193
हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता ॥
दशमूलीजलं तस्य कल्याणाज्यं च योजयेत् ॥ ८ ॥
यः खादेत्क्षीरभक्ताशी माक्षिकेण वचारजः ॥
अपस्मारं महाघोरं सुचिरोत्थं जयेद्ध्रुवम् ॥ ९ ॥
शणस्त्रिवृत्तथैरण्डो दशमूलं शतावरी ॥
रास्ना मागधिका शिग्रुः क्वाथ्यं द्विपलिकं भवेत् ॥ १० ॥
विदारी मधुकं मेदे काकोल्यौ द्वे सिता तथा ॥
खर्जूराभीरुमृद्वीकामुञ्जातं गोक्षुरस्तथा ॥ ११ ॥
वैतसस्य घृतस्याङ्गैः पक्तव्यं सर्पिरुत्तमम् ॥
महावैतससंज्ञं तु सर्वापस्मारनाशनम् ॥ १२ ॥
गरोन्मादप्रतिश्यायतृतीयकचतुर्थकान् ॥
पापालक्ष्मीं जयत्येतत्सर्वग्रहनिवारणम् ॥ १३ ॥
श्वासकासहरं चैव शुक्रार्तवविशोधनम् ॥
द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशिकं जलम् ॥
पादशेषं च कर्तव्यमेष क्वाथविधिः स्मृतः ॥ १४ ॥