्रादर्शनं प्रतिक्षिप्यते । व्यतिरेकनिश्चायकस्य व्यापकानुपलब्धिसंज्ञ
कस्यानिषेधात् । किन्त्व
दर्शनमात्रमिति । यदाह । यददर्शनम्विपर्ययमभावं साध
यती
1b10
ति । कस्य हेतोः कुत्र साध्यविपर्यये तददर्शनमस्य हेतोर्बाधकम्प्रमाण
मुच्यते । कस्माद्विरुद्धप्रत्यु
पस्थापनात् अस्येति वर्त्तते । तथाहि यस्य क्रमयौगपद्या
भ्यामर्थक्रियायोगस्तस्य सामर्थ्यलक्षणं सत्त्वं नास्ति । यथा बन्ध्यातनयादीनान्तथा
वा क्षणिकानामपि क्रमयौ
गपद्याभ्यामर्थक्रियाऽयोग इति । क्रमाक्रमाभ्यामर्थ
क्रियाऽयोगादित्ययं व्यापकानुपलम्भः सत्त्वादित्यस्य हेतोर्विरुद्धमसत्त्वं साध्यवि
पर्यये प्रत्यु
पस्थापयद्वाधकं प्रमाणमुच्यते । एवञ्च कृतकत्वादावपि यथायोग्य
म्वाच्यं ।
कस्माद्विरुद्धप्रत्युपस्थापनादस्य तद्वाधकम्प्रमाणमुच्यत इत्याह । एवं
हि
स हेतुः सत्त्वादिलक्षणः साध्याभावे तस्मिन्नसन्निति सिध्येत् यदि तत्र साध्याभावे
बाध्यते निराक्रियता केन स्वविरुद्धेन स्वरूपविरुद्धेनासत्त्वादि
नेति यावत् ।
किम्भूतेन प्रमाणवता प्रमाणयुक्तेन । कस्मादेवमसौ तत्रासस्तिध्यतीत्याह । अन्यथा
तत्र 1b11 साध्यविपर्ययेऽस्य हेतोर्बाधकस्यासिद्धौ सत्त्यां संशयः । सं
श्च
स्यान्नित्यश्चेत्यादि दुर्निवारः स्यादिति शेषः । दुःखेन निवार्यत इति दुर्निवारो
दुर्न्निषेध इत्यर्थः । बाधकग्रहणेनात्र विरुद्धस्य प्रत्युपस्थापकम्प्रमाणं
गृह्यते ।
वाधकप्रमाणप्रत्युपस्थापितम्वा हेतुविरुद्धं । ननु चानुपलब्धिमात्रादेव साध्यविपर्यये
हेतोर्व्यावृत्तिनिश्चयादसन्दिग्धो व्यतिरेको भविष्यति । तक्तिमुच्य
9a से शङ्काया
व्यावृत्तिः । बाधकप्रमाणानुपदर्शने तु स एव न सिध्यति तत्कथमियं निवर्त्ते
तेति । यदि नामेयमाशङ्का न व्यावर्त्तते । ततः किमित्याह । ततः आशंकाया
12 अनिवृत्ते रनेकान्तिकः स्याद्धेत्त्वाभासः
1b7 । कस्माद्व्यतिरेकस्यस्या7
ध्याभावे हेतोरभावलक्षणस्य सन्देहात्कारणात्सन्दिग्धविपक्षव्यावृत्तिकः स्याद्धे
त्वाभास इत्यर्थः ।
किम्पुन
रदर्शनेप्यनिवृत्तिराशंकाया यावता तददर्शनमभावं साधयतीत्याह ।
नाप्यदर्शनमात्राद्व्यावृत्तिः
1b7 साध्याभावे हेतोः सिध्यतीति वाक्याध्याहारः ।
अपिशब्दो य
स्मादर्थे । मात्रग्रहणमुपलब्धिलक्षणप्राप्तादर्शनस्य व्यवच्छेदार्थं ।
कुत एतत् । विप्रकृष्टेषु देशकालस्वभावविप्रकर्षैः पदार्थेषु चीनदा
शरथिपिशाच
प्रभृतिषु यददर्शनं तस्याभावासाधनात् । कस्याभावं साधयतीति चेत् । प्रकृतत्त्वा
द्विप्रकृष्टानामिति गम्यते ।
ननु समासादि
तसकलपदार्थव्यापि जानाति स यस्यादर्शनमभावम्विप्रकृष्टाना
मपि साधयति तत्कथमिदमुक्तमित्याह । असर्व्वदर्शिन
1b7 इति । सर्व्वन्द्रष्टुं
शी
लमस्य ततो नञा समासः । कस्मात्तस्याप्यदर्शनमभावन्न साधयतीति । अर्व्वा
ग्दर्शनेन पुंसा सतामपि केषाञ्चिदर्थानाम्विप्रकृष्टानामदर्शनात् । इदमागूरितं ।
नेह
सर्व्वदर्शिदर्शनं समस्तवस्तुसत्तां प्राप्नोति । येन तन्निवर्त्तमानमर्थसत्ताम्वृक्षवच्छिं
सपां निवर्त्तयेद् भेदात् । नापि तत्तस्याः कारणं येन वह्निवद्धूमं निवर्त्तमानं नि
व
र्त्तयेत् । तदभावेपि भावादिति । बाधकं पुनः प्रमाणमित्यादि । अत्र केचिदेवं
पूर्व्वपक्षयन्ति । किम्पुनर्बाधकं प्रमाणं यस्योपदर्शनेन मौलस्य हेतोर्व्याप्तिप्र
9b ती
तिर्भवतीत्याह । बाधक म्पुन 1b7 रित्यादि । तेषाङ्कथमत्र व्याप्तिसाधनम्विपर्यये
बाधकप्रमाणोपदर्शनं यदि न सर्व्वं सत्कृतकं वा प्रतिक्षणम्विनाशि स्यादित्यादि
नाऽत्रैव
प्रागर्थस्याभिहितत्त्वात्पुनरुक्तदोषप्रसक्तिर्न भवतीति चिन्त्यमेतत्
तैरेवेत्यलं परदोषसंकीर्त्तनेन । तस्मादन्यथा पूर्व्वपक्ष्यते । यस्यापि तर्हि बाधकम्प्र
माणमस्ति त
स्य कथमयमदोष इत्यत आह । बाधकं पुनः प्रमाणं
1b7 प्रवर्त्त
मानमसामर्थ्यमाकर्षतीति क्रियापदं । कीदृशमसल्लक्षणं । कथं प्रमाणं यस्य पदार्थस्य
क्रमयौग
पद्यायोगः । अर्थक्रियाया इत्यध्याहार्यं । न तस्य क्वचित्कार्ये सामर्थ्यं
यथा नभस्तलारविन्दस्येत्यध्याहार्यो दृष्टान्तः । अस्ति चाक्षणिके भावे स क्र
म
यौगपद्याभ्यामर्थक्रियाया अयोग इत्येवम्प्रवर्त्तमानं । ततः किञ्जातमिति चेदाह ।
तेन
1b8 कारणेन येन तत्प्रवर्त्तमानमसल्लक्षणमसाम
र्थ्यमाकर्षयति । यत्स
त्कृतकम्वा तदनित्यमेवेति सिध्यति ।
एवमपि किं सिद्धम्भवतीत्याह । तावता च वाधकप्रमाणोपदर्शनमात्रेण
साधन-
13
धर्ममात्रान्वयः
1b8 सिध्यतीति वर्त्तते । केनेत्याह । साध्यधर्मस्य कर्त्तरि चेयं
षष्ठी प्रतिपत्तव्या । तेन साध्यधर्मेण साधनधर्ममात्रस्यानपेक्षितहेत्वन्तरव्यापा
रस्या
न्वयः सिध्यतीति वाक्यार्थः सन्तिष्ठते । नत्वेवङ्करणीयं साधनधर्ममात्रेणान्वयः
साध्यधर्मेति । एवं हि साध्यमेव हेतुना ऽविनाभूतं जातं न हेतुरिति हेतो
रगम
कत्त्वम्भवेत् । ततश्च को गुणो लभ्यत इत्याह । स्वभावहेतुलक्षणञ्च सिद्धम्भ
वति
1b9 तावता चेति वर्त्तते । स्वभावहेतुलक्षणञ्च तद्भावमात्राद्धर्मिनिस्वभा
वो
10a पि प्रत्ययाभावेऽपुनर्यत्नापेक्षितत्त्वात् । कलधौतमलविशुद्धिवदित्येवमादयो हेतवः
प्रतिलब्धसामर्थ्यातिशयाः सन्त्येव ते च यद्यसमर्थिता एव ज्ञाप्यसमर्थं ज्ञाप
येयुस्तदा
जैमिनिप्रभृतीनां विवादाभाव एव भवेत् । नन्वेतदेव न सम्भाव्यते । यत्परमार्थतः
समर्थस्यापि हेतोरभिधाने निग्रहार्होऽसावित्याशङ्कायां स्वाभिप्रा
यं प्रकटयति ।
वस्तुतः समर्थस्य हेतोरुपादानेपि सामर्थ्यप्रतिपादनादिति । अयमस्य भावो यदि
नामानेन परमार्थतः समर्थो हेतुरुपात्तस्तथापि तस्य सा
मर्थ्यं साधनाङ्गासमर्थनान्न
प्रतिपादितमनेनेति असमर्थकल्प एवासौ । न ह्यर्थस्य परार्थानुमाने गुणदोषा
वधिक्रियेते । किन्तर्हि वचनस्य वक्तुरय
थार्थाभिधानेनोपालम्भात् । अत एव
यत्राप्यर्थस्य गुणदोषावधिक्रियेते तत्रापि वचनद्वारेणैव । एवमेतदभ्युपगन्तव्य
मन्यथा क्षणिकः शब्द इ
त्येतावन्मात्रमेव प्रतिज्ञावचनमभिधाय स्थातव्यं । तथा
भिधानादेवाभिमतार्थसिद्धेरिति ॥ ० ॥
एवं स्वभावहेतावुपदर्श्य साधनाङ्गसमर्थनमिदा
नीङ्कार्यहेतावाह ।
कार्यहेतावपी
2a2 त्यादिना । किम्पुनस्तदित्याह ।
यत्कार्यं लिङ्गं धूमादि
संज्ञकं कारणस्य दहनादेः साधनायोपादीयते
2a3 । तस्य धूमादेस्तेन दहना
दिना
सह कार्यकारणभावप्रसाधनलिङ्गिलिङ्गयोर्हेतुफलभावसाधनमेव यत्तदेव
कार्यहेतौ साधनाङ्गसमर्थनमित्यर्थः । केन पुनस्तयोः कार्यकारणभावः प्रसा
ध्यत इत्याह । भावाभावसाधनप्रमाणाभ्या
2a3 मिति । भावाभावौ कार्य
कारणयोः सदसत्ते तयोः साधने ते च ते प्रमाणे चेति व्यु
10b त्पत्तिक्रमः । साधन-
शब्दश्च करणसाधनः भावाभावसाधनप्रमाणे च प्रत्यक्षानुपलम्भो यथाक्रमं ।
कथम्पुनः प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावः प्रसाध्यत इत्याह
। यथे
14
2a3 त्यादि । इदन्धूमादिसंज्ञकं कार्यमस्मिन्दहने सति भवति । उपलब्धिलक्षण
प्राप्तं सदनुपलब्धं प्रागिति वाक्यशेषः कार्यः । अन्यथा दहनस्य तत्र धूमे व्यापार
एव
न कथितः स्यात् दहनसन्निधानात्प्रागप्येतदासीदित्याशङ्कासम्भवात् । यथो
क्तानुपलम्भग्रहणे तु नैवेयमवतरति । अत एव च प्रमाणविनिश्चि8या दा
वप्येवमेवा
भिहितमिति । अनेन च प्रत्यक्षप्रमाणव्यापार उक्तः । तथाहि अस्मि
न्सतीदं भवतीति प्रत्यक्षेणैतद् गम्यते । सम्प्रत्यनुपलम्भस्य व्यापारं निर्दिदिक्षु
राह । सत्स्वपी
2a3 त्यादि । तस्माद्दहनादन्येषु विद्यमानेष्वपि । तथा तस्य
धूमस्य हेतुष्विन्धनानिलादिषु समर्थेषु सत्स्वपीति वर्त्तते । चकारश्चात्र लुप्त
निर्दिष्टः प्रतिपत्तव्यः समर्थेषु चेति । तस्य दहनस्याभावे न भवति । इदमित्यधि
कृतं । इति एवमित्यस्यार्थे वर्त्तते व्यवच्छेदे वा । तदनेन गवाश्वादी
नां
तद्देशकालसन्निहितानामपि धूमजननं प्रति कारणत्त्वन्निसि9द्धं । यतो
यदि ते गवाश्वादयस्तस्य कारणम्भवेयुस्तदा व्यतीतेप्यग्नौ तेषां सन्निहितत्त्वाद्
धूमो
त्पत्तिप्रसङ्गः । इन्धनादिकारणान्तरापेक्षास्ते तस्य जनका भवन्ति ततोयम
प्रसङ्ग इति चेत् । यद्येवं तेपि तत्र सन्निहिता एवेति न व्यावर्त्तते प्रसङ्ग इति
द
हनमपि सहकारिणमपेक्ष्य तं जनयन्ति ततो न युक्तमिदमिति चेत् । नन्वेवं
सत्यायातन्दहनस्य धूमोर्त्पत्तिं प्रति कारणत्त्वं । तक्तिमिदमुच्यते पूर्व्वापरव्याह
तङ्ग
11a वाश्वादय एव तस्य कारणन्न दहन इति । अस्तु तर्हि तस्यापि दहनस्य
कारणत्त्वङ्गवाश्वादीनामपीति चेत् । न युक्तमेतत् । तत्र व्यतिरेकगतेर्दुर्घटत्वात् ।
तथा ह्यप
गतेष्वपि गवादिषु सति च दहने तत्रेन्धनादिकलापे भवत्येव हुतभुग्धे
तोरुत्पत्तिः । यतः कारणप्रबन्धङ्कार्यप्रबन्धञ्चाश्रित्य हेतुफलभावश्चिन्त्यते
भावानाङ्का
रणप्रबन्धपूर्व्वः कार्यप्रबन्ध इति । तत्तु क्षणभेदं । नहि समासादित
ज्ञानातिशयानामयं पूर्व्वः क्षणोऽयमुत्तर इति विशेषावलम्बि ज्ञानमुदेति ।
अर्व्वाग्दर्शि
भिश्चाधिकृत्य प्रमाणलक्षणं प्रणयितं कृपावद्भिः । यथोक्तं
सांव्यवहारिकस्यैतत् प्रमाणस्य रूपमुक्तमत्रापि परे विमूढा विसम्वादयन्ति लो
क
मिति । वासगृहादिषु तर्हि दहनाभावेपि धूमसद्भावाद्व्यभिचार इति चेत् ।
भूतस्यापि दहनप्रबन्धपूर्व्वकत्त्वमस्त्येव । साक्षात्पारम्प
र्यकृतस्तु विशेषः ।
अवयन्ति च विच्छिन्नाविच्छिन्नदर्शनप्रबन्धयोर्द्धूमप्रबन्धयोर्वासगृहादिरसवतीप्रदे
शादिभाविनोः स्फुटमेव भेदम्विचित्र
भावस्वभावविवेकाभ्यासबलोपजातविदग्ध
15 बुद्धय इति भेदेनाप्यनुमानमविरुद्धमत एव देशकालाद्यपेक्षमनुमानं कार्यहेतौ
विरुद्धकार्योपलम्भे चोक्तं ।
इति ।
अथापि कश्चिद्विविधभावभेदप्रविचयचातुर्यातिशयशलाकोन्मी
लितप्रज्ञाचक्षु
ष्ट्वादयं ज्वलनजनितो धूमोऽयं धूमजनित इति विवेचयति । तथापि न सुतरां
व्यभिचारः । तथाहि नाग्निजन्यो धूमो धूमाद् भवति निर्हेतुकत्त्वप्रसङ्गात् ।
11b
तथा च यदुक्तं ।
इत्यादि
तदसारमित्यप्युपेक्षते । तस्मान्न तेषां गवाश्वादीनां तत्र
कारणत्त्वमस्तीति
निश्चयः समाधीयतां । अतश्च दहन एव तस्य कारणं नाश्वादय इति स्थितमेतत् ।
तथा च दहनस्य कारणत्त्वं योजितमन्वयव्यतिरेकाभ्यां यथो
क्तप्रकाराभ्यामेव
मिंधनादिसामग्र्याः सर्वस्याः कारणं योजयितव्यं । यदि वैकवाक्यतयैव व्याख्या
यते । सत्स्वपि तस्माद्दहनादन्येषु समर्थेषु तद्धेतुष्विं
धनादिष्वस्याभावे न भव
तीति । गवाश्वादीनां त्वहेतुत्त्वम्व्यतिरेकाभावतया यथोक्तेन विधिना बोद्धव्यं ।
ननु चैतदेव युक्तम्वक्तुं तदभावेन भवती
त्यथ किमर्थं सत्स्वपि तदन्येषु
समर्थेषु तद्धेतुष्वित्युच्यत इति चेदाह । एवं ही
2a4 त्यादि । यस्मादेवं सत्स्व
पीत्यादिनाऽभिधीयमानोऽस्य धूमस्य तत्कार्य
त्वमग्निकार्यत्त्वं समर्थितं निश्चि
तमसन्दिग्धम्भवति । अन्यथा यद्येवं नोपदर्श्यते । केवलं तदभावेन भवतीत्युप
दर्श्यते तदा तदभावेन भवतीत्युप
दर्शने क्रियमाणेन्यस्यापि तु गवाश्वादेरिन्ध
नादेश्च तत्राग्निशून्यभूभागेऽभावे सति सन्दिग्धमस्याग्नेः सामर्थ्यम्भवतीति कुतः
कारणभावनिश्चय इति समुदाया
र्थः । तत एवाह ।
सत्सु हि समर्थेषु तद्धे
तुषु 2a3 कार्यानुत्पत्तिः कारणान्तरविकल्पं सूचयती ति सन्दिग्धमस्यान्यथा
सामर्थ्यमित्येतदेवान्य त्तत्रेत्या
2a4 दिना सूचयति । तत्र धू
माश्वकार्येऽन्य
देवाश्वादि । यदिन्धनादिसमर्थन्तदभावात्तन्न भूतन्दहनशून्यदेशे । अस्य स्वभावा
त्तन्न जातमिति कुतोयं निश्चय इत्यर्थः ।
16
12a यद्यन्यत्तत्र समर्थन्तद भावात्तन्न जातमेतन्निवृत्तौ निवृत्तिस्तर्ह्यस्य कथमिति
चेदाह ।
एतन्निवृत्तावित्या 2a5 दि । एतस्याग्नेर्न्निवृत्तौ धूमनिवृत्तिर्येयं
धूमस्य सा यदृच्छासम्वादः । काकता
ली यन्यायेनेत्यर्थः । यदा तु सत्स्वपीति क्रियते
तदा सर्व्वेषां तत्र सन्निपातादेतस्यैव निवृत्तावस्य निवृत्तिरिति निश्चयान्न यदृच्छा
सम्वाद इत्यभिप्रायः ।
किम्वदे
तन्निवृत्तौ निवृत्तिर्यदृच्छासम्वाद इत्याह ।
मातृविवाह
2a5
इत्यादि । मातुर्विवाह उचित आचरितो यस्मिन्देशे स तथा । ततो देश
शब्देन सह विशेषणसमास
ः । तत्र स च जन्माश्रयत्त्वादुपचारात् । जन्म
उत्पत्तिर्यस्य तस्य पारसीक देशभावि न यावत् । देशान्तरे मालवका दिदेशे यथा
ऽभावो मातृविवा
हाभावे यदृच्छासम्वादस्तद्वदत्रापि । तथाहि मृद्विशेषाभावा
द्देशान्तरे तस्याभावो न तु मातृविवाहाभावादिति काकतालीयस्तदभावे तस्या
भा
व इति । एवञ्चैतत् ।
अथवा अन्यथा व्याख्यायते । यथेदं धूमादिकार्यमस्मिन्नग्नीन्धनादिकारण
कलापे सति भवति । वाक्याध्याहारस्तु पूर्व्व
वत्कार्यः । तस्य प्रयोजनं तदेवाव
गन्तव्यं । इदम्प्रत्यक्षव्यापारसङ्कीर्त्तनं । सत्स्वपीत्यादिनाऽनुपलम्भस्य तदन्येषु
पुनस्तस्मादग्न्यादिकारणकलापात् । अन्ये
षु गवाश्वादिषु समर्थेषु तद्धेतुष्वस्या
ग्न्यादिकारणकलापस्याभावे न भवति । एतच्च परमतापेक्षमुक्तं । न तु तेषान्तद्धे
तुत्त्वमस्ति । यदि पुनस्ते तस्य हेतवः स्यु
स्तदा तत्कलापसन्निधेः प्रागपि पश्चा
दिव धूमोत्पादप्रसङ्गः । तत्सापेक्षतया तत्कृतकत्त्वं तेषामिति चेत् । आयातं तर्हि
तस्य कलापस्य कारणत्त्वं ।
भवतु
12b तर्ह्युभयोरपि न नः काचित् क्षतिरिति चेत् । न । व्यतिरेकगतस्तत्र
दुर्घटत्वादित्युक्तं । यथाऽपगतेष्वपि सर्व्वेषु तेषु तस्मिं कलापे सति भवत्येव तस्य
सम्भव इति तद
भावे न भवतीति वाच्यं । तत्किमर्थं सत्स्वपीत्याद्युक्तमिति
चेदाह । एवं ही 2a4 त्यादि । अन्यथा तस्य कलापस्याभावे न भवतीत्युपदर्शने
तस्यापि गवाश्वादेस्तत्राभावे सति
सन्दिग्धमस्य कलापस्य सामर्थ्यम्भवेत् ।
यतोऽन्यद् गवाश्वादि तत्र शक्तं तदभावात्तन्न भूतमेतस्य कलापस्य निवृत्तौ निवृ
त्तिर्यदृच्छासम्वादः शेषं पूर्व्वयत् ।
17
एवाङ्कार्य
कारणभावनिश्चयोपायविधिमुक्त्वा प्रकृतमुपसंहरति । एव
मि
2a5 त्यादिना । एवं यथोक्तेन विधिना तद्धूमादि तस्य वह्न्यादेः कार्यं
समर्थितं निश्चितं
सिध्यति भवति । यदेवासमर्थितमसन्दिग्धं सिध्यति निश्ची
यते । अथवा एवं प्रत्यक्षानुपलम्भाभ्यां सम र्थित12सत्तत्तस्य कार्यं सिध्यति ।
यदि नाम सिध्यति त
त् किभित्याह । सिद्धं सत् स्वसम्भवेन आत्मसन्निधानेन
तत्सम्भवं तस्य कारणस्य सन्निधानं साधयति 2a6 । देशकालाद्यपेक्षयेत्या
ध्याहर्त्तव्यं । एतदुक्तम्भ
वति । कार्यकारणभावनिश्चयास्तिद्धं तदुत्पत्तिलक्षण
प्रतिवस्तु यत्रैवमतादृश उपलभ्यते तत्रैव स्वसत्तामात्रेण देशकालाद्यपेक्षया
तत् स्वकारणङ्गमयतीति । किं
कारणमित्याह ।
कार्यस्य कारणाव्यभि
चारादि
2a6 ति । अन्यथा हि तत्तस्य कार्यमेव न स्यात् । तद्व्यभिचारात् ।
नहि यद्व्यतिरेकेन13यद् भवति तत्तस्य कार्यं युक्तं । कुण्डलमिव केयूर
स्येत्यभि
सन्धिः ।
ननु यदि नाम धूमोऽग्निकार्यत्त्वन्न व्यभिचरति । अन्यस्य त्वङ्कुरादेः
स्वकारणैरेव बीजादिभिरव्यभिचार इति कुत एतदित्याह । अव्यभिचारे चे
2a6 त्यादि । इ
13a दमुक्तम्भवति । यदा धूमस्य स्वकारणाव्यभिचारस्त-
दुत्पत्तेः सिद्धस्तदा बीजादिभिरात्मीयैः कारणैः सहाङ्कुरादीनां सर्व्वकार्याणां
सदृशोऽव्यभिचारन्यायः । तथाहि
तेपि यथोक्तप्रकाराभ्यां प्रत्यक्षानुपलम्भाभ्यां
तत्कार्यतया सिद्धाः सन्तस्तदव्यभिचारिणः सिद्ध्यन्ति । एतत्साधनाङ्गस
मर्थनं कार्यहेतौ । एतद्विपरीतञ्चासमर्थ
नं । तद्वादिनः पराजयाधिकरणमिति दर्श
यन्नाह । एवमि
2a6 त्यादि । एवमिति प्रत्यक्षानुपलम्भाभ्यां यथोक्तप्रकारा
भ्याङ्कार्यहेतावपि न केवलं पूर्व्वोक्तेन प्रकारे
ण स्वभावहेतावसमर्थनम्वादिनः
पराजयस्थानमित्यपि शब्दः । कस्मादेवमित्याह । असमर्थित
2a7 मित्यादि ।
असमर्थिते तस्मिन्कार्यकारणभावे
लिङ्गलिङ्गिनोर्लिङ्गस्य वा तत्का
र्यत्त्वे आरब्धार्थासिद्धेरिति क्रियापदं ॥ आरब्धोऽर्थः कारणस्य सत्तासाधनं ।
तस्यासिद्धेस्तत्पराजयस्थानमिति
प्रकृतेन सम्बन्धः ।
एतदेव कुत इत्याह । अर्थान्तरस्य
2a7 धूमादेर्भावे सत्त्वे तस्या
18 न्यादेर्भावनियमाभावात् । नियमग्रहणं यदृच्छासम्वादनिरा
सार्थं । अर्थान्तर
स्यापि तद्भावे प्रतिबद्धस्वभावस्य भावे भवत्येव तद्भावनियम इत्यत आह ।
तद्भावाप्रतिबद्धस्वभावस्ये
2a7 ति । तद्भावेऽग्न्यादिभावेऽप्रतिबद्धोऽना
य
त्तः स्वभावोऽस्येति विग्रहः । एतच्चार्थान्तरस्य भावे तद्भावनियमाभावादि
त्येतस्य कारणमवगन्तव्यं । प्रयोगः पुनर्योऽर्थान्तरभूतो यस्मिन्न प्रतिबद्धस्वभाव
स्तस्य भावे न तद्भावनियमः । तद्यथा नूपुरस्य भावे मुकुटस्य । अर्थान्तरभूत
श्चायं धूमादिरप्रतिबद्धस्वभावस्तस्मिन्नग्न्यादाविति व्यापकानुपलब्धिः । व्यापक
विरु
13b द्धोपलब्धिविधिना वा हेत्वर्थकल्पनातद्भावाप्रतिबद्धस्वभावत्त्वमेव कुत
इत्याह ।
कार्यत्त्वासिद्धे
2a7 रिति । एतत्पुनरसमर्थिते तस्मि
नि14ति बोद्धव्यं । तत् च परमार्थतस्ते
न कार्यहेतुरेवोपात्तस्त्तद्यदि नाम त
त्कार्यन्तेन न समर्थितं तथाहि कथमसौ निगृहीत इत्याह । वस्तुतः कार्यस्याप्युपादान
