Adhikāra 26

वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः ॥
क्षारश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ॥ १ ॥
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ॥
242
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः ॥ २ ॥
वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः ॥
ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः ॥ ३ ॥
शूले निरन्नकोष्ठेऽद्भिरुष्णाभिश्चूर्णिताः पिबेत् ॥
हिङ्गुप्रतिविषाव्योषवचासौवर्चलाभयाः ॥ ४ ॥
बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ॥
सहिङ्गुलवणं पीतं सद्यो वातरुजं जयेत् ॥ ५ ॥
तुम्बुरूण्यभयाहिङ्गु पौष्करं लवणत्रयम् ॥
पिबेद्यवाम्बुना वातशूलगुल्मापतन्त्रकी ॥ ६ ॥
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत् ॥
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ॥ ७ ॥
हिङ्गुपुष्करमूलाभ्यां हिङ्गुसौवर्चलेन वा ॥
विश्वैरण्डयवक्वाथः पीतः शूलनिवारणः ॥ ८ ॥
तद्वद्रुबुयवक्वाथो हिङ्गुसौवर्चलान्वितः ॥
यवानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ॥
सुरामण्डेन पातव्या वातशूलनिवारणः ॥ ९ ॥
243
सौवर्चिकाम्लिकाजाजीमरिचैर्द्विगुणोत्तरैः ॥
मातुलुङ्गरसैः पिष्टा गुटिकाऽनिलशूलनुत् ॥ १० ॥
हिङ्ग्वम्लकृष्णामलकं यवानी-
क्षाराभयासैन्धवतुल्यभागम् ॥
चूर्णं पिबेद्वारुणिमण्डमिश्रं
शूले प्रवृद्धेऽनिलजे शिवाय ॥ ११ ॥
तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ॥
गुटिका शमयत्याशु शूलं चैवातिदुःसहम् ॥ १२ ॥
नाभिलेपाज्जयेच्छूलं मदनः काञ्जिकान्वितः ॥
जीवन्तीमूलकल्को वा सतैलः पार्श्वशूलहा ॥ १३ ॥
गुडः शालिर्यवाः क्षीरं सर्पिष्पानं विरेचनम् ॥
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥ १४ ॥
पैत्ते तु शूले वमनं पयोम्बुरसैस्तथेक्षोः सपटोलनिम्बैः ॥ १५ ॥
शीतावगाहाः सुखिनः प्रवाता भाण्डानि कांस्यानि जलप्लुतानि ॥
अन्यानि शस्तानि च शीतलानि सचन्दनाश्चन्द्रकराः सुशीताः ॥ १६ ॥
कांस्यराजतताम्राणिं भाजनानि च सर्वतः ॥
परिपूर्णानि तोयस्य शूलस्योपरि निक्षिपेत् ॥ १७ ॥
244
विरेचनं पित्तहरं च शस्तं रसाश्च शस्ताः शशलावकानाम् ॥
संतर्पणं लाजमधूपपन्नं योगाः सुशीता मधुसंप्रयुक्ताः ॥ १८ ॥
छर्द्यां ज्वरे पित्तभवे च शूले घोरेऽपि दाहे तृषितेऽतिमात्रम् ॥
यवस्य पेयां मधुना विमिश्रां पिबेत्सुशीतां मनुजः सुखार्थी ॥ १९ ॥
धात्र्या रसं विदार्या वा त्रायन्तीगोस्तनाम्बुना ॥
पिबेत्सशर्करं मद्यं पित्तशूलनिषूदनम् ॥ २० ॥
शतावरीरसं क्षौद्रयुक्तं प्रातः पिबेन्नरः ॥
दाहशूलोपशान्त्यर्थं सर्वपित्तामयापहम् ॥ २१ ॥
शतावरीसयष्ट्याह्ववाट्यालकुशगोक्षुरैः ॥
शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम् ॥
पित्तासृग्दाहशूलघ्नं सद्योदाहज्वरापहम् ॥ २२ ॥
त्रिफलानिम्बयष्ट्याह्वकटुकारग्वधैः शृतम् ॥
पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये ॥ २३ ॥
बृहत्यौ गोक्षुरैरण्डकुशकाशेक्षुवालिकाः ॥
पीताः पित्तभवं शूलं सद्यो हन्युः सुदारुणम् ॥ २४ ॥
प्रलिह्यात्पित्तशूलघ्नं धात्रीचूर्णं समाक्षिकम् ॥ २५ ॥
श्लेष्मात्मके लङ्घनच्छर्दनानि शिरोविरेकं मधुसीधुपानम् ॥
मधूनि गोधूमयवानरिष्टान्सेवेत रूक्षान्कटुकांश्च सर्वान् ॥ २६ ॥
245
लवणत्रयसंयुक्तं पञ्चकोलं सरामठम् ॥
सुखोष्णेनाम्बुना पातुं कफशूले प्रदापयेत् ॥ २७ ॥
बिल्वमूलमथैरण्डं चित्रकं विश्वभेषजम् ॥
