419
मस्तिष्के चैव नस्ये च तैलं वातहरैः शृतम् ॥
स्वेदोऽभ्यङ्गः स्नेहपानं रसपानमपीष्यते ॥ २ ॥
श्रीवेष्टकं सर्जरसं गुग्गुलुं सुरदारु च ॥
यष्टीमधुकचूर्णं च विदध्यात्प्रतिसारणे ॥ ३ ॥
वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनं च ॥
शीतान्प्रलेपान्परिषेचनं च पित्तोपसृष्टेष्वधरेषु कुर्यात् ॥ ४ ॥
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् ॥
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ॥ ५ ॥
शिरोविरेचनं धूमः स्वेदः कवलधारणम् ॥
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ ६ ॥
त्रिकटु स्वर्जिकाक्षारः क्षारश्च यवशूकजः ॥
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ॥ ७ ॥
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः ॥