प्रतिपादनादि
2a8 ति तत्कार्यत्वस्येति वि
शेषः ॥ ० ॥
एवं कार्यहेतावपि साधनाङ्गसमर्थनमभिधायानुपलब्धावाह । अनुपलब्धा
वपि समर्थन
2a8 मिति सम्बन्धः । साधनाङ्स्येत्यध्याहार्य । किं पुनस्त
दित्या
ह । अनुपलब्धिसाधनं । किं यस्य कस्यचिन्नेत्याह । उपलब्धिलक्षणप्रा
प्तस्येति
2a8 । दृश्यस्वभावस्य नान्यस्येति यावत् । उपलब्धिर्ज्ञानं । उपल
ब्धिशब्दस्य भा
वकरणसाधनतया ज्ञानपर्यायत्त्वात्तस्या लक्षणङ्कारणं । लक्षण
शब्दस्य करणसाधनत्वेन कृतकाभिधायित्त्वात् । तच्च प्रत्ययान्तरसाकल्यं स्वभाव
वि
शेषश्च । तद्व्याप्तस्यानुपलब्धिः । तस्याः साधनं प्रतिपादनमिति व्युत्पत्ति
क्रमः ।
कथमेवंविधस्यानुपलब्धिरिति चेत् । नोद्यते तस्य तत्रैवेत् यपित्वन्य
त्र
तज्जातीयस्य । कस्य पुनरेवं विधस्यानुपलब्धिः प्रसाध्यत इत्याह । प्रतिपत्तुः
2a9 प्रतिवादिनः । यदि चोपलब्धिलक्षणप्राप्ताः पिशाचादयोपि भवन्ति
19 तज्जातीयानां
अन्येषाम्प्रभाववता वा । तक्तिन्तेषामप्यनुपलब्धिसाधनं साध
नाङ्गसमर्थनम्भवति । नेत्याह । प्रतिपत्तुः । एतदुक्तम्भवति । य एवासौ प्रति
पाद्यस्तस्यैव यदुपलब्धिलक्षणञ्चा
याति तस्यैवानुपलब्धिसाधनं नान्यस्येति । किं
पुनः कारणमेवम्प्रकारस्यैवानुपलब्धिसाधनं । नान्यस्येत्याह । तादृश्या एवा-
नुपलब्धेरसद्व्यवहारसिद्धेरिति
2a8 । अ
14a नुपलब्धिलक्षणप्राप्तानुपलब्धेः
संशयहेतुतया अगमकत्त्वादिति भावः । असद्व्यवहारसिद्धेरिति वचनमसद्व्यव
हार एव तया साध्यते न त्वभावः स्वभावानु
पलब्धेः स्वयमभावरूपत्वादिति
प्रदर्शनार्थं । असद्व्यवहारग्रहणञ्चोपलक्षणार्थं । तेनासज्ज्ञानशब्दावपि ग्राह्यौ ।
एतत्पुनः कुतोऽवसीयते इति चेदाह ॥
अनुपलब्धिलक्षणप्राप्तस्यार्थस्य
प्रतिपत्तुः प्रत्यक्षं तदेवोपलब्धिस्तस्यानिवृत्तावपि सत्यामभावासिद्धेः
2a9 ।
अभावग्रहणमभावव्यवहारशब्दज्ञानोपलक्ष
णं । उपलब्धिलक्षणञ्च ज्ञानपरिग्रहेण
तत्प्रमितवस्तुव्युदासाय । का पुनरियमुपलब्धिलक्षणप्राप्तिर्यद्योगादुपलब्धि
लक्षणप्राप्त इत्युच्यत इ
त्याह । तत्रेत्यादि
2a9 । तत्र श्रुतिवचनोपन्या
सार्था । स्वभावविशेषः । किमियदेव । नेत्याह । कारणान्तरसाकल्यञ्च । तस्मा
त्स्वभावविशेषाद्यान्यन्यानि
कारणानीन्द्रियमनस्कारादीनि तानि कारणान्त
राणि तेषां । साकल्यं सामग्र्यं । स्वभावविशेषापेक्षया समुच्चयार्थश्चकारः ।
कः पुनरयं स्वभाव
विशेष इत्याह । स्वभाव इत्यादि
2a9 । यद्ययं त्रिविधेन
विप्रकर्षेण व्यवधानेन देशकालस्वभावलक्षणेन न विप्रकृष्टं मेरुरामसुरादिरूपवत्
स्वभाववि
शेष उच्यते । तमेव स्पष्टयति । यदि
2a10 त्यादिना । न आत्म
रूपोऽनात्मरूपः पररूप इत्यर्थः । स चासौ प्रतिभासश्च तस्य विवेकोऽभावस्तेना
कारेण यत्प्रतिप
त्तुः प्रत्यक्षन्तत्राप्रतिभासितुं शीलं यस्य रूपस्य स्वभावस्य
तद्रूपन्तथोक्तं । अथवा रूपशब्देण15सह विशेषणसमासः कार्यः । सत्युप
लम्भप्रत्ययान्तरसा
14b कल्य इत्युपस्क्रियते । यः सजातीयविजातीयरहितेनात्मना
प्रतिभासते स्वज्ञाने तदन्यकारणसमवधाने सति स स्वभाव इति यावत् । तादृश
इति त्रिविध
विप्रकर्षाविप्रकृष्टरूपः पदार्थस्तथाऽनात्मरूपप्रतिभासविवेकेन प्रति
पत्तृप्रत्यक्षप्रतिभासेनाशयेनानुपलब्धः स न असद्व्यवहारस्य विषयो भवति ।
असद्व्यवहारप्रतिपत्तियोग्यो भवतीत्यर्थः । विद्यमानोपीन्द्रियस्यालोकस्य मनस्का
20 रस्य वाऽभावान्नोपलभ्यते तादृशस्तत्कथमसद्व्यवहारविषयो भवतीति
चेदाह ।
सत्स्वन्येषूपलम्भ
2a10 कारणेष्विति ।
नन्वविप्रकृष्टोपि घटादिरुपलम्भकारणान्तरसमवधानेपि च सन्तानविप
रिणामापेक्षत्वान्नोपलभ्यते ।
नहि हेत्वन्तरसन्निधानमिति स्वफलोत्पादनानु
गुणः परिणामो भवति कारणस्य । तथाहि सत्यामपि पृथिवीबीजजलादि
सामग्र्यामतिबहुनैव
कालेन तालबीजस्य स्वकार्योदयानुकूला परिणतिर्भवति ।
शणादिबीजस्य त्वनन्तरमेव तथात्रापि भविष्यतीति । किञ्चान्यत्प्रभाववता
योगे पि
शाचमायाकारादिनाऽधिष्ठितो भवति यदायं भावस्तदा विद्यमानोपि नोप
लभ्यते तत्कथमुक्तं तादृशः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धोऽसद्व्यवहारविष
य
इति । नूनम्भवा न्न्यायविन्दा
व16
प्यकृतपरिश्रमः । तथाहि अत्रोक्तं स्वभावो यः
सत्स्वन्येषूपलम्भकारणेषु सन्प्रत्यक्ष एव भवती ति । यश्चायं सन्तानपरिणामम
पेक्षते
यश्च प्रभाववताधिष्ठितः स स्वभावविशेष एव न भवति । सकलतदन्योपलम्भ
प्रत्ययसमवधानेपि स्वरूपविषयोपलम्भजनकत्वात्तथैवंविधस्य पि
15a शाचादि
स्वभावाविशिष्टरूपस्याभावव्यवहारविषयता साध्यते । किन्तर्हीन्द्रियाण्युपलम्भ
प्रत्ययान्तरसन्निधाने यः सन्प्रत्यक्ष एव भवति तस्य । नैवन्तर्हि सर्वथाऽ
भावः
साधितो भवतीति चेत् सुष्ट्वनुकूलमाचरसि । यतोऽनन्तरमेवोक्तं । य एवायमनु
पहतेन्द्रियादिसाकल्ये दर्शनपथमुपयाति । तस्य च तत्साकल्येऽनुप
लम्भेस्य च
व्यवहारविषयता साध्यते न तु पिशाचादिस्वभावाविशिष्टरूपस्येति । न च तथा
विधस्यापि सकलतदन्योपलम्भप्रत्ययसमवधानेऽनुपलब्धस्या
स्तित्वं युक्त
मनुपलब्धेरेवायोगात् । उपलम्भजनने कस्यचिदपेक्षणीयस्याभावात् । प्रमाण
विनिश्चये तु स्पष्टीकृतमेवेदं । न कार्यकालेऽभावप्रति
पत्ते रित्यादिना । एतेनैव
यदेकेनावश्यं सामग्रिसाकल्येपि परिणामस्तालगणबीजवदित्यादिना स तमति
शयवत् मतिमतो मनागप्यनव
गच्छन्तश्चोद्यचुञ्चवश्चोचुदुस्तत्र सर्वंमयं
दुःस्थितं वेदितव्यमित्यलमप्रतिष्ठितबालप्रलापैरिति विरम्यते । तस्मादुपलब्धि
लक्षणप्राप्तानुपल
ब्धिरेवाभावव्यवहारसाधनीति स्थितमेतत् । यतश्चैतदेवं
ततस्तस्मात्कारणादन्यथा सति लिङ्गे समवाय उपलब्धिलक्षणप्राप्तानुपलब्धि
21 मुक्त्वा यदन्यदसद्व्य
वहारसाधनमनुपलब्धिमात्रं लिङ्गमुपादीयते । तदा
तस्मिन्सति संशयो भवति नास्त्यसद्व्यवहारनिश्चयः उपलब्धिनिवृत्तावप्यर्था
भावासिद्धेरिति समुदायार्थ
ः । यदि वा ततो दृश्यानुपलम्भाल्लिङ्गात्
सकाशादन्यथा सति लिङ्गे संशय इति व्याख्यातव्यं । तस्माच्छब्दस्तु पूर्वमध्या
हर्त्तव्यं । अथवा तत उपलब्धिलक्षणप्राप्ताद
15b न्यथा तद्विहीने संशये सति तल्लिङ्ग
इति व्याख्येयं । का पुनरत्रानुपलब्धौ व्याप्तिरित्याह । अत्रापीत्यादि
2b11 ।
एवं विधमिति दृश्यं सदनुपलब्धं । सर्व्वग्रहणं सर्व्वोपसं
हारेण व्याप्तिप्रदर्शनार्थं ॥
ननु यदि नाम कस्यचिद्विषाणादेः शशमस्तकादावुपलब्धिलक्षणप्राप्तानु
पलब्धस्यासद्व्यवहारविषयता । अन्येनापि सामान्ये वि
शेष्येवयविद्रव्यसंयोग
विभागादिना तथाविधेन तथा भवितव्यमिति कुतोऽयं नियम इत्यत आह । कस्य
चिदि 2b1 त्यादि । कस्यचिदुपलब्धिलक्षणप्राप्तस्या
नुपलब्धस्य शशविषा
णादेरसतोऽसद्व्यवहारविषयेस्त्यभ्युपगमेऽसद्व्यवहारादिविषयोऽसन्नित्युक्तः ।
तल्लक्षणाविशेषादि 2b1 ति । तस्या
सतो लक्षणं निमित्तं यथोक्तानुपलब्धि
र्लक्षणशब्दश्च करणसाधनस्तस्याविशिष्टत्वात् सामान्यविशेषावयविद्रव्यादा
विति वाक्यशेषः । एत
दुक्तम्भवति शशविषाणादेरप्यसद्व्यवहारविषय
त्त्वं कस्मादिष्यते । यथोक्तानुपलम्भस्य तन्निमित्तस्य सद्भावादिति चेत् । यद्येवं
सामान्यविशे
षता तस्यास्तीति कस्मात्तथा सद्व्यवहारविषयत्वन्नाभ्युपगम्यते ।
अन्यथा तत्रापि तत्स्याच्चेत् । नहि पुरुषेच्छावशाद्धेतौ विषयप्रविभागो युक्त
इति । नही
2b1 त्या
दिनैतदेव व्यनक्ति । एवंविधस्य दृश्यस्य सत्त्वेऽनुपलब्धस्या
सत्वानभ्युपगम
2b1 इति । असद्व्यवहारादिविषयत्वान्नाभ्युपगम इत्यर्थः
असत्वशब्देना
सद्व्यवहारो विनिश्चयस्तस्योपलक्षणम् । युक्तोपलम्भस्य तस्यैवा
नुपलम्भनं प्रतिषेधहेतुरित्यादि चेत् । अन्यत्र शशशृङ्गाभावे दण्डेन पुरुषस्य 17
योगः स
16a एव इत्यर्थः । नह्येवंविधस्य दृश्यस्य चक्षुरादिशून्येषूपलम्भकारणेषु
स अनुपलब्धिर्भवति
॥
किन्तर्ह्युपलब्धिरेव भवतीति प्रतिषेधद्वयेनाह । अन्यस्योपलब्धिप्रत्ययस्य
कस्यचिवपेक्षणीयस्याभावादिति भावः । तदनेन प्रकृतमेव स्पष्टयति । अनुपल
भ्यमानं त्वीदृशमित्युपलब्धिलक्षणप्राप्तन्नास्ति तस्मादेतावत्सात्र उपलब्धिलक्षण
प्राप्तानुपलब्धिमात्रन्निमित्तं यस्यासद्व्यवहारस्य स तथा ख्यातः तदनेनासत्
22 व्यवहारस्यानन्यनिमित्ततामाह । एतदेव कुत इत्याह । अन्यस्ये
2b2 त्यादि ।
यथोक्तानुपलब्धिमपास्यान्यस्य नास्तित्वव्यवहारनिमित्तस्याभावादिति स
म18
च्चयार्थः ।
ननु च यस्य यत्र न किञ्चित्सामर्थ्यमस्ति तदसद्व्यवहारविषयो यथा नभस्तले
कमलं । तथाभिमतेपि देशादावभिमतस्य भावस्य
न किञ्चित्सामर्थ्यमस्तीति
सर्व्वसामर्थ्यविवेक एव नास्तित्वव्यवहारस्य निमित्तं भविष्यति । एतक्तिमसं
बद्धमेवोद्घाटितशिरोभिरभिधीयते । अ
न्यस्य तन्निमित्तस्याभावादिति कदाचित्
कश्चित् ब्रूयादिति तन्मतमाशंकते । सर्व्वसामर्थ्यविवेको निमित्तमिति
2b2 चेदि
ति । अत्र समाधिमाह । एवमि
2b2 त्यादिना । एवं
मन्यते सूक्तमेतत् सर्व्व
सामर्थ्यविवेको निमित्तमिति किन्तु स एव सर्व्वसामर्थ्यविवेकोयं पदार्थः कथमव
गतो यथोक्तामनुपलब्धिमपास्य येन सर्व्वसामर्थ्यवि
वेकोऽस्यासद्व्यवहारस्य
निमित्तम्भविष्यति । न चासावज्ञात एव तस्य निमित्तम्भवितुमर्हति । ज्ञापकहेत्व
धिकारात् । कस्मात्सर्व्वसामर्थ्यविवेकिनो यथोक्तानु
16b पलम्भेने19व प्रतीति
रित्याह । अन्यस्य तत्प्रतिपत्युपायस्याभावा
2b3 दिति । यदा तु यथोक्तानुप
लब्ध्या तस्य सर्व्वसामर्थ्यविवेकिनः प्रतीतिर्भवति । तदा तत्प्रतिपत्तौ
सत्याम
सद्व्यवहारो भवति । इति तस्मादिदं यथोक्तानुपलम्भनं तस्यासद्व्यवहारस्या
निमित्तमुच्यते ।
पुनरपि परोन्यस्य तन्निमित्तस्याभावादित्यस्य कदाचि
दयुक्तताम्ब्रूयादि
त्याशङ्कते बुद्धिव्यपदेश
2b3 इत्यादिना । अयमस्याभिसन्धिर्बुद्धिव्यपदे
शार्थक्रियाभ्यः सकासा20त्तद्व्यवहारो भवति । तथा हि ताः प्रवर्त्तमाना
वस्तुसत्तां साधयन्ति । तद्भेदाभेदौ च वस्तुभेदाभेदावित्याशयः ।
ताश्च निवर्त्तमानाः स्वनिमित्तं सद्व्यवहारं निवर्तयन्त्यग्निरिव धूमं । तन्निवृत्तौ
चासद्व्यवहारः । सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेदस्थितरूपत्वेन
एकत्यागस्यापरोपादानेनान्तरीयकत्वात् । ततश्च बुद्ध्यादिनिवृत्तौ
चासद्व्यव
हारनिमित्तमिति नेदं युक्तं वक्तुमन्यस्येत्यादि । अत्रापि प्रतिविधानमाह । भव
23 ती 2b4 त्यादि । यथोक्तप्रतिभाषा21बुद्धिः प्रतिपत्तृप्रत्यक्षप्र
तिभासि
रूपनिर्भासा यथोक्तः प्रतिभासो यस्या इति विग्रहः । उक्तञ्च यदनात्मेत्यादिना ।
तस्याः सकासा22त्सद्व्यवहारो भवति साक्षाद् वस्तुग्रहणात् । तस्या
ञ्च
विपर्ययोऽभावस्तस्मिन् सत्यसद्व्यवहारो भवति । सत्स्वन्येषूपलम्भकारणेष्विति
वाक्यपरिसमाप्तिः कार्याः23। अन्यथा संस24योत्पत्तेः । नहि वस्तु
सत्व उपलं
भप्रत्ययान्तरसाकल्ये च सा निवर्त्तत इति
17a निवेदितमेतत् पुरोऽस्मा-
भिरितिभावः । तवनेन यद्येवंविधा बुद्धिरभिमता त्वया तदावयोरैकमत्यमेव
तथापि न नः किञ्चिदनिष्टमुक्तं स्यात । अथान्या25तदा व्य
भिचार
इति दर्शयति । तमेव व्यभिचारन्दर्शयन्नाह । प्रत्यक्षाविषये
2b4 त्यादिना ।
लिङ्गाज्जाता लिङ्गजाः । अनुमानमित्यर्थः । तस्याः सकासा26त्सद्व्यवहारः
स्यात्परो
क्षेऽर्थेन केवलमनन्तरोदितरूपायाः स्वग्राह्य इत्यपिनाह । किं
लिङ्गजायाः सर्व्वस्याः सम्भवति नेत्याह । कुतश्चिदि
2b4 ति । स्वभाव
कार्यलिङ्गद्वयबलोपजाता
या इत्यर्थः । अनुपलम्भस्यासत्ताऽसद्व्यवहार
साधकत्वादिति भावः । यदि नामे27वं ततः कथम्व्यभिचार इति चेदाह ।
असद्व्यवहारस्त्वि
2b4 त्या
दि । तद्विपर्य इति तस्या यथोक्तलिङ्गजाया
बुद्धेर्विनिवृत्तावनैकान्तिकः सन्दिग्ध इत्यर्थः । किं कारणं विप्रकृष्टेर्थे देशादि
विप्रकर्षैः
प्रतिपत्तृप्रत्यक्षस्य प्रमाणस्य निवृत्तावपि संशयात्कारणात् । अर्था
भाव इति शेषः । प्रतिपत्तुः प्रत्यक्षमिति षष्ठीसमासः । इदञ्च प्रही
णसकलज्ञे
यावरणस्य प्रत्यक्षनिवृत्तौ त्वसंदेह एवेति कथनायोपात्तं । अन्यस्य चेत्यनुमानस्या
गमस्य च । एतच्चागमस्य प्रामाण्यमभ्युपगम्याभिधीय
ते । न तु तस्य प्रामाण्य
मस्ति ।
इत्यादिवचनात् ।
अयमस्याभिप्रायो यदि
नाम प्रमाणत्रयन्निवृत्तमप्रत्यक्षवस्तुनि तथापि
तन्नास्तीति कुतोयन्निश्चयः । तथाहि मलयनगनिकुञ्जवर्त्तिदूर्व्वाप्रवालपत्र
प्रभृतयः प्रमाणत्रयगोच
17b रभावातिक्रान्तां मूर्तिमुद्वहन्तस्तिष्ठन्ति । न च ते न
24 सन्तीति शक्यमभिधातुं । प्रमाणभावस्य सकलविषयसत्वव्यापकत्वकारणत्वा
भावात् । न च तद्रूपविकलपदार्थनि
वृत्तावन्यनिवृत्तिनियमेनातिप्रसङ्गदोषो
पनिपातादित्यावेदितमेतः28पुरस्तात् । यदाह ।
ननु चात्र लिङ्गजाया मतेरसद्व्यवहारहेतुत्त्वं निषेद्धुमारब्धन्तद्विपर्य्यय
इत्याद्यभिधानात् । तत्कस्मादप्रस्तुतस्यैव प्रत्यक्षस्य चागम
स्य चोपक्षेपः कृत इति
चेत् । युक्तमेतत् । सर्वप्रमाणनिवृत्तेस्त्वगमकत्वप्रदर्शनेनैतदेकान्तासम्भवदर्श
नायोक्तमिति लक्ष्यतेऽस्य सुधियोऽ
भिसन्धिः ।
नन्विदमुक्तं सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेद स्थितलक्षणत्वे
नैकाभावस्यापरभावनान्तरीयकत्वात् विप्रकृष्टे तन्निमित्ता
भावात् सद्व्यव
हारनिवृत्त्याऽसद्व्यवहार इति । सत्यमुक्तमेवैतन्न पुनर्युक्तं । तथाहि परोक्षेऽर्थे
सद्व्यवहारनिवृत्तिः कथन्तन्निमित्ताभावेपि
द्वयोरप्यनयोरनुपलब्ध्योः स्वविपर्यय
हेत्वभावभावाभ्यां सद्व्यवहारप्रतिषेधफलत्वन्तुल्यमेकत्र संशयादपरत्र विप
र्ययादिति वचनात् संशयेनेति चेत् ।
यद्येवं कथन्तर्ह्यसद्व्यवहारनिश्चयस्तत्र
युक्तिमनुपतति । यत्र तु निश्चयेन सद्व्यवहारनिवृत्तिस्तत्रासद्व्यवहारोपि
पुक्त एवान्यः प्रवर्तनफलोसीत्युक्तेः
न चाभावरूपव्यवच्छेदे भावानुषङ्गोस्ति
नियमेन । नहि बन्ध्यातनयनभःपङ्कजादिष्वसदवस्थता भवति प्रतिषेधात्
सदवस्थता भवति प्रतिषेधमात्रन्तु स्यात् । तयो
18a रन्योन्यव्यवच्छेदेनावस्थानात् ।
तथात्राप्यप्रत्यक्षे सद्व्यवहारप्रतिषेधान्न विधिभूता सद्व्यवहारानुस29ङ्ग
स्तद्व्यवच्छेदमात्रन्तु स्यात् । तद्भावस्य तद्भावस्यान्योन्यपरिहारेण
अवस्थि
तत्वात् । उक्तञ्चैतदमलन्यायतत्वप्रबोधोद्गतप्रज्ञालोकतिरस्कृताशेषपरतीर्थ्य
प्रवादध्वान्तेन धर्मकीर्तिनैवानित्यनिरात्मतादिव्यवच्छेदेपि तच्च स्यादित्यादि -
नेत्यास्तान्तावत् ।
अधुना सामान्यभूतानां बुद्धिव्यपदेशानां सद्व्यवहारहेतुत्वमपि नास्तीति
कथयन्नाह । न चे
2b5 त्यादि । तत्र च यथाक्रममभिसम्बन्धः । ते सर्व्वे बुद्धि
व्यपदे
शा न वस्तुसत्तां साधयन्ति । तेषाम्वा भेदाभेदौ न वस्तुभेदाभेदयोः सत्ता
25 सद्भावमिति । सर्व्वग्रहणं केचित्तु साधयन्त्येवेति प्रदर्शनाय । कुत एतदित्याह ।
अस
त्स्वप्यतीतानागतादिषु
2b5 वृत्तेरिति क्रियापदं । आदिशब्देन व्योमो
त्पलादयः परिगृह्यन्ते । कथम्पुनर्विषयमन्तरेण तेषु तेषां वृत्तिर्युक्तेति चेदाह ।
कथं
चित्त
2b6 द्रूपोनुभवाहितवासनापरिपाकप्रभावादित्यर्थः । तेषाञ्च
वस्तुप्रतिबन्धाभावादिति भावः । शङ्खचक्रवर्ती
2b7 त्यादिना प्रकारेण
तदनेन वस्तुसत्तां साधयन्तीत्येतस्य कारणमाह । नानैकामर्थक्रिया
2b6
ङ्कर्तुंसी30लं येषां ते तथोक्ताः । तेष्वपि च वृत्तेः कारणात् । किमर्थं तेषु
तेषाम्वृत्तिस्तद्भावख्यापनाय । तेषान्नाऽ
नैकार्थक्रियाकारिणाम्भावस्तस्य ख्या
पनाय । नानार्थक्रियाकारित्वस्यैकार्थक्रियाकारित्वस्य च कथनार्थमिति यावत् ।
अस्त्येव तर्हि तस्य वस्तुनस्तत्वमित्यत आह ।
नानैकात्मताया
2b6
अभावेपि तस्य वस्तुन इत्यधा31हर्तव्यं । नानैकरूपाणाम्बुद्धिव्यपदेशानां
तदनेन न वस्तुभेदाभेदौ साधयन्तीति साधयति । इदमेव निदर्शन
18b प्रदर्शनेन सफली-
करोति । राजा महासम्मत
2b6 इदमतीतवृत्तेरुदाहरणं । यथेति चाध्याहार्यं ।
शङ्ख चक्रवर्तीत्याद्यनुत्पन्नवृत्तेः शब्दैर्विषाणमित्यादि यदोपात्तस्य रूपं सनिदर्शन
ञ्चक्षुर्विज्ञानजनकत्वात् । सप्रतिघश्च स्वदेशे परोत्पत्तिप्रतिबन्धात् । एतन्ना
नार्थक्रियाकारिषु वृत्तेरित्येतस्य निदर्शनं । यस्मात्तच्चक्षुर्विज्ञानादि
कार्य
जनकत्वादेकरूपमपि नानारूपैः सनिदर्शनादि शब्दैर्विषयीक्रियते । तस्मान्न ते
वस्तुभेदसाधनायालं । घटश्चेत्येतदेकार्थक्रियाकारिष्वित्येतस्योदा
हरणन्तथाहि
बहवो रूपगन्धरसस्पर्शा उदकधारणविशेषादिकार्यनिर्वर्त्तनसमर्थत्वादभिन्न
समैस्तैः विषयत्वेनात्मसाक्त्रियन्ते । ततस्ते नाभेदं सा
धयितुं क्षमाः ।
तच्चातीतानागतशशविषाणादिषु तत्प्रतिपत्तिर्न वस्तु साधयतीत्यतिप्रतीत
मेतत् । अथ कथमिदङ्गम्यते सनिदर्शनादिबुद्धिशब्दा
न वस्तुभेदं साधयन्तीत्यतः
प्राह । नहीत्या
2b7 दि । कस्मादेवात्र वस्तुनि रूपादावुपसंहारात्सनिदर्शनं
सप्रतिघं रूपमित्येव समानाधिकरणत्वादिति
यावत् । अन्यथा भिन्नाधिकरण
त्वाद्वकुलोत्पलकमलमालतीमल्लिकादिशब्दानामेव सामानाधिकरण्यमेव न
26 भवेदिति भावः । कणभक्षाक्षपाद मतानुसारिण
स्तु मिथ्यादर्शनानुरागजनिता
सद्विकल्पमलोपलिप्तान्तर्लोचनाः सञ्चक्षते । नानाविषयत्वेप्यभ्युपगम्यमाने
तेषामेकत्रोपसंहारोऽविरुद्ध एव । तन्निमित्तानां
सनिदर्शनादीनान्तत्र रूपादौ
समवायादिति ।
तदेतत्सर्वमेषामविचारितरमणीयतया विचारविमर्दीक्षमत्वात् पण्डितजन
हासकारि दर्शनमित्यभिप्रायवा
19a नाह । आयासे वताय मित्या 2b8दि ।
वतशब्दोऽनुकंपायाङ् कासावित्याह । अनेकं सम्बन्धिनं सनिदर्शनत्वादिकमुप
कृत्यानुपकारे तेन तेषान्तत्र सम्बन्धित्वायोगादित्यभि
प्रायः । अनेकं सनिदर्शनादि
शब्दं
2b9 तेभ्यः सम्बन्धिभ्यःशकासा32दात्मनि संमार्गयन्निद
मायासपतने कारणं ।
ननु सरूपादिभावो यैः शक्तिभेदैरनेकसम्बन्धिन
मुपकरोति । तैरेव शक्ति
भेदैरनेकं बुद्ध्यादिशब्दं किन्नोत्थापयति । यदि पुनरेवं भवेत्तदाको गुणो लभ्यत
इत्याह । एवं हयनेन परम्परानुसारश्रमः परिहृ
तो भवती
2b9 ति । शक्ति
भेदैः सम्बन्धिनमुपकरोति तेभ्यश्च शब्दाः प्रवर्तन्त इत्ययम्परम्परानुसरणाया
सोऽनेनतपश्विना33रूपादिना त्यक्तो भवतीत्यर्थः ।
ननु च प्रतिनियतोपि कार्यशक्तिमन्तः सर्व्व एव भावास्त्वयाप्येतदवस्य34मेवाभ्युपेयमन्यथा कस्माच्छालिबीजंसा35ल्यङ्कुरमेवोत्पादयति न
यवाङ्कुरमिति
परेणाभियुक्तेन किमभिधानीयं भावप्रकृतिं मुक्त्वा । तस्मात्तव
पदार्थप्रकृतिसमाश्रयणमेव शरणमन्यथास्य दोषस्य परिहर्त्तुमशक्यत्वात्
।
एतच्च न ममापि राजकुलनिवारितं । तथाहि शक्यमेतत्मयाप्यभिधातुमनेक
सम्बन्ध्युपकार एव तस्य सामर्थ्यं नानैकशब्दोत्थापनमिति चेत् । सत्यमेवमेत
त् ।
एवन्तु मन्यते । न तावत् सनिदर्शनत्वादयः सन्ति । क्रमयौगपद्याभ्यामर्थक्रिया त्वनु
प्रयोगात् । उपलब्धिलक्षणप्राप्तानाञ्चानुपलम्भात् न चोपलब्धिलक्ष
णप्राप्तं
सदनुपलभ्यमानमस्तीति शक्यते वक्तुमतिप्रसङ्गात् । अनुपलब्धिलक्षणप्राप्ततायां
27 वा कथं तन्निबन्धनाः प्रत्ययव्यपदेशाः प्रवर्त्तन्ते गोगवयादिषु ।
19b एतेनोपलब्धा-
नामपि क्षणिकत्वादिवत् व्यक्तिव्यतिरिक्तेणा36नुपलक्षणं प्रत्यक्षं यस्मात्सा
मान्यं यदि दृष्टमप्यविकलं भिन्नं न संलक्षते । भावे तद्बलभाविनी भवति
सा
या शब्दवृत्तिः कथं । दण्ड्यादौ न निबन्धनस्य न गतौ धीशब्दयोरस्ति सा
तस्मादस्य कथञ्चिदेव तदपि ते युक्त्या न सङ्गच्छते
।
किञ्च ॥
दर्शने सर्वथैषां
धेष्वाश्रयेष्वेकभावः ॥ ६
सत्वे वा तेषान्न बुद्धिशब्दोत्थापनसामर्थ्यमन्वयव्यतिरेकाभ्यामवधार्यते ।
अत एवानुपलभ्यमानत्वात्पाचकादिष्वपि च
तद्व्यतिरेकेणापि तेषाम्भावात् ।
उपपादितञ्चैतद् प्रमाण–वर्तिके १।१६० ।
या ॥ ७
इत्यादिनेति नेहोच्यते । न च तेषामुपकार्यत्वमस्ति नित्यतयाऽनाधेयातिशयत्वात् ।
न च पुरुषाभिप्रायानपेक्षो व्यक्त्युपकृतसप्रतिघत्वा
दिसामान्यसामर्थ्यभावे
नोपनेयो विवक्षायान्तु संमुखीभावेपि प्रवृत्तिप्राप्तः । पुरुषाभिप्रायानुरूपे वा स ए
वास्तु नियामकः किमन्तर्गंतृभिः सामान्यैः
। तथाहि तद्गतान्वयव्यतिरेकानुविधान
मेव लक्ष्यते सामान्यानां न नित्यानामव्यतिरेकत्वात् ।
तस्मात् । सर्व्वमेतत् कुदर्शनसमाश्रयेण कल्पनामात्रं । कल्पना च
सैव
कर्तव्या या पुनर्न्न पर्यनुयोगमर्हति तत्रत्यां कल्पनायां वरमेव कल्पनादोषाभावात् ।
गुणसद्भावाच्चेति ।सात्मत38युक्तैवेयं कल्पना । नहि एकस्य नाना
सु39क
20a शब्दोत्थापने सामर्थ्यमस्तीति । यद्येवमत्रापि ब्रूम इत्याह । नानाशब्दो-
त्थापनासामर्थ्ये नानासम्बन्ध्युपकारोपि माभूदि
2b10 ति । एकस्यानेकोपकार
कत्वविरोधाभ्युपगमादित्यभिसन्धिः । नित्यत्वात्सम्बन्धिनामनुपकारोऽभ्युपेत एवेति
चेदाह । अनुपकारे हि तेषां
2b10 सनिदर्शन
त्वादीनान्तेनाङ्गी क्रियमाणे
तत्सम्बन्धिता न सिध्यति । नहि यो येन नोपक्रियते हेदुः स तस्य सम्वन्धियुक्तो
28
हिमवा निव मलयगिरेरिति भावः । एवन्तावत्पर
पक्षनिराकरणेन सनिदर्शनादि
शब्दानामभिन्नविषयत्वं साधितं । त एव जडिम्नः पदमुद्वहन्तः पुनरपि पर्य
नुयुञ्जते ।
ननु भवतु नाम
सनिदर्शनादिशब्दानामभिन्नविषयत्वं । अथ कथमवसीयते ।
घटपटादिशब्दानामनेकार्थविषयत्वमिति यावता रूपादिव्यतिरिक्त
मन्यदे
वावयवि द्रव्यमस्ति । तदेव च घटपटादिशब्दैर्विषयीक्रियते । तथाहि विचार
विषयापन्नः पटस्तन्तुभ्यो व्यतिरिच्यते भिन्नकर्तृकत्वात्
घटादिवत् । तथा
समस्तव्यस्तप्रत्ययाविषयत्वाद् गवादिवत् । नहि तन्तवः तन्तुसमुदाय इति वा पटे
प्रत्ययो दुष्टः । उपायान्तरसाध्यत्त्वाच्च घटादिवत् । भिन्नदेशावस्थितैश्च क्रिय
माणत्त्वात् । घटादिवदेव भिन्नपरिमाणत्त्वाच्च । वकुलामलकबिम्बादिवत् । अतश्च
20b पूर्व्वोत्तर कालभावित्त्वाद् बीजाङ्कुरादिवत् । अथवा पटादन्ये तन्तवस्तत्कारणत्त्वात्
तुर्यादिवत् । तन्तुपटयोर्वाऽन्यत्त्वं भिन्नशक्तिमत्त्वात् जलानलादिवत् । तथेदम
परम्विचारविषयापन्नमिन्दीवरङ्गन्धादि
भ्योऽत्यन्तभिन्नन्तेषाम्व्यवच्छेदकत्वात् ।
चैत्रादिवत् । इह यद्यस्य व्यवच्छेदकन्तत्तस्मादन्यत्तद्यथा गोपिण्डाच्चैत्र
इत्येतानि तद्व्यतिरेकसाधनप्रमाणानि सन्ति । तत्क
थन्तेषाम्भिन्नविषयत्वम्भवि
ष्यतीति ॥ ० ॥
तदेतदप्येषामसद्दर्शनाभिनिवेशपटलप्रच्छादितान्तःकरणानां नाल्पीयसस्तमसो
दुर्विलसितमित्यागूर्या
ह । घट इत्यपि च रूपादय एवैकार्थक्रियाकारिण
एकशब्दवाच्या भवन्तु किमर्थान्तरकल्पनये
2b10 ति कार्यमित्युपस्क्रियते । नैव
किञ्चित्तस्य तादृशस्य नीलादि
व्यतिरेकेणानुपलक्षणादित्याकूतमस्य । यानि त्वे
तानि तत्प्रतिपादनाय प्रमाणान्युक्तानि तान्यसिद्धतादिदोषदुष्टत्वान्नालं तद्भेद
साधनायेति भो
ता 40 नामेव पुरतः छायान्दधतीति मन्यते । तथाहि नेदं ताव
दाद्यं प्रमाणं परीक्ष्यमाणं पूर्व्वामपि परीक्षां क्षमते । यतोत्र विकल्पद्वयमाविर्भवति ।
अ
न्यावस्थावस्थितेभ्यो वा तन्तुभ्यः पटस्यान्यत्वं साध्यते विशिष्टसंस्थानावस्थिते
भ्यो वेति । तत्र न तावदयमाद्यः प्रकारः सहते विचारभारगौ
रवं । सिद्धसाधनता
दोषानुषङ्गात् । यस्मात्समधिगतसमस्तवस्तुयाथातथ्यसुगतसमयनयसमाश्रय
प्रवृत्तिबलासादितावदातमतयः प्रसवानन्तरनि
रोधभाजः सर्व्वभावाइति प्रकल्प
यन्ति । ततश्च तेभ्योन्यत्त्वमिष्टमेवेति सिद्धसाध्यताप्रसङ्गोपनिपातपिशाचः
कथमिव भवन्तं न गृहणाति । द्वितीयोपि विक
ल्पः तीव्रानलोपतप्त इवोपलतले
तलानि पादानां न प्रतिष्ठां समासादप41ति । हेतोः परं प्रत्यसिद्धत्वात् ।
नहि विशिष्टस्थानावस्थितेभ्यः पटस्य भिन्नकर्तृकत्वं परं
21a प्रति सिद्धपद्धतिमवतरति
29 योहि तादृक्प्रकारेभ्योन्यत्वमभावादेव नाभ्युपैति स कथमिव भिन्नकर्तृकत्व
मभ्युपगमिष्यतीति । तदनन्तराभिहितमपि प्रमा
णेन समभिलसित42
मनोरथपरिपूरणायालं हेत्वसिद्धेः । यतः पट इति तन्तुष्वेव सन्निवेशविशेषेणा
वस्थितेषु प्रत्ययो वर्तते । तद्विविक्तरूपस्यात्यन्तमु
न्मिषितचक्षुषाप्यदर्शनात्स्फ
टिकादौ दृष्टमिति चेत् । एतदुत्तरत्र निषेत्स्यामः । यत्त्विदमुपायान्तरसाध्यत्वाद्
भिन्नदेशावस्थितैः क्रियमाणत्वात् भिन्नपरिमा
णत्वात्पूर्वोत्तरकालभावित्त्वाद्
भिन्नशक्तिमत्वाच्चेति ॥
अत्र प्रथमसाधनाभिहितविकल्पदोषस्तीव्रामर्शविरक्तलोचन इवारातिस्त
त्सम्पदन्न स
हते ॥
इति सङ्ग्रहश्लोकः ।
यच्चेदमुक्तं विचारविषया पं
न 43मिन्दीवरमित्यादि । तदपि न सङ्ग
च्छते । यस्मादिन्दीवरस्य गन्धादयइतीन्दिवर44स्वभावा गन्धादयो
मधुभावनाविशेषादिकार्यनिवर्त्तन45स
मर्था इति यावत् । अवि
शिष्टकार्यसाधनात्मना सामान्यभूतगन्धादिशब्दैः प्रसिद्धाविशिष्टकार्यसाधना
ख्येन विशेषेण ये विशिष्टास्त एवमुच्यन्ते । न पुनरत्रान्यत्
किञ्चिदित्यर्था
वर्णितलक्षणं द्रव्यमस्ति तस्य तादृशोऽनुपलब्धेरित्युक्तप्रायं । तथा चानेन प्रकारेण
तेषान्तद्व्यवच्छेदकं भवतीति । तेषान्तद्व्यच्छेदकं च न चात्यन्तं
भिन्नमिति
कोऽनयोर्विरोध इति । सन्दिग्धविपक्षव्यावृत्तिको हेतुः प्रतिबन्धासिद्धः । नहि दृष्टान्त
मात्रास्तिद्धिरस्ति । सर्व्वसिद्धिप्रसङ्गात् । अपि च शिलापु
21b त्रकस्य शरीरं ।
रूपस्य स्वभाव इत्यत्रापि शिलापुत्रकरूपयोः शरीरस्वभावव्यवच्छेदकत्वमस्तीति
भेदस्तयोरपि ततः प्रसजते न च भवति । नैःस्वाभाव्यप्रस
ङ्गात् । तस्मा
दयमेतेनानैकान्तिकः स्फुटमेव भवद्भिरभिधानीयः । किञ्चेदमतिविकलैर्मि
थ्यादर्शनसंरागपिशाचाविष्टबुद्धिभिः किमिन्दीवरस्य गन्धादय इत्येते श
ब्दाः
पुरुषाभिप्रायव्यापारनिरपेक्षा एव वस्तुतत्वनिबन्धनाः प्रवर्त्तन्ते । किम्वा यथैव तैः
प्रयुज्यन्ते तथैव वस्तुतत्वमनपेक्ष्य तमर्थमसत्कारेण प्रतिपादयन्तीति । य
द्याद्यः
पक्षस्तदा सदाध्वननप्रसङ्गोऽतीतादिष्वन्यत्र च पुरुषे च्छावसा46न्नियो
जनन्नभवेत् । न च प्रवचनान्तरभेदेष्वर्थेषु प्रवृत्तिः प्राप्नोति । न च क
स्याश्चि
द्वाचोऽसत्यार्थता स्यात् । अथोत्तरस्तदा ।
यदाहुः ॥
था वाचकत्वेन वक्तृभिर्विनियम्यते ।
तदा न पुरुषेच्छाबलप्रवृत्तशब्दवसा48दर्थतत्वं व्यवतिष्ठत इति तद
वस्थं
सन्दिग्धविपक्षव्यतिरेकत्वं हेतोरिति । एतेनैतदपि प्रत्युक्तं विप्रतिपत्ति
विषयापन्नाच्चन्दनादन्ये रूपरसगन्धस्पर्शा हेयत्वादयश्च49ति प्रतिजानी
महे न
व्यपदिश्यमाण50त्वात् । शिलातुलाढकप्रसेविकावदिति । तस्मात्तद्भाव
प्रतिपादनाय न किञ्चित्प्रमाणमस्तीति स्थितमेतत् । अस्माकन्तु तदभावप्रमाण
साधकं प्रमा
22a णमेतत् । ये परस्परव्यावर्त्तमानस्वभावावस्थितिसमालिङ्गित
सरीरा51स्ते व्यतिरिक्तावयविद्रव्यानुगतमूर्त्तिमात्मातिशयं नात्म
सात्52कुर्वन्ति । यथा बहवो भस्माधा
रन 53 लालाथूकादयस्तथा
च यथोपदिष्टधर्मवन्तस्तन्त्वादय इति स्वभावहेतुः । वैधर्म्येण नभःपङ्कजादयस्ते
षान्निःस्वभावत्वात् । परस्परव्यावर्त्तमानानामपि
यद्येकस्वभावानभ्युपगमे तस्य
तेषु सर्व्वात्मनाऽन्यथा वा वृत्त्ययोगो बाधकम्प्रमाणं । कुतस्तद्धि युगपदनेकत्र
सर्व्वात्मना वर्त्तमानमनेकाधारस्थिताधेयव
दनेकत्त्वमात्मनोऽनुमापयतीति
कथमस्याभिन्नस्वभावता योज्यते । एकावयवोपलम्भवेलायाञ्च सकलस्य तत्र
परिसमाप्तत्वादुपलब्धिप्रसङ्गः । अनेकाव
यवोपलब्धिद्वारेणोपलम्भकति
पयावयवदर्शनेपि स्यात् समस्तावयवोपलम्भद्वारेण उपलब्धौ सर्व्वकालमदर्शन
प्रसङ्गः । तस्याम्भास्वरमध्य
भागानां सकृदनुपलम्भात् । एकावयवकम्पे च
सर्व्वकम्पादिप्रसङ्गश्च वाच्यः । नाप्येकदेशेन सावयवत्वप्रसङ्गात् । एकदेशा
नाञ्चानवस्थाप्रसङ्
गात् । तेपि हि तस्यावयवा इति पाण्यवयववृत्तेष्वपि अन्येन
वर्त्तितव्यमित्यादिना तदन्यैकदेशाभाववानेकः कश्चिदवयवी विद्यते । तथा चा
ण्वादिसमुदाय एवास्तु कोनुरोधः स्वात्मभूतेष्ववयवेष्विति । न वा क्वचिदप्यसौ
वृत्तो न ह्येकदेशाः प्रत्येकमवयवीत्यलं प्रतिष्ठितमिथ्याप्रलापैरिति विरम्य
ते ।
तदेवमेतत् परमतमलमालोच्यमानतीव्रतरार्क्करश्मिसंपातयोगिहिमशैलशिला
शकलवद्विलयमुपयातीति मन्यमानः प्राह । किमर्थान्तरकल्पन
3a1
येति ।
स्यादियत्तराशापरस्य नैवानेकस्यैकार्थक्रियाकारित्वमस्तीत्यत आह । बहवो पि ही
3a1
त्यादि । किंवत् । चक्षुरादिवत् । यथा रूपालोकमनस्कारचक्षुराद
22b
31 यश्चक्षुरादिविज्ञानमेकंर्व कुव्न्ति तथा रूपादयोप्युदकधारणविशेषादिकामे-
कामर्थक्रियाङ्करिष्यन्तीत्यर्थः । यतश्चैतदेवं तस्मात्तस्यैकार्थक्रियासामर्थ्यस्य
ख्यापनाय
तत्र रूपादावेकस्य पटादिशब्दस्य नियोगोपि स्यादिति एतद्युक्तं पश्यामः ।
न केवलमेकार्थक्रियाकारित्वं तेषामित्यपिशब्देनाह । कथं युक्तमिति चेत् । एवं
मन्यते
केनचित्प्रयोजनेन केचिच्छब्दाः क्वचिन्निवेश्यन्ते तत्र यदनेकमेकत्रोप
युज्यते तदवश्यन्तत्र चोदनीयं । तस्य च पृथक्कथञ्चोदनेऽतिगौरवं स्यात् । न चा
स्यानन्यसाधार
णं रूपं शक्यं चोदयितुं । नाप्यस्यायासस्य किञ्चित्साफल्यं
केवलमनेन योग्यास्तत्र तेर्थाश्चोदनीयास्त एकेन वा शब्देन चोद्येरन् बहुभिर्वेति
स्वातन्त्र्यमत्र
वक्तुः । तदियमेका श्रुतिर्बहुषु वक्त्रभिप्रायवसा54त्प्रवर्त्त
माना नोपालम्भमर्हति । न चेयमशक्यप्रवर्त्तमाना इच्छाधीनत्वात् । यदि हि न
प्रयोक्तु
रिच्छा कथमियमेकत्रापि वर्त्तेत । इच्छायाम्वा क एनां बहुष्वपि
प्रतिबद्धुं समर्थः । प्रयोजनाभावादप्रवर्त्तनमित्यपि नाशङ्कनीयं । भिन्नेष्व
प्ये
कस्माच्छब्दात्प्रतीतिरतत्प्रयोजनभेदेन यथा स्यादित्युक्तत्वात् प्रयोजनस्य तस्मा
त्सूक्तमस्माभिर्युक्तं पश्याम इति । यथा कथञ्चिद्विनैव प्रयोजनेन लोकः शब्दं
प्रयुंक्ते । ततो न युक्तमेतदिति चेदाह । न च निःप्रयोजना लोकस्यार्थेषु शब्दयोजने
3a1 ति । न हि व्यसनमेवैतल्लोकस्य यदयमसङ्गतं यन्न प्रयुज्जानो वा शब्दान्तः
खल्वा
सीत् । किन्तर्हि सर्व्व एवास्यारम्भः प्रयोजनसापेक्षः प्रयोजनञ्चेतदुक्त
मिति मन्यते तत्र प्रयोजनवत्वेनेति । यथा रूपगन्धरसादयः सहैकप्रयोजनाः
सङ्कलि
23a ता एककार्यकारिण इत्यर्थः । समवहितानामपि कदाचित्कस्यचिदेव
कार्ये व्यापारोन्यस्य त्वौदासीन्यमिति
स्यादाशङ्कासंभवस्तत आह । पृथग्वेति
3a2 । वा शब्दश्चार्थे । सर्व्व एव व्यापारवन्त इत्यर्थः । अन्ये त्वन्यथा
व्याख्यानयन्ति । व्याख्यानञ्चादो दूषयन्ति । तत्रैतस्मिन् शब्दैर
र्थ प्रत्यायन
क्रमे येर्था रूपादयः सह पृथग्वैकप्रयोजनास्तेषां रूपादीनां संहितानां पृथुबुध्नोद
राकारसंस्थापितानामेकं प्रयोजनं । यदुत मधूदकाद्याहरणं पृथग्वा
तेषामेव
प्रत्येकं स्वाकारज्ञानजननं ॥ एकञ्च तत्प्रयोजनमेकत्र दृष्टं यत्तदन्यत्र नास्तीति
सहभूतानामपि कदाचिदौदासीन्यदर्शनात्सर्वेषां सव्यापा
रतामादर्शयितुं पृथ
ग्वेत्यभिहितं । वा शब्दश्च समुच्चय इत्यन्ये । केवलमत्रैकप्रयोजना इत्यभिधाना
32 त्सर्वेषान्तथाभावप्रतीतिरस्त्येवेति व्यर्थम्पृ
थग्वेति स्यात् न चायं शब्दार्थ इति
यक्तिञ्चिदेतत् । तैः प्रकरणं न लक्षितं तथा ह्यत्र समुदायशब्दस्यैकवचनप्रवृ
त्यविरोधः कथयितुमारब्धः । तत्र कः प्रस्तावः पृथग्वेत्यभिधानस्य ॥
केवलं रूपादिशब्दश्चायञ्जातिशब्दः । तत्र चान्यादृश्येव प्रक्रिया भविष्यति ।
यत्त्विदमुक्तं केवलमत्रैकप्रयोजना इत्यभिधानात्सर्व्वे
षां तथाभावप्रतीतिरस्त्येवेति
तदपि न युक्तिसङ्गतं । तथाहि परबलपराजयोद्यतानामेकप्रयोजनवत्वेपि न तत्र सर्व्वे
व्यापारवन्तो भवन्ति । तद्वदत्रापि भ
वेत् । अत एव च स्यादाशङ्कासम्भव इति
व्याख्यातं । यदा तु सर्व्वेषामेव सव्यापारताख्यापनाय पृथग्वेत्येतदुच्यते तदाऽपह्नु
र55तमुत्सार्यते । तदेतेनैवाशब्दार्थ
23b त्वमपि प्रत्युक्तमिति यक्तिञ्चिदेतदेव ।
अस्तु वैतदपि व्याख्यानं यदि कथञ्चिद्व्यवस्थापितुं पार्यते । तेषा मेवं विधा
नामर्थानान्तस्यैकार्थक्रियाकारिणो भावस्य ख्यापना
यैकोघटादिशब्दो यदि
नियुज्येत तदा किं स्यान्न कश्चिद्दोषः स्यात् । गुण एव तु केवलो लभ्यत इत्याह ।
तदर्थक्रियास56
क्ते रभिन्नायाः ख्यापनाय नियुक्तस्य समुदायश
ब्दस्यैकवचन
विरोधोपि नास्त्येव
3a2 । कुतः । यस्मात्स हितानां सा शक्तिरेका
3a3
ऽभिन्ना न प्रत्येकं न तु पृथग्भूतानामित्यर्थः । इति तस्मात्समुदायशब्दे तस्मिन्नै
कस्मिन्घटादौ
समुदाये वाच्ये एकवचनं घट इति भवतीति शेषः । स्यादिति वा
वक्ष्यमाणं क्रियापदं । नन्वयङ्घटादिशब्दो गवादिशब्दवज्जातिशब्दस्तत्कथमे
तदु
क्तमिति चेत् । सत्यं समुदायान्तरवृत्यपेक्षया जातिशब्दोयं रूपादिसमु
दाय्यपेक्षया तु समुदायशब्दोपीत्यभिसन्धेरदोषः । तथाहि त्रय्येवगतिः श
ब्दा
नाङ्केचिज्जातिशब्दा एव । यथा सुखादिशब्दाः सुखादेरनवयवत्वात् । केचित्तु
समुदायशब्दा एव यथा विन्ध्यहिमवत्सुमेर्वादि शब्दाः । तज्जातीयस
मुदाया
न्तराभावात् । अपरे पुनर्जातिसमुदायशब्दाः । यथैत एव घटादिशब्दाः समुदाया
न्तरसमुदाय्यपेक्षयेति । एवन्तावत्समुदायशब्देषु वचनप्रवत्यवि
रोध उक्तः ।
अथ कथञ्जातिशब्देष्वित्याह । जातिशब्देष्वित्यादि
3a3 । अर्थानां घटा
वीनां प्रत्येकं सहितानाञ्च शक्तेः कारणात् नानाशक्तिरेका च । एतदुक्तं भवति
यस्मादेको
24a पि वृक्षो गृहकरणाद्यर्थक्रियानिवर्त्तने57पि योग्यो बह
33 वोपि वृक्षाः । ततश्च तेषाङ्केवलानामपि योग्यत्वादनेका शक्तिः समवहिता
नामपि योग्यत्वादेका शक्तिरेकप्रत्यवमर्शप्रत्ययनिबन्धनत्वेनैकत्वोपचारात् ।
यतश्चैव
मिति तस्माद्यथाक्रमं नानाशक्तिविवक्षायां सत्यां बहुवचनमनेक
त्वाच्छक्तेर्वृक्षा इति भवति । एकशक्तिविवक्षायान्तु एकत्वाच्छब्द एकवचन
मुक्त इति स्यात् । त
दा यद्येष नियमो भवद्भिरसद्ग्रहग्रहावेशव्याकुलितचेतोभि
रिष्यते । बहुष्वेव वाच्येषु बहुवचनं भवति । एकस्मिन्नेव चैकवचनमिति । तदनेन
यदाप्येतद्द
र्शनमाश्रीयते बहुषु वहुवचनम्भवति । द्व्येकयोर्द्विवचनैकवचने
पाणिनिः १।४।२२ इति तदापि न कश्चिद्दोष इति दर्शयति । भवतान्तु कथ
मित्याह । अस्माकमि
3a4 त्यादि ।
संकेतबसा58च्छब्दानाम्बहुवच
नान्तानान्दाराः सिकताः पादाः । गुरव इत्यादिनाऽसत्यपि बहुत्वेऽभिधेयस्य वृत्तिः ॥
तथासत्यप्यनेकत्वेषण्णगरी
षट्पू59लीवनमित्यादिनैकवचनान्तानाम्वृत्तिरि
त्यनभिनिवेश एव । को हि नाम सचेतनः पुरुषाभिप्रायमात्राधीनवृत्तिषु शब्देष्वभिनि
वेशं कर्त्तुमु
त्सहत इति भावः । परपक्षं पूर्वपक्षयति । नानेको रूपादिरेकशब्दो
त्थापने समर्थ इति चे
3a5 दिति । नहि अनेकस्यैकेन सम्बन्धो युज्यत इति ।
किमि 3a5 त्यादिना परि
हारः । पुरुषाणाम्वृत्तिरिच्छा तत्रानपेक्षाः सन्तोऽर्थाः
किं स्वयं शब्दानुत्थापयन्ति । आहोस्वित्पुरुषैस्ते व्यवहारार्थमर्थेषु यथा कथञ्चि
न्नियुज्यन्त इति विकल्पद्व
यं । तत्र पुरुषैरेव ते यथेष्टं नियुज्यन्तेऽन्यथाऽतीता
जातयोर्दर्शनान्तरभेदिष्वन्यत्र वा नियोजनन्न भ
24b वेदिति भावः । ततश्च स्वयं
3a6 पुरुषेच्छाऽनपेक्षाणामर्थानां शब्दोत्थापने सति भावस्य शक्तिरसक्ति60
र्वा चिन्त्येत नामैक इत्यादिना । अस्त्येव तर्हि स्वयमुत्त्थापनमिति चेदा
ह । न च
तद्युक्तं
3a6 । अनन्तरोक्तात् कारणत्रयादित्यभिप्रायः । तस्मात्पुरुषैस्तेषां
शब्दानां नियोगोर्थेषु विनाप्येकत्वादिना ते पुरुषाः यथेष्टमेकत्रापि वहुवचनान्तम
नेकत्राप्येकवचनान्तं शब्दं नियुञ्जीरन्निति कस्तत्र तेषु शब्देषूपालम्भो नानेको
34 रूपादिरेकशब्दोत्थापने समर्थ इत्ययं नैव कश्चित् केवलमतिबहुलव्यामोहविजृ
म्भितमिति मन्यते । स्यान्मतङ्किमित्येकं शब्दमनेकत्र नियुञ्जत इत्याह । निमि
तञ्च नियोगस्योक्तमेवेति
3a6 तत्सामर्थ्यख्यापनाय तत्रैक
शब्दनियोगोऽपि
स्यादित्यत्रावसरे । उपचयमाह । अपि चे
3a7 त्यादिना । आश्रयाभिमतेने
त्यवयविद्रव्येण । तेषान्तत्र समवायसम्बन्धेन सम्बन्धात् । क
थं सम्बन्धो नैवाने
कस्य एकेन सह सम्बन्धो विरोधाभ्युपगमात् । अन्यथैकेन शब्देनापि सह प्राप्नो
तीत्यभिसन्धिः । परः प्राह । न चे
3a7 दयमेकेन स
ह सम्बन्धविरोधात्
कारणा देकशब्दं रूपादिषु नेच्छामः । किन्त्वभिन्नानामविशिष्टानां रूपादीनां
घटकम्बलपर्यङ्कादिषु । नानाविधा येयमर्थक्रिया जलधा
रणप्रावरणादिस्तस्या
विरोधः । तथा च तत्सामर्थ्यख्यापनाय शब्दस्य विरोधात् । तेषाञ्चाभेदस्तदाश्रय
द्रव्यभेदाभावात् । एतदेव स्फुटयति । ते रूपादय ए
25a कस्वभावाः सन्तः
समुदायान्तरे कम्वलादौ येयमसम्भाविनी उदक धारण विशेषाद्यर्थक्रिया
तामेव कुर्युस्तेन कारणेन तस्या अर्थक्रियायाः प्रकाशना
येमामेतेऽर्थक्रियां न ते
तदसम्भाविनीमर्थक्रियाङ्कुर्वन्ति । यथा त एव कम्बलग
ता रूपादयः
सजातीयेभ्यः । तथा च घटगता अपि रूपादयः कम्बलगतेभ्यो रूपादि
भ्योऽविशिष्टस्वभावा इति व्यापकानुपलब्धिः । एवमन्यत्रापि
योज्यमितीयं पूर्व्व
पक्षरचना । अत्रोत्तरमाह । भवतु नामेत्यादिना
3a9 । तदनेन हेतोरसिद्धि
मुद्भावयति । अयमत्रार्थो नहि रूपादीनाङ् कम्बला
दिष्वभेदोस्ति । परस्पर
रूपविविक्तानामेव प्रत्यक्षप्रमाणपरिच्छेद्यत्त्वात् । एवञ्च सतीदं प्रत्यक्षं किमे
नाम्वाञ्छामुपेक्षते । किम्प्रश्ने क्षेपे वा
नैव क्षन्तुमर्हत्यपाकरोतीति ।
किंञ्चानिष्टञ्चेद 3a10 मस्माभिर्घटकम्बलादिष्वभिन्ना रूपादय इति कुतो
35 रूपादीनाम्प्रतिसमुदायत्त्वे हेतुबलादनपेक्षितद्रव्याणां स्वभेदाभ्युपगमात् । तद
नेनाभ्युपगमद्वारेणाप्यसिद्धताञ्चोदयति । पूर्व्वेण प्रत्यक्षद्वारेणेति विशेषः ।
पुनरपीर्ष्यालुः परः प्रा
ह । यद्यन्य एव रूपादिभ्यो घटः स्यात् किं
स्यादिति । न कश्चिद्दोषः स्यादित्याकूतं । न वयं मात्सर्यात्तं नेच्छामः ।
किन्तु भवत्येतावत्त्वत्र वक्तव्यस्तीत्याह । तस्यावय
विनः प्रत्यक्षस्य सतः
3a10 चक्षुः स्पर्शनेन्द्रियग्राह्यतयाभ्युपगतत्त्वात् । अरूपादिरूपस्य
3a10 रूपगन्धादिस्वभावरहितस्येत्यर्थः । गुणद्रव्ययोर्भेदाभ्युपगमात् ॥
25b
तद्विवेकेन रूपादिविवेकेन बुद्धौ चक्षुः स्पर्शनेन्द्रियजायां प्रतिभासने किमा
वरणन्न कश्चित्प्रतिबन्ध इत्यर्थः । न च कश्चिदत्यादरेणाप्रतिहतकरणोपि नि
रूपयन्नीलमधुरसुरभिकर्क्कशादिव्यतिरेकेण तद्रूपम्विविक्तरूपं घटादिद्रव्य
मुपलब्धुमीश इति मन्यते । अबिद्धकर्ण्णस्त्वाह
। रूपाद्यग्रहेपि द्रव्यग्र
हणमस्त्येव
यतो मन्दमन्दप्रकाशेऽनुपलभ्यमानरूपादिकं द्रव्यमुपलभ्यतेऽनिश्चितरूपं गौरश्वो
वेति । ननु च तत्रापि संस्थानमात्रमुपलभ्यते । सत्यमुप
लभ्यते न तु तद्रूपा
द्यात्मकं । रूपाद्यात्मकत्वे वा नीलपीतादिविशेषग्रहणप्रसङ्गः । तथायस्कञ्चु
कान्तर्गते पुरुषे पुरुषरूपाद्यग्रहे
पि पुरुषप्रत्ययो दृष्टः । रात्रौ च वलाकाव्यामुक्त
रूपाद्यग्रहेपि पक्षिप्रत्ययो दृष्टः । तथानीलाद्युपधानभेदानुविधायिनः स्फटिकम
णेः
स्फटिकरूपाद्यग्रहेपि स्फटिकप्रत्ययः । तथा कषायरूपेण पटरूपाभिभवे पटरूपाद्य
ग्रहेऽपि पटप्रत्ययो दृष्ट इति । तदेतत्स
र्व्वमस्यानल्पकालोपचितकुदर्शनाभ्या
सोपजातबुद्धिमान्द्यविजृम्भितमेव प्रकटयति वचः । तथाहि यत्तावदिदमुक्तं मन्द
मन्दालोके रात्रौ च नीलाद्युपधान
सद्भावे च तद्रूपाद्यग्रहेपि द्रव्यमुपलभ्यत इति
तत्र वक्तव्यं कीदृशं तत्र द्रव्यमुपलभ्यत इति । दृश्यत एव तद्यादृशमुपलभ्यत इति
चेत् । ननु श्यामरूपं
मन्दमन्दालोके रात्रौ च तत्र तदपुलभ्यते उपधानं रूपञ्च ।
न च तद्रूपन्तत् । ताद्रूप्येऽनन्तरोदितपक्षक्षयप्रसङ्गात् । तत्समीपपार्श्ववर्त्तिभिश्च
तथानुप
26a लम्भात् । न चाप्यण्या61कारेण बोधेन वस्तुनोऽवगतिः यस्य कस्य-
चिज्ज्ञानस्य सर्व्ववस्तुपरिच्छेदकत्त्वप्रसङ्गात् । तस्माद् भ्रान्तमेतत् ज्ञानम्भ्रान्ति
वीजात्स्वोपादानादनादि
कालीनान्निर्विषयमेव तथा प्रतिभासि द्विचन्द्रादिप्रत्यय
वदुपजायते । निर्विषयत्त्वेपि प्रतिनियतदेशकालभावि भवति । स्वोपादान
वासनाप्रबोधकबाह्या
धिपतिप्रत्ययापेक्षना62त् । द्विचन्द्रादिज्ञानवदेव ।
भ्रान्तत्त्वेप्यर्थाविष63म्वादो विशिष्टाधिपतिप्रत्ययसद्भावात् । मणि
36 प्रभायां मणिभ्रान्तिरिव । न चार्थाविसम्वाद
नादेवास्य सविषयत्वं युक्तमनु
मानेन व्यभिचारात् । मणिभ्रान्त्या च । तदेव द्रव्यन्तथा गृहणाति ततोन्यस्य निर्वि
षयत्त्वमिति चेत् । ननु न तद् द्रव्यन्त
द्रूपन्न वान्याकारानुस्यूतः प्रत्ययोऽन्य
स्य परिच्छेदक इत्युक्तं । एवञ्च सति सद्विषयत्त्वे सत्यपेक्षेपि सद्विषयत्त्वमस्त्येव ।
तथा हि समाप्येतच्छक्यम्वक्तुं
त एव नीलादयस्तथा प्रतिभासन्त इति । असति
भ्रांतिसन्देहकारणे सालोकावस्थायां योग्यदेशावस्थाने च निरुपधानावस्थायाञ्च
नोपलभ्यते
। तत् द्रव्यमनात्मरूपप्रतिभासि विवेकेनान्यदा तु सति भ्रान्ति
सन्देहकारणे निशान्धकारावच्छादितलोचनावस्थायां दूरदेशावस्थाने सोपधा
नावस्थायाञ्च तद
न्याकारविवेकेन प्रतिभासत इति कोन्यो भौतिकाद्वक्तु
मर्हति । अयस्कञ्चुकान्तर्गते पुरुषप्रत्ययो न प्रत्यक्षः । किन्तर्हि । लैगिकः ।
तथा हि पुरुषश
रीरावयवसमाश्रयबलोद्भूतविशिष्टसंस्थानावस्थितकञ्चुक
दर्शनात्कार्यलिंगज्ञानात् सम्बन्धस्मरणापेक्षिणः कारणभूते तथाविधे पुंसि
पुरुषोयमित्यनन्तर
26b मेव प्रत्ययः समुद्भूतिमासादयति । अत एव चास्पष्टाकारा सा
प्रतीतिः कश्चायमिति संशयश्च भवति । तथाविधसंस्थानस्य च कञ्चुकस्योत्त्पत्तेः
पुरुषरूपादय ए
व हेतवो भवन्ति नत्वन्यदवयवि द्रव्यं । तस्यासिद्धेरसिद्धस्य च
कारणत्वाभ्युपगमायोगात् । रूपादिभिस्तु प्रत्यक्षानुपलम्भाभ्याङ्कार्यकारणभाव
सिद्धेः । तेषा
मेव केवलानान्तथा सन्निविष्टानामुपलम्भात् । पटे तु कषायमञ्जिष्ठा
दिसम्पर्कादर्थान्तरमेव केवलन्तत्तथा जातमीक्ष्यते । नतु नानारूपयोर्द्रव्ययोः सं
सर्गा
दविभागात् तथोपलम्भः । पुनस्तद्द्रव्यसंस्थानस्थितिकारणविच्छेदात्तन्निवृत्तिः ।
तदुपादानकारणापेक्षिणश्च जलपावकादेरपरोत्त्पत्तिरिति
। एतेनायोगोलक
तद्रूपग्रहणेपि तत्प्रत्ययो दृष्ट इत्येतदपि प्रतिस्फुटं । तदेवं द्रव्यस्य प्रत्य
क्षत्वासिद्धेर्यदुक्तङ्गवाश्वमहिषवराहमातङ्गा
विमत्यधिकरणभावापन्ना रूपादि
व्यतिरिक्ता इत्येव घोषणा । ऐन्द्रियकत्वे सति समस्तरूपादिग्राहकवाक्येन्द्रियान
वच्छेद्यत्वात्प्रीत्यादिवदिति त
दपहस्तितं । प्रयोगाः पुनः । यद् दृश्यं सत्सद्व्यतिरेकेण
नोपलभ्यते तत्ततो भिन्नन्नाभ्युपेयन्नास्तीति वाभ्युपगन्तव्यं । यथा नरशिरसि
विषाणन्नोपलभ्यते च दृश्यं
सन्नीलादिषु तद्व्यतिरेकेण सामान्यविशेषसंयोग
विभागपरत्वापरत्वादिकमिति स्वभावानुपलब्धिः । नास्य सिद्धिः । दृश्यत्वेन
स्वयमभ्युपगमात् । तथा
रूपाद्यर्थपञ्चकव्यतिरिक्तत्वेनोपगतं द्रव्यन्नचक्षुःप्रत्यया
वसेयमुपलब्धिलक्षणप्राप्तत्वेनोपगतत्वे सति नीलादिवस्तुरूपविरहात् । शब्द
37 गन्धरसवत् । न च
27a तस्मादव्यतिरिक्त एवायं तत्र चायन्दोष इत्यागूर्याह । सोतिशयो
व्यवच्छेदलक्षणस्तस्यातिशयवतोऽवस्थातुरात्मभूतोऽनन्वय इत्येकान्तेन निवर्त्त्त
मानः । व्या
पकत्वाभावात्प्रवर्तमानोऽसन्नेव कथन्न स्वभावनानात्वं सुखदुःख
धीरिवाकर्षति । अन्वाकर्षत्येवेत्यर्थः ।प्रयोगो64पुनर्यो यस्यात्मभूतः
स तन्निवृ
त्तावेकान्तेन निवर्त्तते प्रवृत्तौ चासन्नेव प्रवर्त्तते यथा तस्यैवातिशयस्यात्मा ।
आत्मभूतश्चातिशयस्यातिशयवानिति स्वभावहेतुः । ततश्च तयोरवस्थ
योरवस्था
तुर्न्नानात्वम्परस्परविरोधिपर्य्याध्यासितत्वात् सुखदुःखवदितिस्वभावहेतुरेव । न वा
सावतिशयोऽनन्वयः प्रवर्त्तते निव
र्त्तते वाऽतः पुर्वस्मिन् प्रमाणे साध्यविकल
त्वन्दृष्टान्तस्य । उत्तरत्र त्वसिद्धिर्हेतोरिति चेदाह । सान्वयत्वे चातिशयस्य
निवृत्तिप्रवृत्योरं
गीक्रियमाणे का कस्य निवृत्तिः प्रवृत्तिर्वेति
4b4 । नैव
काचित् कस्यचिन्निवृत्तिः प्रवृत्तिर्वा । सर्वस्य सर्वदा सत्वात् । तथा च सर्वं सर्वत्र
समुपयु
ज्येतेत्यादिना पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः । उपचयमाह ।
यदि च कस्यचित् स्वभावस्यातिशयाख्यस्य प्रवृत्तिर्निवृत्तिर्वेति स्वयमभ्यनुज्ञा
यते त्वया । एकातिशयनिवृत्याऽपरातिशयोत्त्पत्या व्यवहारभेदोपगमादित्यभि
धानात् तदेतदेव परस्तथागतवचोऽभ्यासोपजातावदातमति
र्ब्रुवाणः । नानु
मन्यते भद्रमुखेण65भवेदेवं यदि यथामया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायेते तथा
तेनापि । यावतास्य निरन्वयोपजननविनाशोपगमसम
27b त्वाद् द्रव्यस्यालोकनीलादि-
वत्तद्व्यतिरेकेणाप्रतिभासनमभिन्नेंद्रियग्राह्यत्वाद्वा तद्वदेवेत्यतआह । प्रतिभास
मानाश्च विवेकेने
3b1 दं नीलमिदं सुरभि मधुरं कर्कशमिद
मिति चेति प्रत्यक्षा
अर्था दृश्यन्तेऽपृथग्देशत्वेपि सति के ते रूपादयः । लोकप्रसिद्ध्या चेदमुक्तन्न तु
तेषामभिन्नदेशत्वमस्ति । सप्रतिघा दश रूपिण
अभिधर्मकोशे १।२९ इति वचनात् ।
त
था ऽभिन्नेन्द्रिय ग्राहयत्वेपि वातातपस्पर्शादय
3ba इति यथाक्रमं चैतदुत्तरं ।
अनेनैकान्तिकत्वं हेतोरुद्भावयति । उपेत्य च धर्मिसम्बन्धं अभिन्नेन्द्रियग्राह्यत्वस्य
व्यभि
चार उक्तो नत्वसावस्यास्त्येकदेशासिद्धेः । कथं । यतो न सुरभिमधुरादयो
द्रव्यग्राहकेन्द्रियग्राह्याः । सार्वेन्द्रियत्वप्रसङ्गाद् द्रव्यस्य । आलोकनीलादीनां
त्वभेद
एव यतः प्रदीपादिसन्निधानात् प्रकाशरूपा एव तथाविधस्वभावाध्यासित
वपुषस्ते समुद्भवन्ति न तु तेषां भेदोऽस्तीति साधनविकल्पताऽपि दृ
ष्टान्तस्येति
मन्यते । तस्मादस्य प्रत्यक्षत्वमभ्युपगच्छद्भिर्न बहिरवश्यं रूपादिविवेकेन प्रति
38 भासनमभ्युपगन्तव्यमन्यथा प्रत्यक्षत्वासिद्धेः । कुतो य
स्मादिदमेवेत्यादि सुबोधं ।
अयम्पुनर्घटादिर्भवद्भीरूपादिव्यतिरेकेणाभ्युपगतः । को सावमूल्यदानक्रयीयः ।
तदेतेन नायमीदृशो लोकव्यवहारपद्धति
मवतरतीत्याचष्टे । स स्वरूपञ्च
नोत्कर्षेण दर्शयत्यप्रतिभासमानत्वाप्रत्यक्षताञ्च स्वीकर्त्तुमिच्छति दार्शनं स्पार्श
नञ्च द्रव्यमिति सिद्धान्ते पाठात् । इत्येतदात्मनि
रन्तरप्रेमाणः सुहृदः प्रत्येष्यन्ती
त्त्यध्याहर्त्तव्यं । मूल्यदानक्रया विद्यन्तेस्येति मूल्यदानक्रयी न तथेति वृत्तिः । अथवा
क्रेतुं शीलं यस्यासौ क्रयी मूल्यदानेन क्र
28a यी न तथा । कथमेतदित्याह । यः प्रत्यक्षता
3b2 मित्यादि । मूल्यदानञ्चात्र स्वरूपार्पणमित्युपहसति ।
ननु चैको घट इति प्रत्ययव्यपदेशसद्भावाद्रूपादिवत् तदस्त्येव । तत्कथ
मस्यासत्वमिति चेदाह बुद्धिशब्दादयोपि व्याख्या ता न च सर्व्व इत्यादिना । आदि
शब्देन तद्भेदाभेदोपादानं । यदि तैर्वुद्धिव्यपदेशादिभिस्तस्य साधनसिद्धि
रिष्यते । स्यादेतत्प्रतिभासमानमपि द्रव्यं लवणरसाभिभवे खण्डरसवन्नोपलक्ष्यते ।
ततस्तत्प्रसाधनाय लिङ्गमुच्यत इत्यत आह । न च प्रत्यक्षस्यार्थस्य रूपानुप
ल
क्षणं
3b3 युक्तं । द्रव्यान्तरेणानभिभवे सति । अभिभवे तु युक्तमेव । यथा
खण्डादिरसस्य । न चात्र केनचिदभिभवोस्ति । नीलादिभिरस्तीति चेति । न
महत्यने
कद्रव्यवत्ताद्रूपाच्चोपलद्धिः । तथा रूपसंस्काराभावाद्या वानुपलब्धि
रित्युक्तं । तस्य चानुपलक्षणे तेषामप्यनुपलक्षणप्रसङ्गः । ततश्च स
र्व्व
पदार्थानामनुपलक्षणाल्लोकव्यवहारोच्छेद एव भवेदिति मन्यते । येनानुपलक्षणेन
तस्यावयविनः साधनाय लिङ्गमुच्यते । तद्भावसाध
नञ्च लिङ्गमभ्युपगम्येत
तद्भाष्यते न तु तद्गमकं लिङ्गं किञ्चिदप्यस्ति । यथोक्तम्प्राक् । तत्प्रतिपादक
प्रमाणाभावेपि तदस्त्येवेति चेदाह ।
अप्रत्यक्षत्वेप्यप्रमाण
स्य सत्वोपगमो
ऽयुक्त
3b3 इति । अप्रमाणस्येत्यनेन प्रत्यक्षव्यतिरिक्ततत्प्रसाधकप्रमाणा
भावमाह । यस्य सद्भावसाधकं प्रमाणं नास्ति न तदस्ती त्यङ्गीकर्त्त
व्यं । यथा
नभस्तले कमलं नास्ति चावयविनोऽस्तित्वसाधकं प्रमाणमिति सद्व्यवहारप्रति
षेधफलामनुपलब्धिं मन्यते । एवं विस्तरेणैकद्रव्याभावं प्र
28b तिपाद्य प्रकृतमुप
39 संहरति । तदि त्यादिना । मूलप्रकरणमपि निगमयति । एवन्ताव दि 3b3
त्यादिना । अत एव न तेषाम्बुद्ध्यादीनाम्विपर्ययात्तेषां सत्तादीनाम्वि
पर्ययोऽभावः ।
योहि यस्य भावमेव न साधयति स कथमिव वर्त्तमानस्तदभावं साधयतीत्याकूतं ।
यदि नाम बुद्ध्यादयः सत्ताम्भेदाभेदौ वा न साधयन्त्यर्थक्रि
या तु तान्साधयिष्यतीत्यत
आह । अर्थंक्रियातस्तु सत्ताव्यवहारः स्यादि
3b4 ति तल्लक्षणत्वात् सत्त्वस्येति
भावः । अनेनावयोरत्र साम्यमेवेति दर्शयति । अन्य
त्र तु विवाद इत्याह । न सत्ता
भेदाभेदव्यवहार
3b4 इति । कुत एकस्याप्यनेकार्थक्रियादर्शनात् । तत्र नैक
प्रत्ययजनितं किञ्चिदस्ति तत्कथ
मेवमुच्यते । सत्यमेतदेकं तु बहवीषु सामग्रीषु
वर्त्तत इत्यनेकार्थकृदित्युच्यते । यदाह ॥
स्यादपि सामग्र्योरित्युक्तं तदनेककृदिति ॥ ११
किम्वत् । यथा प्रदीपस्य विज्ञानस्य वर्त्तिविकारस्य ज्वालान्तरस्य च स्वपर
सन्तानसम्बन्धिक्षणान्तरस्यो
त्पादनानि तदेवं सत्ताभेदव्यवहाराभावे कारणं ।
कथमेकमनेकं कार्यमुत्पादयतीति चेति । एकस्यैव ईदृशस्यानेककार्यजननात्तुर्या
तिशयक्रोडी
कृतं रूपवतः स्वहेतुभ्यः संजातत्त्वादिति भावो न्यायतत्त्वविदः ।
तथानेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात् । अभेदव्यवहाराभावे कार
णमेतत् । कणभु ग्मतविपर्यासितधियस्त्वाहुः । न ब्रूम इत्यादि । किन्तर्ह्यदृष्टार्थ
क्रियाभेदेन सत्ताभेद इति वर्त्तते । तदेव व्यनक्ति । यार्थक्रिया 3b6 मध्वाद्या
29a
हरणादिलक्षणा तस्मिन्घटादावदृष्टा सती पुनर्दृश्यते । अन्यत्र घटादौ ।
सैवम्विधा सत्ताभेदं साधयति । तेषां घटादीनामनेन व्याप्तिः कथिता । किमिव ।
यथा पटेऽदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमाना
3b7 सत्ताभेदं साधय
तीति प्रकृतेनाभिसम्बन्धः । दृष्टान्तकथनं चैतत् । अदृष्टा च तन्तुषु प्रावरणद्य
र्थ
40 क्रिया पटे दृश्यत इति
3b7 पक्षधर्मोपदर्शनमिति । तस्मात् सत्ताभेदस्तन्तु
पटयोः सिद्ध इति शेषः । तदनेन साधनफलं सङ्कीर्तितं । स्वभावहेतुश्चायं
यस्मात्तद
दृष्टार्थक्रियाकरणमात्रानुबन्धी सत्ताभेद इति । तदेतेन तन्तुभ्यः पटस्यान्यत्वं
साधयन्नर्थान्तरभूतावयविसिद्धिं मन्यते ॥ आचार्यस्त् वाह ॥ सिध्यत्येवं तन्तु
पटयोः सत्ताभेद इति प्रकृतं ॥ वांछितार्थसिद्धिस्तु भवतो नैवास्तीत्यभिप्रायवा
नाह । अर्थान्तरन्तथाप्यवयवी न
सिध्यतीति
3b7 कुत एतद्यतो यथाप्रत्यय
मस्यां संस्कारसंततौ स्वभावभेदोत्पत्तेः कारणादर्थक्रियाभेदः प्रावरणादिलक्षणो
भवति ।
एतदुक्तं भवति पिण्डीकृतेभ्यस्तन्तुभ्य उपादानकारणभूतेभ्यः
कुविन्दादिसहकारिप्रत्ययसन्निधानाच्च विशिष्टसन्निवेशावच्छिन्ना एव
तन्तवो जायं
ते । ये प्रावरणाद्यर्थक्रियायामुपयुज्यन्ते । तेभ्यश्च पूर्व्वेभ्यः पटस्या
न्यत्वमिष्टमेवास्माभिरपि । न तु विशिष्टसंस्थानावच्छिन्नेभ्य इति त्यज्यतामियमर्था
न्तरा
29b वयविसिद्धिप्रत्याशेति । तदेतेनैवा विद्धकर्ण्णो क्तं पूर्व्वोत्तरकालभावित्वादित्यादि
तत्साधनमपहस्तितं वेदितव्यं । अस्माभिस्तु विस्तरेण प्राक् प्रयुक्तमेवेति ।
न पुनर्योज्यते । किम्वत् प्रत्ययवसात्66स्वभावविशोषोत्पत्ते रर्थकिया
भेद
3b7 इत्याह । अरणिनिर्मथना
3b7 दित्यादि सुज्ञानं । दृष्टान्तं प्रदर्श्य
दार्ष्टान्तिकमाह । तथा यथे
3b8 त्यादि
। अनेनैव यथाप्रत्ययस्वभावभेदेन
यदेके चोदयन्ति । ननु च तन्तवः पट इति बुद्धिव्यपदेशभेदात् । कथमस्यान्यत्वं
नास्तीति तत्प्रतिक्षिप्तमित्याकूतवानाह
। एतेन बुद्धिव्यपदेशभेदौ व्याख्याता
विति
3b8 । तत्रैवं स्थिते यदुक्तं प्राक्त्वयाऽर्थक्रियातः सद्व्यवहारसिद्धिर्भवति
विपर्ययाच्चार्थक्रिया निवृत्ते विपर्ययोऽसद्व्यवहार
इति सत्यमेतत् । एतावत्तु
ब्रूमः । स एव विपर्ययोऽर्थक्रियाया अनुपलब्धिलक्षणप्राप्तेषु न सिध्यति । तथाहि
यद्ययमुपलब्धिलक्षणप्राप्तानुप
लम्भो नेष्यते तदास्यार्थक्रियासामर्थ्यं नास्तीति
कथमधिगतं भवता । न चानुपलब्धिमात्रादिति युक्तम्वक्तुँ । तस्य व्यभिचारात् ।
41 तत्र पुनरनिच्छतो
प्यायातं तव । यस्येदमर्थक्रियासामर्थ्यमुपलब्धिलक्षणप्राप्तं
सन्नोपलभ्यते सोऽसद्व्यवहारविषय इति । कुतः सामर्थ्यलक्षणत्वात् सत्वस्य
।
भवत्वेवङ्को दोष इति चेदाह । तथापि कोतिशयः
3b10 पूर्व्वकादस्मादुप
वर्णितादुपलभ्यानुपलम्भात् । अस्य सामर्थ्यानुपलम्भस्य भवत्परिकल्पितस्य ।
स्यात् म
तं स स्वभावस्यैवानुपलम्भोऽयं तु पुनः सामर्थ्यस्येत्यत आह । न ही3b10
त्यादि । तथा च तस्य सामर्थ्यस्य योनुपलम्भः स स्वभावस्यैव इति तस्मात्
पूर्वकैव स्वभावा
नुपलब्धिरेवेयं सामर्थ्यानुपलब्धिः । तस्माद् दृश्यानुपलब्धिरेवा
सद्व्यवहारसाधनेति स्थितमेतत् । यस्माच्चैवन्तस्मादनेन वादिना क्वचिच्छश
विषाणादावसद्व्यव
30a वहारमभ्युपगच्छता दृश्यानुपलम्भादभ्युपगन्तव्यो-
ऽन्यस्य तत्प्रतिपत्त्युपायस्याभावादिति भावः । ततः सोनुपलम्भोऽन्यत्रापि सामान्य
विशेषसंयोगावय
विद्रव्यादौ तथाविधे उपलब्धिलक्षणप्राप्ते अविशेष इति
सोपि सामान्यविशेषादिस्तथास्त्वसद्व्यवहारविषयत्त्वेनास्तीत्यर्थः । स्यादेतन्नैव
सामान्यविशे
षादिस्तथाविधोनुपलब्धोस्य सद्व्यवहारविषय इत्यत आह । न वा
क्वचिच्छशविषाणादावसद्व्यवहारो ऽभ्युपगन्तव्यः । कुतो विशेषाभावादनुप
लम्भस्य
। अयमत्रार्थो द्व्योरनुपलम्भे तन्निमित्ते तुल्येपि यद्यसद्व्यवहारः
सामान्यादौ नोत्पद्यते । अन्यत्रापि तर्हि स नाभ्युपेयो विशेषहेत्वभावादि
त्यनेन च
पूर्व्वोक्तमेव कस्य चिदसतोभ्युपगमे तल्लक्षणाविशेषादिति स्मारयति । तस्मा
त्सर्व्व एवंविधो दृश्यानुपलम्भोऽसद्व्यवहारस्य वि
षय
4a2 इति व्याप्तिः ।
अनुपलब्धौ सिद्धेतिशेषः ॥ ० ॥
42
कापिला स्त्वाहुः । सर्व्वमेव सर्व्वात्मकं अन्यथा यदि मृत्पिण्डदुग्धबीजादिषु
घटदध्यङ्कुराद
यो न विद्यन्त एव शक्त्यात्मना तदा कथं पुनस्तेभ्यस्तेषामुत्पत्तिः ।
नहि शशविषाणमविद्यमानन्तत्रोदेति । एवञ्च सति दृश्यः सन्ननुपलब्धोपि कश्चिद्
घटा
दिः क्वचिद्देशादौ कथञ्चिच्च संस्थानविशेषादिना नैवाभावव्यवहारविषयो
भवतीति तेषां मतमासङ्क67ते । नैवे
4a3 त्यादिना ।
इत्यभिप्रायवानाह । सर्व्वस्ये
4a3 त्यादि । यद्यदृष्टमपि तत्रास्ति तदा
सर्व्व एव क्षीरादयः सर्व्वे र्घटादिरूपै
30b रनुमतत्वात् तत्साध्यामर्थक्रियाङ्कुर्युरित्यर्थः ।
किञ्चेदमपरं न स्यादिदन्दध्यादिकार्यमतः क्षीरादेर्भवति नान्यतो जलादेः ।
यदि वा नातः क्षीरादेरिदं मध्वादि
कं तथेदङ्कुङ्कुमादिकमिह कस्मीरा68 दिदेशे नेदमिह मालवकादि देशे यदि वा नेदं चन्दनादिकमिह । तथेदङ्कु
न्दादिकमिदानीं शिशिरसमये नत्विदमि
दानीन्निदाघकाले । अथवा नेदं कमलादिक
मिदानीन्तथेदं खण्डादिकमेवं माधुर्यादिगुणविशिष्टं । नेदमेवङ्कटुकादिरूपं ।
यद्वा नेदं निम्वादिकमे
वमिति व्याख्यातव्यं । किङ्कारणमेवमेतदित्यत आह ।
कस्यचिदपी
4a4 त्यादि । इदमेवम्बिधमधुनास्य रूपन्नास्तीति योयम्विवेको
ऽभावस्त
स्य हेतोरभावात् । सर्व्वस्य सर्व्वरूपाणां सर्व्वदानुवृत्तेरिति मतिः । नन्विद
मनन्तरमेव वस्तुतोऽभिहितमेव सर्व्व सर्व्वत्र सर्व्वदा समुप
युज्येतेत्यत्र तक्तिमिदं
पुनश्चर्वितचर्व्वणमास्थीयत इति चेत् । सत्यं पूर्वं कारणगतो व्यापारः कथितो
ऽधुना तु कार्यगत इति विशेषा
ददोषः । इदञ्चान्यतरमुखेण69दूषण
वचनं शिष्यव्युत्पादनाय । ततश्च भेदाभावान्न विद्येते अन्वयव्यतिरेकौ यस्मिं
निति विग्रहः । इदमत्रास्तीत्या
द्यन्वयो नास्तीति व्यतिरेकः । परः प्राह ।
अवस्थेत्या दिना । एतदुक्तम्भवति । यत्र यद् व्यक्तन्तत्तत्रास्तीत्यादि व्यवहिरयते
43 यत्र तु यन्नैव व्यक्तन्तत्र तन्नास्तीत्यतो
ऽयमदोष इति । नत्वि
4a5 त्याद्याचार्यः ।
‘त एवावस्थानिवृत्तिप्रवृत्तिभेदा न सम्भवन्ति तावकीने दर्शने । कुतः सर्व्वविषयस्या
सद्व्यवहारस्याभावात् । अथापि क्वचि
31a द्विषयेऽसदव्यवहार इष्यते तदा तस्य कारणं
भवद्भिर्वक्तव्यमित्याह । क् वचिदि
4a5 त्यादि । यदि वावश्यमनेन क्वचित्परि
कल्पिते व्यतिरिक्तावयव्यादावसद्व्यवहारों
गीकर्त्तव्यः । स चास्य न युक्तो
हेत्वभावादित्याह । क्वचिदि त्यादि । कुतः । यस्मान्नहि अनुपलम्भादन्यो व्यवच्छे
दस्याभावस्य हेतुरस्ति प्रसाधक इति शेषः । स च त्वया
नेष्टक इति भावः । कस्मा
देवं यतो विधिना स्वभावविरुद्धोपलम्भादौ प्रतिषेधेन व्यापकानुपलम्भादौ व्यवच्छेदे
साध्येऽनुपलम्भस्यैव सर्व्वदा साधकत्वात् । अथा
हमप्यस्मादेवानुपलम्भाद् व्यव
च्छेदं साधयामीति ब्रूषे तदत्रापि ब्रूम इत्याह । सोनुपलम्भो यत्रैवास्ति स सर्व्वो
ऽसद्व्यवहारविषय
4a6 इति वक्तव्यं ॥
किमिति विशेषाभावात् । तथा
चघटादि70रपि क्वचित्प्रदेशविशेषादावसद्व्यवहारविषयत्वं सिद्धं ।
तथाविधस्यानुपलम्भस्यात्रापि भावात् तत्किं
ब्रूषे । नैव क्वचित् कश्चिद् दृष्टो
प्यसद्व्यवहारविषय इति अभिप्रायः । अन्यथा अत्रापि व्यतिरिक्तावयव्यादौ
मा भूदसद्व्यवहार इति यावत् ।
सर्व्व
प्रमाणनिवृत्तिरि
4a7 त्यादि परः । तथा चायुक्तं उक्तं । नहि
अनुपलम्भादन्यो व्यवच्छेदहेतुरस्तीति । एवञ्च सति न घटस्यापि क्वचिदसद्व्यव
हारविषयत्वमा
गमानुमानभावेन सर्व्वप्रमाणनिवृत्तेरेवाभावादिति मन्यते ।
कुतः पुनरिदमतिप्रज्ञाकौशलमासादितं भवतेत्यागूर्योपहसति । सुकुमारप्रज्ञ
4a7
इत्या
दिना । न प्रसहते प्रमाणचिन्तापरिक्लेश
4a7 मिति सुकुमारप्रज्ञत्वे
कारणं ।
ननु च किमत्रायुक्तमुक्तमस्माभिर्येनोपहससीत्याह । नही
4a8 त्यादि ।
अदिश
31b ब्देनागमपरिग्रहः । व्यभिचारश्च पूर्वमेव प्रतिपादितः । सर्व्वप्राणि
प्रत्यक्षनिवृत्तिस्तर्हि गमयिष्यतीत्याह । न सर्व्वप्रत्यक्षनिवृत्तिरि
4a8 ति ।
44 कुतोऽसिद्धेः । आत्मपर
योरप्रतिपत्तेरित्यर्थः । न ह्यत्र सर्वेषाम्प्रत्यक्षन्निवृत्तमिति
निश्चये प्रमाणमस्ति किञ्चित् । आत्मप्रत्यक्षनिवृत्तिरेव तर्हि गमयतीति चेदाह ।
नात्मप्रत्यक्षा विशे
षनिवृत्तिरपी
4a8 ति । न केवलं पूर्वोक्तेत्यपि शब्दः ।
अविशेषेण निवृत्तिरविशेषनिवृत्तिः । आत्मप्रत्यक्षस्याविशेषनिवृत्तिरात्मप्रत्यक्षा
विशेषनिवृत्तरिति
व्युत्पत्तिक्रमः । सन्निहितसकलतदन्यकारणस्य त्वात्म
प्रत्यक्षस्य निवृत्तिस्त्रिविधविप्रकर्षाविप्रकृष्टेऽभावङ्गमयत्येवेति कथनीयाविशेष
वि
प्रकृष्टवचनं । यस्मात् सर्व्वप्रमाणनिवृत्तिर्न्नासद्व्यवहारहेतुस्तस्मात् स
स्वभावविशेषस्त्रिविधविप्रकर्षाविप्रकृष्टरूपो भावो यतः प्रमाणात्सं
निहित
समस्ततदन्यत्क्रियादिकारणात् प्रत्यक्षान्नियमेन सद्व्यवहारम्प्रतिपद्यते समासाद
यति । तस्यैव यथोक्तस्य प्रमाणस्य निवृत्तिस्तस्य स्व
भावविशेषस्यासद्व्यवहारं
प्रसाधयति । अवधारणमनुमानावगमादिनिवृत्तेर्व्यवच्छेदाय । किङ्कारणन्तस्य
स्वभावविशेषस्य स्वभावसत्तायास्तस्य यथो
क्तस्य प्रमाणस्य येयं सत्ता तया व्याप्तः
कारणात् । तथाहि यत्र स तादृग्विधः पदार्थस्तत्रावश्यं तेनापि प्रमाणेन भवितव्यं ।
समर्थस्य कारणस्य कार्या
व्यभिचारात् । एवञ्चैतत्प्रमाणं तद्व्यापकत्वान्निवर्त्त
मानं तामपि वृक्षवच्छिंशपां निवर्त्तयति । अनेन च यथोक्तादनुपलम्भादित्याद्युक्त
मुपसंहरति स्यादेत
32a दुपलब्धिलक्षणप्राप्तमपि क्षीरादिषु दध्यादिकं न प्रत्यक्षे
णोपलभ्यतेऽपि त्वनुमानेनाशक्तादनुत्पत्तिरिति । अतो न तन्निवृत्याप्यसद्व्यवहार
विषयत्वन्तस्येत्यत आह । न चे
4a9 त्यादि । येनान्योपलब्धित्वेनानुमाना
दस्यो
पलब्धिः स्यात् । किम्पुनरन्योपलब्धिर्न युज्यत इत्याह । न चेत्या दि । यस्मादर्थे
चकारः । तस्य रूपस्योपलब्धिलक्षणप्राप्तस्यान्यथाभावप्रच्युतिर्न्न तमन्त
रेणा
प्रत्यक्षः स भावो युक्त इति शेषः । तदेतेन प्रत्यक्षमेव तस्योपलब्धिरपेक्षणीयस्य
कस्यचिद्धेतोरभावादिति प्रसाधयति । प्रयो
गः पुनः । यद्यदासन्निहितसकला
प्रतिबद्धसामर्थ्यकारणन्तत्तदा भवत्येव न चाक्षेपकारि । यथा समग्राप्रतिहत
सामर्थ्यकारणसा
मग्रीकोङ्कुरः । तथा च क्षीराद्यवस्थासु यथोपदिष्टपक्षधर्मवद्
दध्यादिविषयं ज्ञानमिति स्वभावहेतुः । द्वितीयसाध्यापेक्षया व्यापकवि
रुद्धोप
45 लब्धिः । अन्यथा त्वन्तस्य भवत्येवातोयं हेतुरसिद्ध इति चेदाह ।
अन्यथा भावे
चेष्यमाणे तदेवो पलब्धिलक्षणप्राप्तं दध्यादि न स्यात्
4b1 प्राच्यरूपात् प्रच्यु
तेः ।
तथा च तद्रूपतायां निरन्वयविनास71प्रसङ्ग इति भावः । अपि चे
4b1त्यादिनोपचयमाह । यदयम्भावः । अजातोऽनष्टश्च रूपातिशयो
स्येति विग्रहः
। नित्यमेकत्वरूपत्वाद् द्रव्यान्तरेण व्यवधाने दूरदेशस्थितौ च भवे
युरपि प्रत्यक्षाप्रत्यक्षत्वादय इत्यत आह । अव्यवधानदूरस्थान
4b1 इति ।
न विद्यते व्यवधानदू
32b रस्थाने चास्येति विग्रहः । क्वचिदव्यवधानादूरस्थान
इति पठ्यते । तत्र व्यवधानदूरस्थानशब्दयोः प्रत्येकं नञा समासं कृत्वा पश्चाद्
विशेषणसमासः कार्यः । कञ्चित्पुरुषमपेक्ष्य कोपि प्रत्यक्षोऽन्यञ्चापेक्ष्य प्रत्यक्ष
इति न विरोध इत्याह । तस्यैव
4b2 । तस्याप्युन्मीलितलोचनाद्यवस्थायां
प्रत्यक्षोऽन्यदा चाप्रत्यक्ष इति न
काचित् क्षतिरित्याह । तदवस्थेन्द्रियादेरेव
4b2 तदवस्थमविकृतमिन्द्रियमस्येति विग्रहः । आदिग्रहणं मनस्काराद्याक्षेपाय ।
कदाचिदभिव्यक्तवेलायां
प्रत्यक्षो भवति कदाचिच्चानभिव्यक्तक्षीरादिवेला
यामप्रत्यक्षश्चेति येन प्रत्यक्षाप्रत्यक्षत्वेन कदाचिदनुमानस्योपलब्धिरशक्तादनुत्प
त्ते
रिति । कदाचित्तु व्यक्तावस्थायां प्रत्यक्षं । किं पुनरत्रायुक्तं । येनैवं ब्रूष
इति चेदाह । एकस्मिन्नेवानतिशये दध्यादावमीषां प्रकाराणाम्प्र
त्यक्षाप्रत्यक्षत्त्वा
दीनां विरोधादिति
4b2 । ये परस्परविरुद्धरूपा न तेषामेकत्रानतिशये सम्भवः ।
तद्यथा शीतोष्णस्पर्शादीनां । परस्परविरु
द्धाश्च प्रत्यक्षाप्रत्यक्षत्वादयः । इति
व्यापकविरुद्धोपलब्धिम्मन्यते ॥
परः प्राह ॥ नानतिशय
4b3 इति । एकस्याव्यक्तावस्थालक्षणस्या
तिशयस्य निवृत्याऽपर
स्य व्यक्तावस्थालक्षणस्योत्पत्या च क्षीरं दधीति
व्यवहारस्योपगमात् । अनेनाजातानष्टरूपातिशय इत्यादेरसिद्धत्वमाह । न
तावदयमतिशयो भवद्भिरति
शयवद् भावव्यतिरिक्तोऽभ्युपगतोऽभ्युपगमे
वा तदवस्थोऽनन्तराभिहितो दोषः स्यात्
33a
। तस्मादव्यतिरिक्त एवायं
तत्र चायन्दोष इत्यागूर्याह । सोतिशयो व्यवस्थालक्षणस्तस्यातिशयवतोऽवस्थातु
46 रात्मभूतोऽनन्वय इत्येकान्तेन निवर्त्तमानः । व्या
पकस्वभावात्प्रवर्त्तमानोऽसन्नेव
कथन्न स्वभावनानात्वं । सुखदुःखयोरिवाकर्षति । अन्वाकर्षत्येवेत्यर्थः ।प्रयोगो72पुनर्यो यस्या त्मभूतः
4b3 स तन्निवृ
त्तावेकान्तेन निवर्त्तते प्रवृ
त्तौ चासन्नेव प्रवर्त्तते यथा तस्यैवातिशयस्यात्मा । आत्मभूतश्चातिशयस्यातिशय
वानिति स्वभावहेतुः । ततश्च तयोरवस्थ
योरवस्थातुर्न्नानात्वं परस्परविरोधि
धर्माध्यासितत्वात् सुखदुःखवदिति स्वभावहेतुरेव । नैवासावतिशयोऽनन्वयः
प्रवर्त्तते निव
र्त्तते वाऽतः पूर्वस्मिन्प्रमाणे साध्यविकलत्वन्दृष्टान्तस्य । उत्तरत्र त्व
सिद्धिर्हेतोरिति चेदाह । सान्वयत्वेचा तिशयस्य निवृत्तिप्रवृत्योरं
गीक्रियमाणे
का कस्य निवृत्तिः प्रवृत्तिर्वेति
4b3 । नैव काचित्कस्यचिन्निवृत्तिः प्रवृतिर्वा ।
सर्व्वस्य सर्व्वदा सत्त्वात् । तथा च सर्व्वं सर्व्वत्र समुपयु
जे73तेत्यादिना
पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः । उपचयमाह । यदि च कस्यचित्
स्वभावस्यातिशयाख्यस्य प्रवृत्तिर्निवृत्तिर्वेति स्वयमभ्यनुज्ञायते
त्वया । एकाति
शयनिवृत्याऽपरातिशयोत्पत्या व्यवहारभेदोपगमादित्यविधानात् । तदेतदेव
परस्तथागतवचोऽभ्यासोपजातावदातमति
र्ब्रुवाणः । नानुमन्यते भद्रमुखेण74भवेदेवं यदि यथा मया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायेते तथा तेनापि ।
यावतास्य निरन्वयोपजननविनाशोपगमो मम
33b त्वाविर्भावतिरोभावमात्रन्तत्कथमिवा
नुमन्यत इति कदाचिद् ब्रूयात्पर इति तन्मतमाशङ्कते । तस्ये
4b4 त्यादिना ।
सदैव भवद्भिः शून्यहृदयैरयमन्वयो घोष्यते । तत्र वक्तव्यङ्कोयमन्वयो नाम
भावस्य जन्मविनाशयोरिति सत्त्यं एषा । परः प्राह ।
किमत्राभिधानीयं याव
ता शक्तिरन्वयो भावस्य जन्मविनाशयोरिति व
र्त्तते । कथम्पुनः सान्वय इत्याह ।
यतोस्त्येव प्रागपि जन्मनो निरोधादप्यूर्ध्वं
4b5 सा शक्तिरवस्थातृलक्षणा
येनैतदेवन्तेनायम्भावो नापूर्वः सन् सर्वथा जायते
अपि तु शक्तिरूपेण पूर्व्वं व्यवस्थित
एव केवलमाविर्भवतीति सर्व्वथाग्रहणेन ज्ञापयति । तथा न पूर्व्वो विनश्यत्येकान्ते
नापि तु तिरोभवति ।
असतो नास्त्युदयः सतश्च नास्ति विनाश इति यावत् ।
47 आचार्य आह । यदि सा शक्तिः सर्व्वदा
4b6 तिरोभावाविर्भावकालेऽ नतिशयाति
शय
रहिता एकरूपे ति यावत् । तदा किमिदानीं अतिशयवद्विद्यते । यतः
कुतोयं व्यवहारविभागः क्षीरन्दधितक्रमित्यादि । साङ्ख्य आह ।
अवस्था अति
शयवत्य
4b6 इति । ता
4b6 इत्याद्या चार्यः । विकल्पद्वयञ्च प्रकारान्तरा
सम्भवात्कृतं । न वाहरीकवादो युज्यते तत्स्वान्यत्वयोः परस्परपरिहारस्थि
ति
लक्षणतया तृतीयराशिव्यतिरेचकत्वात् । एकत्वे को दोष इति चेदाह ।
एकश्चे
त्तदा कथमिदमेकत्राविभक्ता त्मन्यविभक्तस्वरूपे योक्ष्यते
4b7 । व्यपेक्षया
भ
वेदपीत्याह । निष्पर्यायं किम्पुनस्तत्परस्परव्याहत इत्याह जन्म अवस्थानाम
जन्मशक्तेः । तथार्थक्रियायामुपयोगोऽवस्थानां शक्तस्त्वनुपयोग 4b7 इ
34a ति ।
प्रयोगाः पुनः । शक्तेरपि जन्मास्ति । अवस्थाभ्योऽव्यतिरेकात् । अवस्था
स्वरूपवत् । अवस्थानाम्वा न जन्म शक्तेरव्यतिरेकात् । शक्तिस्वरूपवत् ।
स्वभावहेतुविरुद्धव्याप्तो
पलब्धिः । एतेनैव प्रकारेणार्थक्रियोपयोगानुपयोगनिवृत्य
निवृत्यादिषु स्वभावहेतुविरुद्धव्याप्तोपलब्धयो योज्याः । आदिग्रहणेन पतनापतन
पोरपि परिग्रहः ।
पु
नरपि साङ्खीय म्मतमाशङ्कते । अस्ती त्या 4b8 दिना । केनचित्पर्या
येण अवस्थाशक्त्योरनन्यत्वम्परमार्थतस्तु भेद एव तेन जन्मादीनामविरोध इति ।
नूनम्भवतः स्वपक्षरक्षणा
कुलबुद्धेरात्मापि विस्मृतः । इत्याकूतवानाह । विस्मरण
शील
4b8 इत्यादि । यतोऽनन्यत्वपक्षेऽयन्दोषोस्माभिरुक्तोऽन्यत्वपक्षेत्वन्य
एव भविष्यति । कः पुनरसावन्य
इति तमेवदर्शयितुमुपक्रमते । अथाप्यनयोः
शक्त्यवस्थयोर्विभागोऽन्यत्वन्तदा न कश्चिद्विरोधः । केवलं सान्वयो भावस्य जन्म
विनासा75दिति न स्यात् । किं
कारणं । यस्मात् यस्यान्वयः शक्ति
त्वेनाभिमतस्य न तस्य जन्मविनाशौ नित्यमेकस्मिन्नेव स्वभावे व्यवस्थानात् । यस्य
48 वा ता उत्त्पादविनाशाववस्थात्वेनाभी
ष्टस्य न तस्यान्वयः । अपरापरावस्थो
दयास्तमयेनावस्थितरूपाभावात् । तयोः शक्तिव्यक्तयोरभेदाददोष इति कापिलः ।
अनुत्तर
4b10
मित्याद्याचार्यः । किमत्रायुज्यमा
नकं येनैवं वदसीत्याह । अभे
दो हि नामैक्यमुच्यते
4b10 । तौ शक्तिव्यक्तिभेदा वित्ययञ्च भेदाधिष्ठानो
न्यत्वनिबन्धनो व्यवहारो भाविक इति कल्पनाविरचितस्याप्रतिक्षे
पात् । किञ्च
निवृत्तिप्रादुर्भावयोः सतोरनिवृत्तिप्रादुर्भावौ तथा स्थितौ सत्यामस्थितिः । आदि
ग्रहणाद् गतावगतिरित्यादि योज्यं । एतद् भेदलक्षणङ्कथं योज्यते भ
34b वता । तथा
ह्यवस्थानिवृत्तिप्रादुर्भावाभ्यामनिवृत्तिप्रादुर्भाववत्याः शक्तेरभेदो नेष्यते त्वया ।
तथा शक्तेरवस्थानेपि नावस्थानामवस्थानं । न च शक्तेस्तासामन्यत्वमिष्टं
।
तस्मादेवं रूपं नानात्वमित्याह । एष हि निवृत्तिप्रादुर्भावयोरनिवृत्तिप्रादुर्भाव
5a1
इत्यादिभेदः । तथा हि यन्निवृत्यादिना न यस्य निवृत्यादयस्तत्तस्माद् भिन्नं यथा
ता
लतरुस्तमालादित्यतिप्रतीतमेतत् । एतद्विरहश्चाभेद इति यन्निवृत्या यस्य
निवृत्तिरित्यादि । ननु च भूतभौतिकचित्तचैत्तादीनाम्प्रतिनियतसहोत्पादनिरो
ध
स्थितीनामेतद्विद्यते । न च तेषामभेदस्तत् कथमुक्तमेतद्विरहश्चाभेद इति चेत् ।
न तेषाम्भिन्नोत्पादादिमत्वात् । यथाक्रममुदाहरणद्वयमाह । यथे
त्यादि । अन्य
थे 5a1 ति । यद्यनन्तरोक्तम्भेदाभेदलक्षणन्नाश्रीयते तदा भेदयोर्लक्षणा
भावात्कारणाद् भेदाभेदयोरव्यवस्था स्यात् । सर्व्वत्रेति सुखादीनाम्परस्परं
चैतन्या
नाञ्च । सुखादिभ्यश्चैतन्यानां अभेदः । सुखादीनाम्प्रत्येकम्भेदो न भवेदिति
यावत् । तदात्मनीत्यादिना परः स्वसमयप्रतीतम्भेदाभेदयोर्लक्षण
माह । तेना
49 विरोध
5a3 इति जन्माजन्मादीनां । अनन्तरोक्तस्य वा । न वै मृदात्मनीत्या
दिना मृप्तिण्डघटयोराधाराधेयभावं प्रतिक्षिपति’ । किन्तर्हि मृदात्मैव कश्चित्
विशिष्टग्रीवादिसन्निवेशावच्छिन्नो घट इत्यभीधीयते । नन्वेकमेव मृद्द्रव्यं सर्व्वत्र
तत्कथमिदमभिहितमित्यत आह । नहि एकस्त्रैलोक्यमृदात्मे
5a3 ति । कुतः
प्रतिविज्ञ
प्तिप्रतिभासभेदन्द्रव्यस्वभावभेदादिति सम्बन्धः । अन्योन्यभिन्नानामेव
द्रव्याणाम्विज्ञाने प्रतिभासनादित्यर्थः । तथा प्रत्यवस्थाभेदभिन्नावस्थत्वात् ।
प्रत्यर्थ
35a क्रियाभेदं चाश्रित्य द्रव्यस्वभावभेदात् । परस्परासम्भविकार्यकारणा-
दिति यावत् । परस्यापि सत्वरजस्तमश्चैतन्येषु भेदाभ्युपगम इदमेव कारणं
युक्तमिति कथय
न् नाह । एवं हीति
5a4 । यदि प्रतिविज्ञप्तिप्रतिभास
भेदादिना भेद इष्यते । चैतन्येषु चेति बहुवचनं बहवः पुमांस इति सिद्धान्तात् । यद्येव
मिति प्रतिविज्ञप्ति प्र
तिभासभेदादिना । पुनरप्याह । सत्यप्येतस्मिन् प्रतिविज्ञप्ति
प्रतिभासभेदादौ कस्यचि दात्मन
5a4 इति शक्तेरनुगमादैक्यमवस्थानामिति ।
आचार्य आह । यद्ये
वं सुखादिष्वप्ययमेवाभेदप्रसङ् गश्चैतन्येषु च । सुखादिष्वपि
हि गुणत्वाद् भोक्तृत्वकर्त्तृत्वादीनामनुगमाच्चैतन्येषु च भोक्तृत्वाकर्त्तृत्वागुण
त्वादी
नान्तथा सुखादि चैतन्येषु सत्वज्ञेयत्वादीनामन्वयादित्यभिप्रायः । प्रयोगो76
पुनरभिन्नाः पुरुषसुखादयः परस्परमन्वयान्वयभाक्त्वात् । श
क्तिव्यक्तिवत् । शक्ति
व्यक्ती वा भिन्नेऽन्वयोनन्वयभाक्त्वादेव । सुखादिचैतन्यवदिति स्वभावहेतुः ।
अथापि स्याद्यत्र सर्व्वात्मनैवान्वयस्तत्राभेदो न
तु यत्र केनचिद्रूपेण । घटादिषु च
सर्व्वात्मनान्वयस्ततोयमदोष इत्यत आह । न च घटादिष्वपि सर्व्वात्मनान्वयो
5a5 पि तु केनचिद्रूपेणेति न केवलं सुखादि
ष्वित्यपि शब्दः । कुतोऽवैश्वरूप्य
सहोत्पादादिप्रसङ्गात् । तथाहि सर्व्वासामवस्थानां सर्व्वप्रकारेणान्वये सत्यैक्य
म्प्राप्नोति । ततश्च विशिष्टरूपरसगन्धश
वीर्यविपाकाभावात् ।
वैचित्र्यन्न भवेत् । एवञ्च पञ्चभूताभावप्रसङ्गोऽध्यक्षादिवाधाप्रसं
35b गश्चेति
भावः । सहोत्पत्तिश्च सर्व्वासामवस्थानाम्प्रसज्यते । आदिशब्देन ह्यनिरो
धार्थक्रियाव्यापारविकारादय
उपादीयन्ते । प्रयोगाः पुनर्यद्विशिष्टरूपरसगन्ध
50 शब्दादिभिरनेकप्रकारं न भवति । न तस्य वैश्वरूप्यमस्ति । यथैकस्य सुखाद्या
त्मनः । तथा सति 77 मताना
मप्यवस्थानामनन्तरोक्तो धर्मो नास्ति न चासिद्धो
हेतुर्यतो यद्यस्मान्न व्यतिरिच्यते न तद्विशिष्टरूपादिभिरनेकप्रकारं यथा तस्यै
वात्मा । न व्यतिरिच्यन्ते चा
वस्था अभीष्टा इति व्यापकविरुद्धोपलब्धी । तथा
यद्यस्मादपृथग्भूतं तत्तदुत्पादादिभिरुत्पादादिमत् । यथा तस्यैव स्वरूपं । अपृथग्भू
ताश्चा
भिमता अवस्थास्ताभ्योऽन्यस्या इति स्वभावहेतुः । अन्यथा घटोयमित्यन
न्यत्वमेवायुक्तं । नामान्तरम्वा अर्थभेदमभ्युपगम्य तथाभिधाना
त् । उपचयमाह ।
न च घटं मृदात्मानञ्च कश्चिद 5a5 त्यर्थ मुन्मीलितलोचनोप्ययं घटोयं च
मृदात्मेति विवेकेनोपलक्षयति । येनैवं स्यादिदमि
ह प्रादुर्भूतमिति तदनेनाभेदलक्षण
मत्यन्तासम्बद्धमेवेत्याह । ननु च पिण्डरूपात्मृदात्मनो घटस्य विवेकेनोपलक्षणमस्त्येव
तक्तिमेवमुक्तमिति चे
त् । सत्यमस्ति । न तु घटाद् भिन्नन्तं परोभिमन्यत इत्यभि
प्रायाददोषः । यदि नाम भेदेनानुपलक्षणन्तयोस्तथापि कस्मादेवं न स्यादिति चेदाह ॥
नह्यधि
ष्ठानाधिष्ठानिनोराधाराधेययोः कुण्डेवदरयोर्विवेकेनानुनपलक्षणे सत्ये
वम्भवतीदमिह प्रादूर्भूतमिति
4a6 । तदनेन घटमृदात्मनोराधाराधेयभावो
36a नास्ति विवेकेनानुपलक्षणात्सत्वादितत्स्वभावयोरेवेति व्यापकानुपलब्धिं मन्यते ।
अधुना यद्यस्मिन्प्रादुर्भवति तत्ततोऽभिन्नमित्यस्याभेदलक्षणस्याव्या
पितासा78
चिख्यासुराह । न च शक्त्यात्मनि प्रादुर्भावस्तस्या नित्यमवस्थानाभ्युपगमात् ॥
अन्यथावस्थैव सा स्यात् । तथा च तस्याः स्वात्मनःसकासा79दभ्यु
पेतो
ऽभेदो न स्यात् । अभेदलक्षणाभावात् उपलक्षणञ्चैतद्व्यक्तौ सुखादिषु पुरुषेषु च
तुल्यदोषत्वात् । अन्ये तु स्वदर्शनापराधमलीमसधियः
केचित् सांख्या एवमाहुः ।
यो यस्य परिणामस्स तस्मादभिन्नः । तद्यथा हेम्नः कुण्डलाद्यवस्थाविशेष इति
तेप्यनेनैव पूर्व्वस्याभेदलक्षण
स्याव्यापिताप्रदर्शनेनापहस्तिता इति चेतस्या
रोप्याह । एतेनैवे
5a6 त्यादि । युष्मद्दर्शनपरिणामोपि न युक्त इत्यभिप्रायवा
नपक्षेप
ङ्करोति । किञ्चेद
5a7 मित्यादिना । परेणापि किमत्र वक्तव्यं यावता
51 भगवता कपिलेन स्पष्टमिदमुक्तमित्यभिसन्धायाह । अवस्थितस्य
द्रव्यस्य यथा
काञ्चनस्य धर्मान्तरस्य केयूरस्य निवृत्तिः । धर्मान्तरस्य च कुण्डलादेः प्रादुर्भावः
परिणाम इति । आचार्यस्तस्यैव तावदिदमीदृशं
प्रज्ञास्खलितङ्कथं वृत्तमिति सवि
स्मयानुकंपन्नश्चेतः । तदपरेप्यनुवदन्तीति निर्दयाक्रान्तभुवनं दिग्व्यापकन्तमः । कः
प्राणिनो हितेच्छा विपुलत्व
स्यापराध इति मन्यमानः प्राह ।
ननु यदि नाम तेनैवमुक्तं । भवद्भिस्तु निभालनीयमेतत् यत्तद्धर्मान्तरं
कुण्डादिकं निवर्त्तते प्रादुर्भवति च किं त
36b देवावस्थितं काञ्चनद्रव्यं स्यात्ततोर्था-
न्तरम्वेति । कस्माद्विकल्पद्वयमेव कृतमितिचेदाह ।
अन्यविकल्पाभावात्
5a8 । निर्ग्रन्थवाद स्यायोगादित्यभिसन्धिः । यद्याद्यो
विकल्पस्तदा को
दोष इति चेदाह । यदि तद्धर्मान्तरन्तदेवावस्थितं द्रव्यं 5a8 । तदा तस्याव
स्थानान्न निवृत्तिप्रादुर्भावावाविर्भावतिरोभावलक्षणाविति त
स्मात्कस्य
ताविति वक्तव्यम्भवद्भिः । प्रयोगो80 पुनः यस्यावस्थानं न तस्य
निवृत्तिप्रादुर्भावौ । यथावस्थातुर्द्रव्यस्य । तथा चावस्थानन्तस्य धर्मा
न्तर
स्येति व्यापकविरुद्धोपलब्धिः । न चासिद्धो हेतुर्यतो यदवस्थातुरनन्यत्तस्या
वस्थानं यथा तत्स्वरूपस्यैव । अनन्यच्चैतद्धर्मान्तरं तस्मा
दिति स्वभावहेतुः
किञ्च यद्यवस्थितमेव द्रव्यं तद्धर्मान्तरं तदावस्थितस्य द्रव्यस्य धर्मान्तरमिति ।
वचनं सिध्यति ॥ किङ्कारणमित्याह । न
हि तदेव तस्य धर्मान्तरम्भवती
5a9
ति भवत्येव तदेव तस्य धर्मान्तरं यथा कृतकत्वं शब्दस्याव्यतिरिक्तमपि तस्मादिति
चेदाह । अनपाश्रितव्य
पेक्षाभेदं
5a9 । एतदुक्तम्भवति । अत्र हि स एव
सब्दो81ऽकृतकादिभ्योव्यावृत्तत्त्वात् तद्व्यावृत्त्यपेक्षया तन्मात्रजिज्ञासायां
प्रतिक्षिप्तभेदान्तरेण शब्देन धर्मत्वे
न व्यपदिस्यते82इह तु पुनर्व्य
पेक्षाभेदोपि नास्ति तत्कथन्तदेव तस्य धर्मान्तरम्भविष्यतीति ।
धर्मस्य द्रव्यादर्थान्तरपक्षे तर्हि को दोष इत्याह ॥ अथेत्या
5a9
दि ॥ कस्मा
द्धर्मनिवृत्तिप्रादुर्भावाभ्यां न द्रव्यस्य परिणामो यस्मान् न ह्यर्थान्तरगताभ्यां निवृ
52 त्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिर्भवति । तदेव कुतश्चैत
37a न्येपि परिणतेः प्रसङ्
गात् । न च चैतन्यस्य परिणतिरिष्यते । प्रधानपुरुषयोरैक्यापत्तेरकर्तृता चेति वच
नात् । प्रयोगः पुनः । यद्यतोर्थान्तरन्न तद्गताभ्यां निवृ
त्तिप्रादुर्भावाभ्यां तस्य परि
णतिः । तद्यथा चैतन्यभिन्नस्वभावस्याङ्कुरस्य निवृत्तिप्रादुर्भावाभ्यां चैतन्यस्य धर्मान्त
रञ्च द्रव्यादिति व्यापकविरुद्धोपलब्धिः । भवे
देतन्न यस्य कस्यचिदर्थान्तरस्या
सम्बद्धस्यापि निवृत्तिप्रादुर्भावाभ्यामन्यस्य परिणतिरपि कुतः चासम्बद्धस्यैव ।
यथा तस्यैवाङ्कुरस्य बीजसम्बद्धस्य निवृत्तिप्रादुर्भावाभ्याम्बी
जस्य तेन सामान्येन
साधने सिद्धसाधनं । धर्मस्य द्रव्यसम्बन्धात् तद्विशेषेण तु साधनविकलता
निदर्शनस्य । अङ्कुरस्य चैतन्येन सह सम्बन्धाभावादिति
चेदाह । द्रव्यस्य धर्म
इति 5a10 व्यपदेशो न सिध्यति
5a10 । कुतः सम्बन्धाभावात् । एवं
मन्यते द्रव्यसम्बन्धोयं धर्म इत्येतदेव न विद्यते । तत् कुतो व्यावृत्ति
प्रसङ्गस्येति ।
अस्त्येव तर्हि द्रव्यधर्मयोराधाराधेयभावलक्षणस्सम्बन्धस्ततश्च सविशेषणेपि हेतौ
असिद्धिरित्यत आह । नहि कार्यकारणभा
वादन्यो वस्तुभूतः सम्बन्धोस्ती
5b1
ति । आधाराधेयभावोऽपि कार्यकारणभावविशेषादेव व्यवस्थाप्यते । यथा निर्णीतमा
धारतोभिनिवृत्तेरात्मनस्तादृ
शो नु83...यः कार्यन्तस्येत्यत्र प्रकरणे प्रमाणविनिश्चय
इत्यभिप्रायः । अस्तु तर्हि कार्यकारणभावस्तयोरिति चेदाह । न चानयोर्द्रव्यधर्मयोः
कार्यकारणभाव
5b1 इति । कुतः स्वयमतदात्मनोऽतत्कारणत्वात् । यद्धि यत्स्व
भावं न भवति न तत्तत्कारणतया भवद्भिरभ्युपेयं यथा रजस्तमसः । तथा चेदमपि
द्रव्यधर्मस्स्वभावो
37b भवति तत्कथमिव तस्य कारणत्वमुपेयादिति व्यापकानुपलब्धि
प्रसङ्गं मन्यते । न चायमसिद्धो हेतुरिति मन्तव्यं । अर्थाभावपक्षं समाश्रित्य दोषा
भिधानस्य प्रकृत
त्त्वात् । यदाह । धर्मस्य द्रव्यादर्थान्तरत्वं 5b1 स्यादिति । अथा
प्यस्मद्वैफल्ये स्यात् पूर्व्वकान् कापिलानतिपत्य साङ्ख्यानां शकमाधववत् ।
द्रव्यस्य व्यतिरेकेपि धर्मकार
णत्वमिष्यते तदापि ब्रूम इत्याह । अर्थान्तरत्त्वेपि द्रव्यस्य
धर्मकारणत्वे ऽङ्गीक्रिय माणेऽर्थान्तरस्य कार्यस्योत्पादनात्
5b2 कारणात् । द्रव्यस्य
53
परिणाम इतीष्टं स्या
5b2 द् भवता ततः किं स्यात् इत्याह ।
तद्विरुद्धस्यापि तथा
गता नुसारिणः । किङ्कारणन्तेनापि हेतुफलसंतानं मृद्द्रव्याख्ये पूर्व्वकात् मृप्तिण्डा
त्कारणभूता
दुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ सत्यां मृद्द्रव्यं परिणतमिति व्यवहार
भेदस्योपगमात्
5b3 कारणात् । स्यात् मतं । यदि नाम प्रकारद्वयेनापि परि
णामो
न युज्यते प्रकारान्तरेण तु भविष्यतीत्येतदाह । न चे
5b3 त्यादि ।
तस्मादुभयथापि न परिणाम इत्युपसंहारः । न निर्विवेकं निर्विशेषं द्रव्यमेव
5b3 परो ना
पि द्रव्यादर्थान्तर मेकान्तेनैव किन्तर्हि द्रव्यसन्निवेशोऽवस्था
न्त रन्नान्यः यथाङ्गुलीनां सन्निवेशोऽवस्थान्तरम्मुष्टिः । यथाङ्गुलीनां सन्निवेशो
ऽवस्थान्तरन्तत्वान्यत्वाभ्यामनिर्वचनीयम्मुष्टिः कस्माद्धेतोर्न ह्यङ्गुल्य
एव
निर्विवेका मुष्टिः । कुतः प्रसारितानाममुष्टित्वात्
5b4 । अन्यथा प्रसारिता
नामपि विशेषाभावात् मुष्ट्यवस्थायामिव मुष्टित्त्वप्रसङ्ग इति । अभावहेतुकाले
रूप
कः । नाप्यर्थान्तरं मुष्टिरङ्गुलिव्यतिरेकेणाप्रतिहतकारणेन प्रयत्नवतापि
मुष्टेरनुपलब्धेरिति । कदाचि त्कापिला एवं ब्रूयुरिति तन्मतं शङ्कते ।
न निर्वि
वेक
38a मित्यादिना । गतार्थमेतद् । नहि मुष्टेरङ्गुलिविशेषत्वादि
5b5 ति परिह-
रति । असक्ताङ्गुल्य एव च निर्विवेका मुष्टिरिति कथयन् दृष्टान्तायोगमाह । अतोपि
यदुत ।
प्रसारितानाममुष्टित्वादिति तदप्ययुक्तमेव । किङ्कारणं । यतोङ्गु ल्य
एव हि विशिष्टहेतुप्रत्ययबलेन तथोत्पन्ना काश्चन मुष्टिर्न्न तु सर्वाः । तदेव कुत
इत्याह
। न प्रसारिता अङ्गुल्यो निर्विवेकस्वभावा मुष्ट्यङ्गुल्यश्चेति
। च शब्दोत्र
लुप्तनिर्दिष्टो ज्ञेयः । अथवा मुष्ट्यात्मिका अङ्गुल्यः प्रसारिताः सत्यो नहि निर्विशिष्ट
रूपा इ
ति व्याख्येयं । कस्मात् । अवस्थादूयेपि प्रसारिताप्रसारितरूपे । उभयोर
प्रसारितप्रसारितावस्थयोर्यथाक्रमं प्रतिपत्तिप्रसङ्गात्
5b5 । प्रयोगः पुनः ।
प्रसारितावस्थायामप्रसारितावस्थायाः प्रतिपत्तिर्भवेत् अङ्गुलीनां विवेकाभा
54 वात् । अप्रसारितावस्थायामिव स्वभावहे
तुः । एवमप्रसारितावस्थायां प्रसारिता
वस्थायां तत्प्रति
पत्तिः स्यादित्यपरो योज्यः । यत्तूभयस्येति व्यापकानुपलब्धिः
योज्या । अथाऽ
पि कथञ्चित्कश्चिद्विवेको स्थितयोरवस्थयोस्तदा स विवेकश्चा
सामङ्गुलीनां स्वभावभूतो वा भवेन्नवेति विकल्पद्वयं । प्रथमे तावद् दोषमाह । य
एव खलु विवेकः स्व
भावभूतः । स एव स्वभेदलक्षणं सुखदुःखवदिति
5b6 ।
द्वितीयेप्याह । परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन्
5b6
मुष्ट्यवस्थायामपीति शेषः
। किमिति । यतो नहि स्वभावादप्रच्युतस्यार्थान्तरो
त्पादे सत्यन्यथोपलब्धिर्भवत्यतिप्रसङ्गात् । उष्ट्रस्याप्यर्थान्तरस्य कलभस्योत्पादे
ऽत्यथोपलब्धिः स्या
38b दित्यतिप्रसङ्गो वक्तव्यः । प्रयोगः पुनः । यत्रस्वस्यात्म
भावादप्रच्युतं न तस्यार्थान्तरोत्पादेपि अन्यथोपलब्धिः । यथोष्ट्रस्य कलभ
प्रादुर्भावे । अप्रच्युताश्च स्व
स्मात्स्वभावादङ्गुल्यो विवेकोत्पादेपीति विधि
प्रतिषेधाभ्यां हेत्ववकल्पनायां कारणविरुद्धकारणानुपलब्धी । नन्वित्यादि
परः । तत्वान्यत्वाभ्यामनिर्वचनीयं तदुक्तमिति वाक्यार्थः । उक्तमेतन्न पुनर्युक्त
मित्या चार्यः । कथमयुक्तमित्याह । नहि सतो वस्तुनस्तत्त्वान्यत्वे मुक्त्वान्यःप्रकारः
सम्भवती
5b7 ति सद्वस्तुग्रहणं कल्प
नाशिल्पोपरिचतस्यान्यापोहादेः सम्भव
तीति प्रतिपादनाय । कुत इत्याह । तयोरि
5b8 त्यादि । प्रयोगः पुनः । यौ परस्पर
परिहारस्थितलक्षणौ
तयोरेकत्यागोऽपरोपादाननान्तरीयकः । एकोपादानञ्चा
परत्यागनान्तरीयकं तद्यथा भावाभावौ । यथोक्तधर्मवन्तौ च तत्वान्यत्व
प्रकारावि
ति स्वभावहेतुः । नन्वङ्गुलीभ्यो मुष्टेस्तत्वान्यत्वप्रकारौ मुक्त्त्वाप्य
न्यः प्रकारः संभवत्येव । न ह्यङ्गुल्य एव मुष्टिः प्रसारितानाममुष्टित्वात् । नाप्य
र्थान्तरं पृथक्स्वभावानुपलब्धेरिति चेदाह । अङ्गुलीषु पुनरि
5b8
त्यादि । प्रतिक्षणं विनाशो विद्यते यासां इति विग्रहः । ता एव क्षणिकत्वात्
तथाविधा जाय
न्ते येन मुष्ट्यादिवाच्या भवन्तीत्यर्थः ॥ तदेतच्च वस्तुतो न
55 मुष्टेरङ्गुलिविशेषादित्यत्रोक्तमपि प्रसङ्गात् युक्तमुक्तमित्यवसेयं । अन्यथा कि
मनेन यद्ये
वं कथन्तर्हि मुष्टिरङ्गुलीति च व्यपदेशभेद इत्यत आह । तत्र मुष्ट्यादि
शब्दा विशिष्टविषया
5b9 विशिष्टावस्थानामेवाङ्गुलीनां वाचकत्वात् ।
अङ्गुलीशब्दस्तु सामा
39a न्यशब्दः सर्व्वावस्थानां तासामभिधायकत्वात् । यथाक्रम-
मुदाहरणद्वयमाह । वीजाङ्कुरादिशब्दवद् ब्रीह्यादिशब्दवच्चे
5b9 ति । एवं
शकलीकृतसकलपरपक्षः कु
चोद्यशेषं परोपन्यस्तं परिजिहीषुः । परमुखेन चोद्य
मुपस्थापयति ।
तद्यदीत्या
5b9 दिना । इदमस्याकूतं यथा हि तिलेष्वविद्यमानं
घृतं । तथा तैलमपि
। तद्यदि प्रागसदेव कारणे कार्यमुत्पद्यते तथा घृतस्यापि तिलेभ्य
उत्पत्तिः स्यात् । असत्वात् तैलवत् । न वा तैलस्यापि तत एव घृतवत् । नहि असत्ये
कश्चिद् वि
शेष इति स्वभावहेतुव्यापकानुपलब्धित्वेनाभिमतयोर्व्याप्यव्यापकभाव
प्रसाधनप्रकार एषः ।
तदेतत् सर्वंमभ्यवधाय कृत्योत्थापनम्भवत इ
ति मन्यमानः प्राह । ननु सर्व्वत्र
सर्व्वस्यासत्वेप्ययन्तुल्यो दोषः
5b10 । नहि सत्वे कश्चिद्विशेष इतिप्रयोगो84पुनस्तावेव सत्वादिति हेतुविपर्ययं
कृत्वा कार्यौ । अथापि कश्चिद्वि
शेषोस्ति तेन सत्वेपि न सर्व्वं सर्वस्मात् जायते तेन संदिग्धविपक्षव्यावृत्तिकत्वं
प्रमाणयोरिति चेदाह । विशेषे चाऽ
भ्युपगम्य माने सविशेषस्त्रैगुण्यात् सत्वर
जस्तमोरूपाद् भिन्नः स्यात् । कस्मात्तस्य त्रैगुण्यस्य भावेपि विशेषस्याननुवृत्तेः
कारणात् । प्रयोगः पुनः । यद्भावेपि
यन्नानुवर्त्तते तत्तस्मादत्यन्तं भिन्नं । यथा
शब्दस्पर्शरूपरसगन्धेभ्यश्चैतन्यन्नानुवर्त्तते च विशेषस्त्रैगुण्यभावेपीति स्वभावहेतुः ।
एतच्चाभ्युपगम्योद्ग्राहितं
। अधुना सत्कार्यवादे जन्मार्थ एव न युक्त इत्याह ।
सतश्चे
5b10 त्यादि । नैव तस्य चासत्वेनाभिमतस्य जन्मास्ति । सत्वात् ।
निष्पन्नावस्थायामिवेति विरुद्धव्याप्तोपलब्धिरस्य
39b मनसि वर्त्तते । अन्यथा
पुनर्जातस्यापि पुनर्जातिः प्रसज्यत इत्यनवस्था स्यात् । यदाह ।
56
किञ्च साधनानां कारणानाम्बीजतेजोजलादी
नां वैफल्यं प्रसज्येत साध्यस्य
कर्त्तव्यस्य कस्यचिद्रूपस्याभावादिति प्रयोगः । यत्र साध्यन्न किञ्चिदप्यस्ति तत्र
साधनसाफल्यं विद्यते यथा नभस्यनाधेयातिशये । न च साध्यङ्कि
ञ्चि
दप्यस्ति कारणे व्यवस्थिते सति कार्यं इति व्यापकानुपलब्धिः । न चायमसिद्धो
हेतुरिति मन्तव्यं । यस्माद् यस्य कस्यचिदतिशयस्य तत्र कारणे स्थिते कार्ये कथञ्चि
दुत्पत्ता
विष्यमाणायां सोतिशयस्तत्रासन् कथञ्जायेत नैव जायेतासत्वात् ।
व्योमोत्पलमिव दुग्ध इति व्यापकानुपलब्धिरस्य चेतसि स्थिता । अथासन्नप्यति
शयो जा
यते । तदा जातौ वा तस्यासतोपि सर्व्वोतिशयः सर्व्वस्माज्जायेतेति तुल्यः
पर्यनुयोग इति । भवतोपि घृतातिशयोपि तिलेभ्य उत्पद्येतासत्वात् । तेनाति
शयवदित्यर्थः । स्वभावहेतुप्रसङ्गः । परमतमाशङ्कते । नातिशयस्तत्रे
6a2
त्यादिना । यथा नास्ति स कथन्तत्रासन् प्रकारो जायेतेति प्रक्षिपति । जातो
वा
सर्व्वः सर्व्वस्माज्जायेतेति तुल्यः पर्यनुयोग इति पूर्वोक्तो दोषो न युज्यत
इत्यभिप्रायः । सर्वप्रकारेणैव तर्हि निष्पन्नरूपातिशयोस्तीति चेदाह ।
न चेत्यादि
।
एवन्तावत्सदसत्कार्यवादिनोः सर्व्वस्मात्सर्व्वस्योत्पत्तिदोषस्तुल्य इति प्रतिपादितं ।
न च तयोरपि तुल्यञ्चोद्यन्न तदेको वक्तुमर्हति । सत्कार्यवादे च न
कश्चिज्ज
न्मार्थ इति प्रसाधितं तेनायमस्तीत्यधिको दोषः । तदेवङ्कदाचित्परोऽभिदध्यान्ननु भो
यदि नाम मयैतन्न परिहृतं भवता त्ववस्यं85स्थितेः किञ्चित् स्वपक्षस्य रक्षणाय
40a
वाच्यं । नहि परस्य पक्षं दूषयता स्वपक्षस्थितिरनवद्या लभ्यते । न भवति नित्यः
शब्दो मूर्त्तत्वात् । सुखादिभिर्व्यभिचारेणेत्यादावनित्यत्वा
सिद्धवदित्यत आह ।
असतोपि कार्यस्य कारणादुत्पादे यो यज्जननस्वभावस्तत एव तस्य जन्म जन्म नान्य
स्मादिति नियम
6a3 इति । अपि शब्दः सम्भावनायां । इदं अत्रा
र्थतत्व
मविद्यमानमपि तैलं तिलेभ्य एवोत्पद्यते । तदुत्पादनशक्तियुक्तत्वात् तिलानां
नान्यस्मात् तज्जननशक्तिविकलत्वात्तस्य । शक्तिप्रतिनियम एव च कथमि
ति च
पर्यनुयोगे वस्तुस्वभावैरुत्तरं वाच्यं । य एवम्भवन्ति यथा वा तथैव प्रधाना
57 न्महान् एव जायते नाहङ्कारो महतो ऽहङ्कारो न पञ्चतन्मात्राणीत्या
दि प्रक्रिया ।
तत्र च भवतः शक्तिप्रतिनियमावलम्बनमेवसरणं86। अन्यस्य
परिहारोपायस्याभावात् । तदेतच्च न ममापि काकेन भक्षितं । तेन
यदुक्तन्न
ह्यसत्वे कश्चिद् विशेष इति तदयुक्तिमत् । कारणसामर्थ्यासामर्थ्यकृतत्वात्
कार्योत्पत्यनुत्पत्योः । तस्मात् पुरोनुक्रान्तयोः प्रमाणयोः सन्दिग्धवि
पक्षव्यावृत्ति
कत्वसाधनकलङ्काङ्कितो हेतुरिति । भवेदेतत्तस्यापि हेतो ः तज्जनन
स्वभावनियमः । कुतो जात इत्यत आह । तस्यापि स स्वभावनियमः । स्वहेतो
रिति 6a4 । तस्यापि स कुत इति चेदाह । इत्येवमनादिभावस्वभावनियम
इति । न विद्यते आदिरस्येति विग्रहः अनादित्वाभ्युपगमाद्धेतुफलप्रकृति
परं
पराया नानवस्थादोषो लघीयसीमपि क्षतिमावहत्यन्यथाऽदौ कल्प्यमाने
तस्याहेतुकत्वप्रसङ्गस्तेनास्थान एवेयमाशङ्का भवत इति भावः । अथवान्यथा
ऽ
40b यङ्ग्रन्थो व्याख्यायते । निष्पर्यायेणासन्नेव तर्ह्यतिशयो जायते । न च
सर्व्वं सर्व्वस्माज्जायेतेति पर्यनुयोज्यं । यो यज्जननस्वभावस्तत एव तस्यातिशयो
त्पत्तिरिति शक्तिनियमसमाश्रयादिति कदाचित्स्वसिद्धान्तमनादृत्यापि परोभि
दधात्याशङ्कायां न ममाप्येतच्छक्तिप्रतिनियमावलम्वनङ्केनचिद्दण्डेन निवारित
मित्यागूर्याह । असतोपी
6a3 त्यादि । पदवि
भागस्तु पूर्ववत् ।प्रयोगो87पुनर्यस्य यज्जननाय समर्थं कारणमस्ति सोसन्नपि जायत एव यथातिशय
विशेषः । तज्जननाय समर्थङ्कारणमस्ति च कार्यविशेषस्येति
स्वभावहेतुः ।
तथा यो यत्राविद्यमानतज्जननसमर्थकारणः स तत्रासत्वेपि नोदेति । यथा
तिलेषु घृतातिशयस्तथा चाविद्यमानतज्जननसमर्थकारणः
कार्यविशेषः कारण
विशेष इति व्यापकानुपलब्धिः । अपरः पर्य्यायः । साधनस्य लिङ्गस्य ।
इत्येवमादेर्वैफल्यं । साध्यस्य कर्तव्यस्य कस्यचित्संशयविपर्यासव्यवच्छेदस्य
निश्चयप्रत्ययजन्मनश्चाभावात् । सर्व्वं हि
साधनं विवादपदे वस्तुनि संशय
विपर्यासावपनयन्तद्विषयन्निश्चयप्रत्ययमुत्पादयद्विभर्त्ति नामानुरूपं न द्वयमप्येतत्
कापिलमते सम्भवति । सदावस्थितस्य का
र्यस्य हान्युपजननायोगात् । अथ
58 सन्नप्ययं निश्चयः साधनवचनादनभिव्यक्तं । पूर्व्वमभिव्यक्तिमुपयात्यतो न
वैफल्यमिति मतमत आह । यस्य कस्यचिदतिसय89
स्या 6a1 भि
व्यक्तिलक्षणस्य तत्र साध्ये निश्चयरूपे कथञ्चिदसत उत्पत्तौ प्राप्तात्साधनात्
सोऽतिशयस्तत्रासन्
41a कथञ्जायते । जातो वा सर्व्वातिशयः । समस्तसाध्य
निश्चयाभिव्यक्तिलक्षणः सर्व्वस्मादन्यसाधनात् साधनाभासात् वोत्पद्येतेति तुल्यः
प्रसङ्गः । पावकादिप्रतिपत्तिहेतवो
धूमादयः सत्कार्यविनिश्चयाद्यभिव्यक्तिङ्कुर्यु
रित्यर्थः । उत्पत्त्य चाभिव्यक्तिमेतदुच्यते । नत्वियमविकृतरूपेषु कृतास्पदा सा
हि तत्स्वरूपलक्षणा तद्विषयज्ञानलक्ष
णा । रूपान्तरप्रादुर्भावलक्षणाभावा भवेत्स्वरूपं
तावत् अविकार्यमिति न साधनैरन्यैर्वा कर्तुं शक्यते । विकारे वा पूर्व्वस्वभाववानिव
पूर्व्वरूपप्रादुर्भावश्चेत्यसत्कार्य
वाद एव समर्थितः पूर्वापररूपत्यागावाप्तिलक्षण
त्वात् विकारस्य । चैतन्यस्यैकत्वादपरस्तद्विषयः प्रत्ययो न भवति परस्येति
तद्रूपाभि
व्यक्तिरनुपपन्ना । रूपान्तरप्रादुर्भावे च नान्यस्य किंचिदप्युपजायते
विलक्षणत्वादिति तृतीयापि व्यक्तिरसम्भविनी द्वितीयायामप्ययमनिवारितो
दोषः ।
तद्विषयप्रत्ययोदयेप्यर्थान्तरस्याभूतभाववैपरीत्यस्य व्यक्तेरयोगात् । न चानुप
कारकः प्रत्ययस्य विषयः सम्भवी । तदुपकारकत्वे वा त
स्मादेवास्योत्पत्तिरिति
लिङ्गानपेक्षा । स्वत एव साध्यनिश्चयोस्याभिव्यक्तिरिति प्राप्तं । साधनापेक्षादेव
साध्यनिश्चयात् स्वविषयज्ञानोत्पादेनैवापेक्षातिश
योत्पत्तिलक्षणास्थिरेषु लब्धा
स्पदेति प्रतिपादितं सर्व्वदा वा भवेत् । लिङ्गस्यापि सदा सन्निहितरूपत्वात् ।
लिङ्गज्ञानापेक्षायामपि तुल्यः । तस्यापि सत्वे वादिनः स
र्व्वकालास्तित्वादिति ।
अपि चेत्यादिना सत्कार्यवादनिराकरणे कारणान्तरमाह । तदवस्थाया मिति
6a4 । मृत्पिण्डावस्थायां पश्चाद्वदभिव्यक्तावस्थायामिव तदर्थक्रियेति
41b घट
साध्योदकधारणविशेषाद्यर्थक्रिया । व्यक्तेरविशिष्टसंस्थानाया अप्रादुर्भावादिति
चेत् । परमतासङ्का90तस्या एवेत्यादि प्रतिविधानं । एतदुक्तम्भवति ।
ग्रीवादिसन्निवे
शविशेषावच्छिन्न एषोर्थक्रियाविशेषकारी कश्चित् मृद्विकारो
घट इत्युच्यते नान्यः । स चेत् प्रागपि मृप्तिण्डावस्थायामपि तदाव्यक्तावस्थायामिव
तदर्थक्रियोपल्ब्धौ स्या
तां । न च भवतस्तस्मान्नास्त्येवासाविति निश्चयः समाधी
59 यतां किमलीकनिर्बन्धेनेति । अवस्थातुर्भावादसावप्यस्तीति चेदाह । नहि रूपान्त
रस्य भावे रूपान्तरमस्ति
6a5 ।
पीत इव नीलमिति विरुद्धव्याप्तोपलब्धिरा
कूता । न चावस्थावस्थात्रोरभेदादसिद्धो हेतुरिति गर्जितव्यं । यस्मान्न च रूपप्रति
भासभेदेपि वस्तुभेदो युक्त
ः, अतिप्रसङ्गात् । रूपप्रतिभासभेदग्रहणमुपलक्षणार्थं ।
तेनार्थक्रियाभेदोप्यभ्युपगन्तव्यः । एवं मन्यते । यदि भिन्नप्रतिभासि ज्ञानं भेदं
साधयति तदा
सुखदुःखमोहानां असङ्कीर्णा भेदव्यवस्था भवेत् । नान्यथा तथा
च मृप्तिण्डघटयोरपि परस्परमत्यंतम्भेद इति प्रतिजानीमहे । भिन्नाकारज्ञानपरि
च्छेद्यत्वात् । परस्परासम्भविकार्यकारित्वाच्चसुखादिवदिति स्वभावहेतू । अन्यथा
सुखादीनामपि परस्परमभेदप्रसङ्गः शक्तिव्यक्तिवत् । विशेषो वा वाच्य इति ।
तस्मादित्युपसंहारः । नहि तस्य घटादेस्तस्मिन्नुपलब्धिलक्षणप्राप्ते स्वभावे स्थितौ
सत्यामनुपलब्धिर्युज्यते । अथापि भवति तदाऽस्थितिश्च तस्मिन्स्वभावेऽतत्वमत
त्स्वभावत्वमुपलब्धिलक्षणप्राप्तात्स्वभावादेकान्तेन भेद इति यावत् ।
एवं स्वभावानुपलब्धौ साधनाङ्गसमर्थनं प्रपञ्चेनाभिधाय परिशिष्टास्वनुपल
ब्धिष्वाचिख्यासुराह
42a । व्यापकानुपलब्धावि
6a8 त्यादि । धर्मयोर्यथा शिंशपा-
त्ववृक्षत्वयोर्व्याप्यव्यापकभावं केनचित्प्रमाणेन प्रसाध्य व्यापकस्य वृक्षत्वादेर्न्निवृत्ति
प्रसाधनं समर्थनं साधनाङ्गस्येत्यध्याहारः । यथा नास्त्यत्र शिंशपा वृक्षाभावादिति ।
ननु तत्र स्वभावानुपलब्ध्यैव तदभावः सिध्यति तक्तिमनया । नहि निष्पादितक्रिये
कर्मणां
विशेषाधायि साधु साधनम्भवति । साधकतमङ्करणमिति पाणिनिः १।४।
४२ वचनात् अनधिगतार्थाधिगमरूपञ्च प्रमाणमुक्तमज्ञातार्थप्रकाशो वेति ।
सत्यमेत
त् । तथाहि नेयं सर्व्वत्र प्रयुज्यते । किन्तर्हि व्योमगतत्रपादिमात्रे यत्र
सालसरलपलार्शाशंशपादिपादपभेदावधारणन्नास्ति तत्र । सर्व्वथा यत्रैव
व्याप्या
60 भावो न निश्चीयते क्वचित् कुतश्चिद् भ्रान्तिनिमित्तात् तत्रैवेयं प्रयुज्यते । कारणा
नुपलब्धिरपि यत्र कार्याभावो न निश्चीयते तत्रैव प्रयोक्तव्या ना
न्यत्र वैयर्थ्यात् ।
यथा सन्तमसे धूमाभावानिश्चये नास्त्यत्र धूमोऽग्न्यभावादिति । कार्याभावे संशयात् ।
कारणाभावे च निश्चयात् । स्वभावविरुद्धोपलब्धिरपि सं
गविषयभावावस्थित
गात्रस्पर्शवालाकलापाकुलानलालीढ एव व्योमादिमात्रवर्तिनिर्देशे प्रयोक्तव्या ।
कारणविरुद्धोपलब्धिश्चाप्यदृश्यमानकमारोमोद्ग
42b मदन्तवीणादिभेदभावाभा वाक्य
शक्यगानुसमीपावस्थितपुरुषसमाक्रान्तभूतल एव प्रकृतेनान्यत्र वैफल्यात् । अनया
दिसा91ऽन्यासामप्यनुपलब्धीनाम्प्रयो
गविषयोऽनुसर्त्तव्य इति । तेषां स्वभाव
व्यापककारणानां । विरुद्धास्तेषामुपलब्धयस्तास्विति विग्रहः । द्वयोर्विरोधयोर्म
ध्ये एकस्योपदर्शनं । द्वौ पुनर्विरोधावविकलका
रणस्य भवतोन्यभावे भावः ।
परस्परपरिहारस्थितलक्षणश्च । अनया दिशा स्वभावविरुद्धकार्योपलब्ध्यादिष्वपि
साधनाङ्गसमर्थनं सुज्ञानमेवेति नोक्तं । तथा
पि किञ्चिन्मात्रप्रयोगभेदादेका
दशानुपलब्धिव्यतिरिक्तास्वपि कारणविरुद्धव्याप्तोपलब्धिकार्यविरुद्धव्याप्तोप
लब्धिव्यापकविरुद्धकार्योपलब्धिकार्यविरुद्धका
र्योपलब्ध्यादिषु साधनाङ्गसम
र्थनमुक्तम्वेदितव्यं । तासां पुनरुदाहरणानि यथाक्रमं । नात्र धूमस्तुषारस्पर्शात् ।
नेहाप्रतिवद्धसामर्थ्यान्यग्निकार
णानि सन्ति तुषारस्पर्शात् । न तुषारस्पर्शोऽत्र
धूमात् । नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति ।
कार्ययोः ।
—
सङ्ग्रहश्लोकौ ।
एवं तावदेकेन प्रकारेणासाधनाङ्गवचनत्वादिनो निग्रहस्थानमिति प्रतिपादितं ।
प्रकारान्तरेणापि तदेवोपपादयति । अथवेत्यादि
6b1 न चेति समुदायश्चायमत्रा
वृत्या पूर्वोदितार्थपरित्यागेनार्थान्तरसमुच्चये वर्त्तते ॥ नतु धवस्थित्याथवा खदिर
मित्यादाविव पूर्व्वार्थपरित्यागेन विकल्पादिवि
43a धस्याप्यर्थस्य विवक्षितत्वात् । इह
61 च पर्याये साधनशब्दः करणसाधनः । इहाङ्गशब्दोऽवयववचनः पूर्वस्मिन्कारण
वचन इति विशेषः । त्रिरूपहेतुवचन
समुदायग्रहणेन तेषु लक्षणादिवचनानां
साधनत्वं तिरयति । स्याद् बुद्धिः साधर्म्यवति प्रयोगेनासपक्षे हेतोरसत्वमुच्यते ।
वैधर्म्यवति च न सपक्षसत्वमनन्तर
मेव निषेध्यमानत्वात् । तत्कथन्तस्यैकस्याप्य
वचनमसाधनाङ्गवचनमित्येतन्न वक्ष्यमाणे व्याहतमिति । एतच्च नैवमेव हि
व्याख्यायते । त्रिरूपो हेतुरर्थात्मकः ।
परमार्थतोवस्थितस्तस्य वचने ये प्रकाशके
पक्षधर्मवचनं सपक्षसत्ववचने पक्षधर्मवचनं विपक्षसत्ववचने वा तयोस्समुदायः तस्य
व
चनद्वयसमुदायस्याङ्गम्पक्षधर्मादिवचनमिति पक्षधर्मवदनन्तावदविचलमितरयोः
त्वन्यतरान्यतरत् कादाचित्कं । तेन वचनद्वयसमु
दायरूपस्याङ्गिनोङ्गं द्विविधमेव
सदा तस्येदानीमङ्गस्यैकस्याप्यवचनमसाधनाङ्गम्वचनं । न केवलं द्वयोः प्रथम
व्याख्यानुसारेणेत्यपि श
ब्दात् । द्वयोर्ह्यवचनं तूष्णीम्भावः । स चोक्तोऽप्रतिभया
तूष्णींभावादिति पर्यायान्तरमप्याह ।
अथवे
6b1 त्यादि । तस्यैवेति त्रिरूपवचनसमुदायस्य यन्नाङ्गं ना
वयवः ।
कथं पुनः प्रतिज्ञादीनामसाधनाङ्गत्वमिति चेत् । उच्यते । प्रतिज्ञावचन
साधनं । साक्षात् पारंपर्येण वा तस्याः सिद्धेरनुत्पत्तेः तथाह्यर्थ ए
व प्रतिबन्धा
र्थङ्गमयति । नाभिधानमर्थप्रतिबन्धविकलत्वात् तस्मात् प्रतिज्ञावचनं हेतु
वचनं वा न साक्षात्साधनमर्थसिद्धौ । संशयश्च पक्षवचनादर्यें दृष्टो
43b न
निश्चयस्तदतोपि न साक्षात् साधनं । स्यान्मतं संशय एवासिद्धः पक्षवचनाद्वादि
प्रतिवादिनोर्निश्चितत्वादथान्येषां भवति । एवं सति कृतकत्वादिवचनेप्यव्युत्पं92
नानां संशयो भवतीत्यनेकान्तः । तदेतदसम्बद्धं । वादिप्रतिवादिनो
र्हि निश्चितत्वमेकस्मिन् वा धर्मेऽनित्यत्वादिके प्रत्याययितुमारब्धे भवेत् प्रत्यनीक
धर्मद्वये वा ॥
न तावदेकस्मिन् विवादाभावतः । साधनप्रयोगानर्थक्यप्रसङ्गात् ।
नापि प्रत्यनीकधर्मद्वये वस्तुनो विरुद्धधर्मद्वयाध्यासप्रसङ्गात् । यदाह्येकस्मिन्व
स्तुनि प्रमा
णबलेन विरुद्धौ धर्मौ वादिप्रतिवादिभ्यां निश्चितौ भवतस्तदा तद्वस्तु
62 द्व्यात्मकं प्राप्तं । अथ न प्रमाणसामर्थ्यात् तौ निश्चितावपि तु स्वस्मात्स्व
स्मादाग
मात् । एवमपि तु धर्मयोः प्रमाणेन निश्चयात् कथन्न पक्षवचनात् संशयो
भवतीति वाच्यं । तस्मात् पक्षवचनं न साक्षात् साधनं । नापि पारम्पर्य्येण सा
ध्या
भिधायकत्वेनासिद्धे हेतुदृष्टान्ताभासोक्तिवदशक्यसूचकत्वात् । हेतुवचनन्तु शक्य
सूचकत्वात् शक्तितः साधननिष्टं सदोच्यते साधनाङ्गम्प्रतिज्ञाव
चनत्वे सति
साधनोपकारकत्वाद्धेतुवचनवत् । साधनविषयप्रकाशनद्वारेण च प्रतिज्ञासाधनम
नुगृह्णाति । अन्यथाह्यविषयं तत्साधनं प्रवर्त्तते । ज्ञा
नात्ममनःसन्निकर्षादीनामपि
साधनोपकारकत्वमतो वचनत्वे सतीति विशेषणं । इतश्च साधनाङ्गसाध्यसाधन
विषयप्रकाशनात् दृष्टान्तवचनवदिति ।
इदमप्यत्यर्थमसारं । यस्मादनित्यं शब्दं
साधयेत्यभ्यर्थंना वाह्यं वचनत्वे सति साधनोपकारकं साध्यसाधकविपर्ययप्रकाश
कञ्च न च तदन्तरङ्गं साध्यसिद्धा
44a वाङ्गं । को वा विषयोपदर्शनस्योपयोगो यदि
ह्यनेन विना न साध्यसिद्धिः स्यात् । सर्व्वसोभेत93यावता विनाप्यनेन
यावत् । यः कश्चित्कृतकः स सर्वोऽनित्यो यथा कुम्भादिः
शब्दश्च कृतक इत्यनु
क्तेपि पक्षशब्दोऽनित्य इत्यर्थाङ्गमात्र एव । तस्मादस्य निर्देशो निरर्थक एव । स्यादयं
विपर्यासो यदि हेतुव्यापारविषयोपदर्शनाय पक्षवद्
वचनन्नैव प्रयुज्यते तदा कथम्पक्ष
समाश्रयलब्धव्यपदेशा । पक्षधर्मत्वादयः सम्पद्यन्ते । तेषु वा निश्रितात्मसुसम्भूत
सामर्थ्यात् पक्षगतिरसम्भाव्यैव । सामर्थ्य
लभ्यपक्षबलेन पक्षधर्मत्वादयः सम्पद्यन्त
इत्यप्ययुक्तं । तेष्वसत्सु सामर्थ्यलभ्यस्यैव पक्षस्यासम्भवात् । अन्योन्याश्रयं चेदम्पक्ष
धर्मत्वादिसामर्थ्या
यातपक्षवशेन पक्षधर्मत्वादयः सम्पद्यन्ते । पक्षधर्मत्वादिबलेन
च पक्ष इति । तदत्रोच्यते । न खलु साधनकाले पक्षधर्मत्वादिविकल्पोऽस्ति के
वलं
यत्रैव जिज्ञासितविशेषे धर्मिणि शब्दादौ तु च करीशादिस्थगिततेजसि वा कुण्डादौ
यो धर्मः कृतकत्वधूमत्वादिलक्षणोनुमानतः प्रत्यक्षतो
वा प्रतीयते । प्रत्याय्यते
वा । तद्विशेषयोगितया वा निश्चितेऽपरस्मिन्घटमहानसादावस्थितत्वेन स्मर्यते
तद्विशेषविरहिणि वा गगनसागरादौ नास्तित्वेनै
व स्मर्यते । स वस्तुधर्मतयैव
विनापि पक्षधर्मत्वादिव्यपदेशेन तत् धर्मिणं जिज्ञासितधर्मविशिष्टं सामर्थ्यादेव
प्रतिपादयति । स चास्य सामर्थ्यविषयः पक्ष
इति गीयते । ततः पश्चात् तत्समाश्रय
भाविन्यो यथेष्टपक्षधर्मत्वादिसंज्ञाः शास्त्रेषु संव्यवहारार्थम्प्रतन्यन्ते । यदि वा प्रत्या
लोचनप्रकरणबलात् साधनका
44b लेपि भवन्तु पक्षधर्मत्वादिविकल्पाः । कथं योहि
वस्तुनो धर्मो वादिना विवादास्पदीभूतधर्मिविशिष्टतया साधयितुमिष्टः स पक्षस्तस्य
योन्यो धर्मः स पक्षधर्मः ।
प्रकृतसाध्यधर्मसामान्येन च समानोर्थः सपक्षः । तद्विरही
63 वासपक्ष इति । यस्यापि हि साधनकाले पक्षप्रयोगोस्ति तस्यापि न वाद्यकाण्डमेव
पक्षं जातेऽनि
त्यः शब्द इति । कस्तु प्रस्तावान्तरेना94पि प्रकरणबलेनैव
पक्षधर्मत्वादयोपि वक्तव्या ः । तच्च पक्षप्रयोगदूषकस्यापि समानं । तस्मा
त्प्रतिज्ञावचनं न साधनां
गं ।
उपनयनिगमनवचनन्तु यथा न साधनाङ्गन्तथोच्यते ॥ तत्रतावदु दाहरणा
पेक्षस्तथेत्युपसंहारो न तथेति वा साधनस्योपनयः
न्या० सू० १।२।३८ । यथा
त
थेतिप्रतिबिम्बनार्थं । किम्पुनरत्र प्रतिबिम्बनन्दृष्टान्तगतस्य धर्मस्याव्यभिचारत्त्वे
सिद्धे । तेन साध्यगतस्य तुल्यधर्मता । एवञ्चायङ्कृतक इति सा
ध्येन सह
सम्भव उपनयार्थः । ननु च कृतकत्वादित्यनेन सम्भव उक्तः । नोक्तः । साध्यसाधन
धर्ममात्रनिर्देशात् । साध्यसाधनधर्ममात्रनिर्देशः कृ
तकत्वादनित्यः शब्दो भवति ।
तत्पुनः शब्दे कृतकत्त्वमस्ति । नास्तीत्युपनयेन सम्भवो गम्यते । अस्ति च शब्दे कृत
कत्वमिति । तथा च हेतुवचनाद् भिन्नार्थप्रतिपाद
कत्वमुपनयस्याभिन्नरूपत्वे प्रसिद्ध
पर्यायव्यतिरिक्तत्वे च सति हेतुवचनोत्तरकालमुपादीयमानत्वात् दृष्टान्तवचन
वदिति शक्येत अनुमातुं ।
हेत्वपदेशात्
प्रतिज्ञायाः पूनर्वचनन्निगमनं
न्या० सू० १।१।३९ ।
प्रतिज्ञायाः पुनर्वचनमिति प्रतिज्ञाविषयस्यार्थस्याशेषप्रमाणोपपत्तौ विपरीत
प्रसङ्गप्रतिषेधार्थं यत्पुनरभिधानं
45a तन्निगमनं । न पुनः प्रतिज्ञाया एव
पुनर्वचनं । किङ्कारणं यस्मात्प्रतिज्ञासाध्यनिर्देशः सिद्धनिर्देशो निगमनमिति ।
पुनः शब्दश्च नानात्वे दृष्टः । पुनरियमचिरप्रभा नि
श्चरति । पुनरिदङ्गन्ध
र्व्वनगरं दृश्यत इति । अत्र च सामर्थ्यादुपनयानन्तरभावी हेत्वपदेशो गृह्यते । न
प्रतिज्ञानन्तरभावी । असम्भवात् । नहि कश्चित्प्रतिज्ञा
नन्तरं हेत्वपदेशान्निगमनं
प्रयुंक्ते । अनित्यः शब्दः कृतकत्वात् । तस्मादनित्यः शब्द इति । अतश्च प्रतिज्ञार्थ
वाक्याद् भिन्नार्थं निगमनवचनं । प्रतिज्ञावाक्याद् भिन्न
रूपत्वे सति हेतुवचनोत्तर
कालमभिधीयमानत्वात् दृष्टान्तवचनवत् । न च साध्यार्थप्रतिपादकन्निगमनं ।
शब्दान्तरोपात्तस्यावधारणरूपेण प्रवृत्तत्वात् । योय
मागच्छत्ययं विषाणीति
केनचिदुक्ते तस्मादनश्व इत्यादिवचनवत् । तस्माच्छब्दसहितं वाक्यम्विचार
विषयाय प्रसाध्यार्थप्रतिपादकन्न भवति । का
रणोपदेशोत्तरकालमुपात्तत्त्वात् ।
दृष्टान्तः पूर्ववत् । तदेतत् प्रतिषिध्यते न खल्वेवं प्रयोगः क्रियते । अनित्यः शब्दः
कृतकत्वात् । प्रतिज्ञाप्रयोग
स्यानन्तरं निराकृतत्वात् । अपि तु कृतकः शब्दः ।
पश्चैवं स सर्वोऽनित्यो यथा कलशादिः । यो वा कृतकः स सर्व्वोऽनित्यो यथा घटादिः ।
64 तथा च कृतकः शब्द इ
त्येवमुभयथा यथेष्टं प्रयोगः क्रियते । साध्यसिद्धेरुभ
यथापि भावात् । तत्र यदि कृतकः शब्दो यश्चैवं स सर्व्वोऽनित्यो यथा घटादि
रित्यभिधाय तथा कृत
कः शब्द इति प्रतिबिंबनार्थ
45b मुपनयवचनमुच्यते । तदे95
दमनर्थकं
विनाप्यनेन प्रतिबिंबनेनानन्तरोक्तप्रयोगमात्रात् प्रतीतिभावात् ।
साधनञ्च यदनर्थकं न तत्साधनवाक्ये विद्वद्भिरुपादेयं । तद्यथा दशदाडिमादि
वाक्यं तथा
चानर्थकं प्रतिबिंबनार्थमुपनयवचनमिति व्यापकविरुद्धोपलब्धेः ।
स्वार्थानुमितावप्ययमेव न्यायो दृष्टो नहि कश्चित्सचेतनः कृतकत्त्वस्य भावं शब्दे
गृही
त्वा तस्य चाविनाभावित्वमनुस्मृत्य तथा च कृतकः शब्द इति प्रतिबिम्बनार्थ
करोति । अथापि यः कृतकः स सर्व्वोऽनित्यो यथा घटः । तथा च कृतकः शब्द
इ
ति सम्भवप्रदर्शनार्थमुपनयवचनमुच्यते । तदेतद् द्वयमप्यङ्गीकुर्मः । प्रतिज्ञा
नन्तरभाविनस्तु साधनमात्रनिर्देशमनित्यः शब्दः कृतकत्वादित्येव
न प्रतिपद्यामहे ।
प्रतिज्ञायाः प्रयोगाभावात् । ततश्चोपनयस्यावयवान्तरत्वप्रतिपादनायोक्तो
हेतुरसिद्धतोरगदष्टत्वाङ्गतावशक्त एव । यत्
पुनरिदं सिद्धार्थनिर्देशलक्षणं निग
मनं पौनरुक्त्यपरिहाराय वर्ण्यते तन्नैवोपपद्यते विना निगमनेनार्थसिद्धेरेव पञ्चा
वयवसाधनवादिनोऽनुपपत्तेः
अन्यथा निगमनात् प्रागेवार्थस्य सिद्धत्वात् व्यर्थतया
न साधनाङ्गन्निगमनम्प्राप्नोति । ततश्च नेदमुपादेयं साधनवाक्ये सिद्धमित्य
प्रतिज्ञा । भवेद्व्यामोहो विप्र
तिपन्नस्य प्रमाणान्तरव्यपेक्षा नास्तीति सिद्धमनित्यत्व
मुच्यते । निगमनं तु प्रतिविषयस्यार्थस्याशेषप्रमाणोपपत्तावशेषावयवपरामर्शेनाव
धारणार्थम
46a नित्य एवेति प्रवर्त्तत इति । यदि तर्हि प्रमाणान्तरव्यपेक्षा नास्ति तत्तर्हि
साध्यं सामर्थ्यादवधार्यत एव । तथाहि यदकृतकन्तदनित्यमेव । यथा कुण्डादि
शब्दश्च कृतक
इत्येवमनित्यत्वाविनाभाविनः कृतकत्वस्य शब्दे भावख्यातौ
तत्सामर्थ्यादेवानित्यः शब्द इति निश्चयो भवति । तदस्य वचनं सामर्थ्यं प्रतीता
र्थप्रत्यायकत्वात् पुनरुक्तमनु
पादानार्हञ्च । न चात्र विपर्ययप्रसङ्गस्य लेशोप्या
शङ्क्यते । येन तद्व्यवच्छेदाय सफलमेतस्योपादानं स्यात् । अनित्यत्वेनैव कृतकत्वस्य
व्याप्तिप्रसाधनात् । प्रयोगस्तु
। यत्सामर्थ्यात् प्रतीयते न तस्य वचनम्प्रेक्षावता
कर्त्तव्यं । तद्वचनम्पुनरुक्तम्वा तद्यथा गेहे नास्ति कुमारो जीवति चेत्येतत्सामर्थ्यात्
प्रतीयंमानस्य तद्वहि
र्भावस्य वचनं । पक्षधर्मान्वयव्यतिरेकतद्वचनसामर्थ्याच्च
प्रतीयते तस्मादनित्य एवेत्येवमादिना पुनः सिसाधयिषितोर्थः प्रथमसाध्यापेक्षया
व्यापकविरुद्धोपलब्धिर्द्वितीयसाध्यापेक्षया च स्वभावहेतुः । अत एव निगमनस्या
वयवान्तरत्वप्रतिपादनायोक्ता हेतवोऽसिद्धाः । तदप्येतेनैव प्र
त्युक्तं । यदाह ।
ध्यर्थम्वाच्यन्निगमनं पृथग् ॥ १८
इत्यलमतिप्रसारिण्या कथया ॥ ० ॥
अन्वयव्यतिरेकयोर्वेति पर्य्यायान्तरकथनमुपादानमिति न्या० सू० २।१।१२
वर्तते द्वितीयस्यासामर्थ्यं जातायाः
सिद्धेः पुनरजन्यत्वात् । प्रमाण- समुच्चय
टीकाकारास्त्वाहुः नन्वि 6b4 त्यादि । ने 6b4 त्याद्युत्तरः । यदि चेत्युपचय
हेतुः । साधनावयवः प्रतिज्ञां प्राप्नोति नियमेन साध्यप्रतीतिनि
46b मित्तत्वात्
पक्षधर्मादिवचनवत् । सन्दिग्धव्यतिरेको हेतुरिति चेदाह । नहि पक्षधर्मवचनस्या
पीति
6b6 । तत्तुल्यमिति विरुद्धानैकान्तिकयोः पक्षधर्मसद्भावेप्यगमकत्वात्
।
तत एवसंसयो97त्पत्तेः पक्षधर्मवचनन्न साधनं साधारणादिवचनवदिति
चेदाह । ऐतेन
6b7 तत्तुल्यमित्यादिना संशयोत्पत्तिः प्रत्युक्तेति । एतदेव व्यनक्ति
पक्षधर्म
वचनादपीति । तदनेनानन्तरस्य हेतोर्व्यभिचारङ्कथयति ।
ननु च पक्षधर्मस्य श्रावणत्वादेरप्रदर्शिते सम्बन्धेनैव साधनावयवत्वमतो विपक्ष
त्वाभावान्न व्यभि
चारः । प्रदर्शिते तु सम्बन्धे साधनावयवत्वं तदा च तस्मात् संशयो
नास्तीति सुतरान्नानेकान्त इति ॥ एवं मन्यते । पक्षवचनेपि तुल्यमे
6b6 तदिति
तदपि सा
धनं स्यात् । अथ प्रतिपद्येथा सत्यं स्याद्यदि साध्यं स्यान्न चास्त्यन्यतः
66 साध्यसिद्धः । न च निष्पादितक्रिये दारुणि दात्रादयः कञ्चनार्थं पुष्यन्ति । अप्रदर्शिते
तु संब
न्धे संशयोत्पत्तिहेतुत्वादिदमुक्तन्तत एवसंसयो98त्पत्तेरिति ।
यद्येवं न तर्हि तत्प्रयोगमन्तरेण साध्यसिद्धेरभाव इति व्यर्थ एव तत्प्रयोगः स्यात्
अन्यथा कः पक्षवचनं साधनादपाकर्त्तुं समर्थः । ततश्च त्रिरूपलिङ्गा ख्यानं परार्थ
मनुमानमित्याद्याचार्यवचो व्याहन्येत । कथं तर्ह्युक्तं ।
पक्षधर्मत्वसम्बन्धसाध्योक्तेरन्यवर्जनमिति नास्ति विरोधः । पक्षधर्मत्वसंबन्धा
भ्यां साध्यस्योक्तिप्रकास99नमाक्षेपस्तस्मादन्येषां पक्षोपनयवचनादीना
मुपादेयत्वेन साधनवाक्यवर्जनमि
47a ति व्याख्यानात् । विवरणेप्ययमर्थो यस्मात्
पक्षधर्मत्वसम्बन्धवचनमेवान्वयव्यतिरेकाभ्याम्विवक्षितार्थसिद्धिकारणं युक्तं नान्यत् ।
तस्मादनुमेयस्योपदर्शनार्थ
सिद्ध्यर्थं पक्षवचनमुपादेयं नान्यदित्युपस्कारः । पक्ष
उच्यते आक्षिप्यते प्रकाश्यते अनेनेति पक्षवचनन्त्रिरूपं लिङ्गं । आक्षेपो ह्यभि
धानतुल्य इति वचनमित्युक्तं वचेर
नेकार्थत्वाद्वा । अस्माकं तु ।
इत्यपि वचनं विरुध्यते । यस्मा
जसं ॥ २०
इत्यलं प्रसङ्गेन ॥ ० ॥
तद्भावरूपं साधनमङ्गन्धर्मो विषयित्वेन । यस्यार्थस्य
प्रस्तुतस्य स साध
67 नाङ्गस्तस्यैवाभिव्यक्तिरुत्तरेण पदद्वयेन ॥ अजिज्ञासितं प्रतिवादिनाऽशास्त्राश्रय
व्याजादिभिरित्यादिपदेनासम्बद्धप्रसङ्गपरिग्रहः । प्रक्षे
पो नाममात्रेण घोषणं
विस्तरेण । यथा बुद्धीन्द्रियदेहकलापव्यतिरेकात्मास्ति नास्तीत्येतावत् मात्रे
वुभुस्तिते नैयायिकाः प्रमाणयन्ति । सदाद्यविशेषवि
षया विषयज्ञेयविषया मदीयाः
प्रत्यक्षादयः प्रत्यया मदीयशरीरादिव्यतिरिक्तसम्वेदकसम्वेद्याः स्वकारणायत्त
जन्मवत्वादिभ्यः पुरुषान्तर
प्रत्ययवदिति ततः सदनित्यन्द्रव्यवत् कार्यकारणं
सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष इति महता व्यासेन सदाद्यविशेषाद्
व्याचक्षते । नह्यत्र स
दाद्यविशेषविषया विषयज्ञेयविषयत्वन्धर्मविशेषणं कथं
चिदपि प्रकृतसाध्यसिध्युपकारि । परव्यामोहनानुभाषणशक्तिविघातादिहेतो
रित्यत्रादिश
ब्देनोत्तरप्रतिपत्तिशक्तिविघातहेतोः परिग्रहः क्रियमाणः प्रसङ्गो
68 यस्येति विग्रहः । नैरात्म्यवाद्युदाहरणेन किं ज्ञापयति । यत्र नाम विहितप्रतिसिद्धो100वा
47b दिदोषगुणसौगतधर्मविनयस्याप्यहङ्कारनिमित्तसकलोद्ध
वादिमलक्षालनायोद्यतमत्रैव नात्मवादिनस्तत्साधने नृत्यगीतादेः प्रसङ्गः ।
तत्रान्येषामन्यस्य च का ग
णना । ननु च वयं बौद्धा ब्रूम इति कथं यावता
सविशेषणस्य प्रतिषेधाभिधानात् । अहम्बौद्धो ब्रवीमीति भवितव्यं । यथाहंगार्गो101ब्रवीम्यहं पटु ब्रवीमि इति न च बहु
ष्वेवेतद्वहुवचनमिति पाणिनिः
२।४।२१ शक्यमभिधातुँ कश्चिदिति वचनात् । नैव यस्मादसावात्मनि परान्
स्वयूथ्यानप्यन्यान्बहूनपेक्ष्य तथा प्रयुक्तवान् । ईदृश्यामेव च वादिनो विवक्षा
यामिद
मुक्तमुदाहरणं नान्यस्यामिति प्रतिपत्तव्यं । अथवा जडशाब्दिकाभिनिवेशनिवा
रणायेदमेवमुक्तं तथा च व्यर्थता शब्दानुसासन102स्य प्रतिपादयि
ष्यति ।
अत एवान्येन महारथेनापीदं प्रयुक्तं ॥
सभ्यः साधुसंमतानामित्युपहसति । अहो
शब्दश्चेहाध्याह्रियते । द्वादशा
नाम्प्रमाणादिलक्षणानां यः प्रपञ्चो विस्तरस्तस्य प्रकाशनाय यच्छास्त्रं मीमांसा
ख्यं तस्य प्रणेता स चासौ जैमिनिश्च तेन प्र
तिज्ञातं यत्तत्वं नित्यताभिधानं ।
69 तस्याधिकरणं यः शब्दः स च घटश्च तयोरन्यतरस्तेन स द्वितीयो घट इतीत्थं
प्रतिज्ञामुपरचय्य द्वादशलक्षणादिव्याख्यानङ्करो
ति । प्रमाणलक्षणमेव तावदेकं
महता कालेन व्याचष्टे । चोदनालक्षणो धर्म
मीमांसा सू० १।१।२ श्चोद
नेति क्रियायाः प्रवर्तकम्वचनमाहुश् चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यव
हि
48a तं विप्रकृष्ट... मर्थं शक्नोत्यवगमयितुं नान्यत् किञ्चनेन्द्रियं 103
। तथाहि
सत् संप्रयोगे पुरुषस्येन्द्रियाणाम्बुद्धिजन्म तत्प्रत्यक्षं । अनिमित्तं विद्यमानोप
लम्भनत्वादि
मीमांसा सू० १।१।४ त्यादिना । संस्कारदुःखतासिद्धिमन्तरेण
नानित्यतासिद्धिरप्रतीत्य समुत्पन्नस्य क्षणिकत्वायोगात् । स तर्हि तादृशो धर्मः
पृथग्वाच्यो नेत्याह । तथाविधस्त्वित्या
दि । एवंविधस्यापि प्रस्तुतसाध्यधर्म
नान्तरीयकस्य प्रतिवादिनाऽजिज्ञासितस्य तद्व्यतिरेकेण प्रतिज्ञायामन्यत्र चाहेतु
दृष्टान्तयोः कदा पुनरेतदसाधना
ङ्गवचनं यथोक्तं निग्रहस्थानमित्याह । प्रतिवादिना
तथाभावेऽसाधनाङ्गत्वे प्रतिपादिते सति । यदा तु न प्रतिपादयति तदा द्वयोरेकस्यापि
न जयपराजयौ भवतः
कुतः साधनानभिधानान्न वादिनो जयः । प्रतिवादिना
तथाभावस्याप्रतिपादितत्वाच्च पराजयोपि नास्त्येव । तस्य प्रतिपन्नापेक्षत्वात् ।
अत एव प्र
तिवादिन्यपि तयोरभावः ॥ ४ ॥
सम्प्रति प्रतिवादिनो निग्रहस्थानमधिकृत्याह । अदोषोदूभावनमित्यादि
7b6 ।
यत्र विषये जिज्ञासिते अजिज्ञासिते
पुनर्दोषस्यानुद्भावनेपि नापराध इत्यभिप्रायः ।
के पुनस्ते साधनस्य दोषा इत्याह । न्यूनत्वं षट्प्रकारमेकैकद्विद्विरूपानुक्तौ ।
स्यान्मतिः सपक्ष
विपक्षयोः सदसत्त्वयोर्यौगपद्येनाप्रयोगे कथञ्च प्रकारात् न्यूनतोच्यते
। यदा सर्व्वोपसंहारेण व्याप्तिव्यतिरेकाभ्यान्तदाक्षेपोपि नास्ति तदेयं व्यवस्थाप्यते ।
70 अ
थोच्यते तदाप्यप्रदर्शितान्वयव्यतिरेकादिदृष्टान्तदोषो भवति । भवत्व
यमपरोस्यापराधो न ह्येकदोषालीढान्येव साधनानि भवन्ति त्रयो हेत्वाभासा दृष्टा
न्ता
48b भासाश्चाष्टादश न्यायविन्दौ
तृतीये परिच्छेदे सोदाहरणाः प्रपञ्चेन
द्रष्टव्याः । तेषामनुद्भावनं पर्यायशब्दद्वयेन व्याचष्टे । तच्चानुद्भावनं त्रिभिः
कारणैरित्याह । ततः पुनः
साधनस्य निर्दोषत्वादित्यादि ।
ननु च युक्तो निर्दोषे साधने प्रतिवादिनो दोषानुद्भावनान्निग्रहः ।
सदोषे त्वज्ञानासामर्थ्याभ्यामनुद्भावनेपि दोषस्य दुष्टसाधनप्रयो
गाद्वादिन एव
पराजयो युक्तो न प्रतिवादिन इति । अत्राह । न हि दुष्टसाधनाभिधानेपीति
7b8 ।
यद्येवं दुष्टेनापि साधनेन वादिना प्रतिवादिनस्तिरस्कृतत्वात् कस्माज्ज
यो
न भवति तस्येत्याह । केवलमित्यादि
7b9 । यद्येवं किन्न पराजयः । तत्वसिद्धि
भ्रंशादिति चोद्यं । नानिराकरणादित्याद्युत्तरं । दुर्जनानाम्विप्रतिपत्तिरशोभनो
व्य
वहारः तस्मान्न योगविहितो न्याय्यः कश्चिद्विजगीषुवादो नाम यच्छला
दिभिः क्रियत इत्यध्याहारः । उक्ते सति न्याये तत्वार्थी चेत् प्रतिवादी प्र
तिपद्येत
तमर्थं न्यायोपेतं । अथ स्वपक्षरागस्य वलीयस्त्वादुक्तेपि न्याये न प्रतिपद्येत । तदा
तेन प्रतिवादिना तस्य न्यायस्यार्थस्याप्रतिपत्तावन्य
समीपवर्त्त्यात्मज्ञो जनकायो न
विप्रतिपद्येतेति कृत्वा न्यायानुसरणमेव सतां वाद इति वर्त्तते । तत्वरक्षणार्थमिति
परः । यथोक्तं तत्वाध्यवसाय
संरक्षणार्थञ्जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं
कण्टकशाखावरणवदिति
न्या० सू० ४।२।५० । नेत्याद्याचार्यः । एवन्तत्वं
सुरक्षितम्भवति । एकान्तेन प्रतिद्वन्द्युन्मूलनादिति भावः ।
तदभाव इति साधन
प्रख्यापनसाधनाभासदूषणयोरभावे । अन्यथापीति मिथ्याप्रलापाद्यभावेपि ॥ ० ॥
कथमसौ न दोषः साधनस्येत्याह । तस्य दोषत्वे
नाभिमतस्य भावेपि सिद्धेर्वि
71 धाताभावात् । साधयितुमनिष्टोप्याकाशगुणत्वादिकार्यत्वेनानित्यत्वमात्रसाधने
ध्वनौ विवक्षिते सति काणादाः केचिच्चोदयन्ति
49a न्यायानभिज्ञाः । शास्त्रोपगमात्
सर्व्वस्तदिष्टः साध्यः । तत्प्रधाने च हेतुप्रतिज्ञयोर्दोष इति तच्चायुज्यमानं शास्त्रा
श्रयेप्यस्त्यपगतमात्रस्यैव साध्यत्वात् । अन्यथा गन्धे भूगुणताविपर्ययसाधनादय
मेव हेतुरस्यामेव प्रतिज्ञायां विरुद्धः प्राप्नोति । तथेदमपरमदोषोद्भावनं ।
यथाह भारद्वाजो नास्त्यात्मेति प्रतिज्ञापदयोः प
रस्परविरोध इति । यस्मादात्मेति
वस्त्वभिधीयते नास्तीति तस्य प्रतिषेधः । इदमप्ययुक्तमनादिवासनोद्भूतात्मविक
ल्पपरिनिष्ठितप्रतिभासभेदस्य श
ब्दार्थस्य परेष्टानित्यचित्तत्वादिविशेषणात्म
72 लक्षणभावोपादानत्वस्य निराचिकीर्षितत्वात् । अत्रैव हि धर्मिणि व्यवस्थिताः
सदसत्वञ्चिन्तयन्ति सन्त
ः किमयमात्मविकल्पप्रतिभास्यर्थो यथाभिमत
भावोपादानो न वेति । न तु पुनरत्रायमेव विकल्पप्रतिभास्येवार्थोऽपह्नूयते तस्यैव
बुद्धावुपस्थाप
नाय शब्दप्रयोगात् प्रत्यात्मवेद्यत्वाच्च । विकल्पप्रतिबिम्बव्यतिरिक्तं
तु बाह्यं स्वलक्षणं नैव शब्दार्थ इति न तस्य विधिर्नापि प्रतिषेधणं104।
अन्यथा
कतानत्वे शब्दानामनिबन्धना ।
॥ २४
73
स चायम्विकल्पो भावोपादानत्वेन निराचीकीर्षितो देशकालप्रतिनियतिमन
पेक्ष्य विकल्पप्रतिबिंबविषयत्वादेव चात्मशब्दस्य न निर्विषयत्वमस्ति । ततश्च
यदु
क्तं यच्च यत्र प्रतिषिद्ध्यते तत् तस्मादन्यत्रास्ति । यथा नास्ति नासमाना
धिकरणो घटशब्दो न घटाभावं प्रतिपादयितुँ शक्नोति । अपि तु देशकालविशेषात्
प्रतिषेधाग
49b तिः । नास्ति घट इति देशविशेषे प्रतिषेधो गेहे नास्ति इति । कालविशेषे
वा प्रतिषेधः । इदानीं नास्ति । प्राग्नास्ति । ऊर्ध्वं नास्ति । सर्व्वस्यायं प्रतिषेधो
नाननुभूतघटसत्व
स्य युक्तः । तथा नास्त्यात्मेति किमयन्देशविशेषः प्रतिषिध्यते ।
उत्तरकालविशेष इति । यदि तावद्देशविशेषप्रतिषेधः । स आत्मनि न युक्तोऽदेश
त्वादात्मनः । न च देशविशेषप्रतिषेधादात्मा प्रतिषिद्धो भवति । न चायम्भवता
मभिप्रायः । शरीरमात्मा न भवतीति चेत् । कस्य वा शरीरमात्मा यं प्रति प्रतिषेधः ।
शरीरे नास्त्या
त्मेत्येवं प्रतिषेध इति चेत् । कस्य शरीरे आत्मा यं प्रति प्रतिषेधः ।
क्व तर्ह्यात्मा । न क्वचिदात्मा । किमयं नास्त्येव । न नास्ति विशेषप्रतिषेधात् ।
केयं वाचो युक्ति
र्न्न शरीरे नान्यत्र । न च नास्ति । एषैवेषा वाचो युक्तिः । यद्यथा
भूतन्तत्तथा निर्दिश्यत इति न चायमात्मा क्वचिदपीति । तस्मात्तथैव निर्देशः । न च
कालविशेषे
प्रतिषेधो युक्तः । आत्मनि त्रैकाल्यस्यानभिव्यक्तेरात्मप्रतिषेधञ्च
कुर्वाणेनात्मशब्दस्य विषयो वक्तव्यः । न ह्येकं पदं निरर्थकं पश्यामः ॥ अथापि
शरी
रादिषु आत्मशब्दं प्रतिपद्येथाः । एवमप्यनिवृत्तौ व्याघातः कथमिति । नास्त्या
त्मेत्यस्य वाक्यस्य तदानीमयमर्थो भवति शरीरादयो न सन्तीति । एवमादि बह्व
सं
बद्धं तदपहस्तितम्भवति । प्रतिज्ञार्थैकदेश इत्येतदप्यसत् सामान्यविशेषस्याभा
वात् । यद्वा न प्रयत्नानन्तरीयकत्वस्य प्रतिज्ञार्थैकदेशता धर्मिणमुपलक्ष्य निवृत्त
त्वात्
50a
। यस्य हि यदुपलक्षकं न तस्य तदेकदेशत्वं यथा न काकस्य गृद्धैकदेश-
त्वमिति ॥
- ? र्म्य↩
-
? र्थ्य ↩ - ? स↩
-
न्यायविन्दावपि - तत्स्वभावत्त्वात्तत्स्वभावस्य च हेतुत्त्वात् तृ० परि० पृ० ६९ Kashi Sanskrit Series.
↩ -
? र्थ्यं ↩ - ? शि↩
- ? सा↩
- ? श्च↩
- ? षि↩
- ?↩
- ? त↩
- ? तं↩
- ? ण↩
- ? न्नि↩
- ? न↩
-
न्यायविन्दौ द्वितीयपरिच्छेदे लिङ्गस्य त्रिषु भेदेष्वेकः ।
↩ - ?↩
- ? मु↩
- नै ?↩
- ? शा↩
- ? सा↩
- ? शा↩
- ? र्या↩
- ? श↩
- ? न्यः↩
- ? शा↩
- ? मै↩
- ? तत्↩
- ? ष↩
- ? शी↩
- ? ध्या↩
- ? सकाशा↩
- ? तपस्विना↩
-
? श्य ↩ - ? शा↩
- ? ना↩
- ? शा↩
- ? स्यान्मतं↩
- ? र्थ↩
- ?↩
- ? यं↩
- ? षित↩
- ? पन्न↩
- ? इतीन्दीवर↩
- ? निर्वर्त्तन↩
- ? वशा↩
- ? वशा↩
- ? वशा↩
- ? यश्चे↩
- ? न↩
- ? शरीरा↩
- ? शात्↩
- ?↩
- ? वशा↩
- ?↩
- ? श↩
- ? निर्वर्त्तने↩
- ? बशा↩
- ?↩
- ? शक्ति↩
- ? न्या↩
- ? णा↩
- ? स↩
- ? प्रयोगः↩
- ? मुखेन↩
- ? वशात्↩
- ? शङ्क↩
- ?
कश्मीरा ↩ - ? मुखेन↩
- ? घटादे↩
- ? विनाश↩
-
? प्रयोगः ↩ - ? ज्ये↩
-
? मुखेन ↩ - ? विनाशा↩
- ? गः↩
- ?↩
- ? शा↩
- ? सकाशा↩
- ? प्रयोगः↩
- ? शब्दो↩
- ? व्यपदिश्यते↩
- ?↩
-
? प्रयोगः ↩ - ? श्यं↩
- ? शरणं↩
- ?
प्रयोगः ↩ -
सांख्यकारिका ।
↩ - ? शय↩
- ? शङ्का↩
- ? दिशा↩
-
? व्युत्पन् ↩ - ? शोभेत↩
- ? रेणा↩
- ? दि↩
- ?↩
- ? संशयो↩
- ? संशयो↩
- ? प्रकाश↩
- ? प्रतिषिद्धो ↩
-
? गार्ग्यो ↩ - ? नुशासन↩
-
मीमांसाशबरभाष्ये १।१।२
↩ - ? नं↩