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलहरं परम् ॥ २८ ॥
मातुलुङ्गरसो वाऽपि शिग्रुक्वाथस्ततः परः ॥
सक्षारो मधुना पीतः पार्श्वहृद्बस्तिशूलनुत् ॥ २९ ॥
विदारीदाडिमरसः सव्योषलवणान्वितः ॥
क्षौद्रयुक्तो जयत्याशु शूलं दोषत्रयोद्भवम् ॥ ३० ॥
एरण्डफलमूलानि बृहतीद्वयगोक्षुरम् ॥
पर्णिन्यः सहदेवा च सिंहपुच्छीक्षुवालिका ॥ ३१ ॥
तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत् ॥
पृथग्दोषभवं शूलं हन्यात्सर्वभवं तथा ॥ ३२ ॥
गोमूत्रशुद्धं मण्डूरं त्रिफलाचूर्णसंयुतम् ॥
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ ३३ ॥
246
शङ्खचूर्णं सलवणं सहिङ्गु व्योषसंयुतम् ॥
उष्णोदकेन तत्पीतं शूलं हन्ति त्रिदोषजम् ॥ ३४ ॥
आमशूले क्रिया कार्या कफशूलविनाशिनी ॥
सेव्यमामहरं सर्वं यद्यदग्निविवर्धनम् ॥ ३५ ॥
एरण्डबिल्वबृहतीद्वयमातुलुङ्ग-
पाषाणभित्त्रिकटमूलकृतः कषायः ॥
सक्षारहिङ्गुलवणो रुबुतैलमिश्रः
श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः ॥ ३६ ॥
सहिङ्गुतुम्बुरुव्योषयवानीचित्रकाभयाः ॥
सक्षारलवणं चूर्णं पिबेत्प्रातः सुखाम्बुना ॥ ३७ ॥
विण्मूत्रानिलशूलघ्नं पाचनं वह्निदीपनम् ॥
चित्रकग्रन्थिकैरण्डशुण्ठीधान्यं जले शृतम् ॥ ३८ ॥
शूलानाहविबन्धेषु सहिङ्गुविडसैन्धवम् ॥
दीप्यकं सैन्धवं पथ्या नागरं च चतुःसमम् ॥
चूर्णं शूलं जयत्याशु सन्नस्याग्नेश्च दीपनम् ॥ ३९ ॥
समाक्षिकं बृहत्यादिं पिबेत्पित्तानिलात्मके ॥
व्यामिश्रं वा विधिं कुर्याच्छूले मारुतपित्तजे ॥ ४० ॥
247
पटोलत्रिफलारिष्टक्वाथं मधुयुतं पिबेत् ॥
पित्तश्लेष्मज्वरच्छर्दिर्दाहशूलोपशान्तये ॥ ४१ ॥
पित्तजे कफजे वाऽपि क्रिया या कथिता पृथक् ॥
एकीकृत्य प्रयुञ्जीत तां शूले कफपित्तजे ॥ ४२ ॥
वमनं रेचनं चैव वीक्ष्य दोषबलाबलम् ॥
कर्तव्यं कफपित्तोक्तं यथायोग्यं भिषग्जितम् ॥ ४३ ॥
चूर्णं समं रुचकहिङ्गुमहौषधानां
शुण्ठ्यम्बुना कफसमीरणसंभवासु ॥
हृत्पार्श्वपृष्ठजठरार्तिविषूचिकासु
पेयं तथा यवरसेन तु विड्विबन्धे ॥ ४४ ॥
क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता ॥
प्रवर्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः ॥ ४५ ॥
हिङ्गुनः स्वल्पमानोक्तेः समशब्दे सहार्थता ॥ ४६ ॥
248
विश्वोरुबूकदशमूलयवाम्भसा च
द्विक्षारहिङ्गुलवणत्रयपुष्कराणाम् ॥
चूर्णं पिबेद्धृदयपार्श्वकटीग्रहाम-
पक्वाशयांसभृशरुग्ज्वरगुल्मशूली ॥ ४७ ॥
हिङ्गु सौवर्चलं पथ्या बिडसैन्धवतुम्बुरु ॥
पौष्करं च पिबेच्चूर्णं दशमूलयवाम्भसा ॥ ४८ ॥
पार्श्वहृत्कटिपृष्ठांसशूले तन्द्रापतानके ॥
शोथे श्लेष्मप्रसेके च गलरोगे च शस्यते ॥ ४९ ॥
रसोनं मद्यसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः ॥
वातश्लेष्मभवं शूलं निहन्तुं वह्निदीपनम् ॥ ५० ॥
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारं ससैन्धवम् ॥
मातुलुङ्गरसोपेतं प्लीहशूलापहं रजः ॥ ५१ ॥
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् ॥
प्रयोज्यं मधुसर्पिर्भ्यां सर्वशूलनिवारणम् ॥ ५२ ॥
मूत्रान्तःपाचितां शुष्कां लोहचूर्णसमन्विताम् ॥
सगुडामभयामद्यात्सर्वशूलप्रशान्तये ॥ ५३ ॥
वाते निरूहाः सविरेचनाश्च
क्षीरप्रयोगा मधुराश्च पित्ते ॥
तिक्ताः कषायाः कटुकास्तथैव
वाम्यश्च शूले कफसंनिविष्टे ॥ ५४ ॥
249
नागरं पिप्पली बिल्वं कारवी चव्यचित्रकम् ॥
हिङ्गुदाडिमवृक्षाम्लवचाक्षाराम्लवेतसम् ॥ ५५ ॥
वर्षाभूः कृष्णलवणमजाजी बीजपूरकम् ॥
दधि त्रिगुणितं सर्पिस्तत्सिद्धं दाधिकं स्मृतम् ॥ ५६ ॥
गुल्मार्शःप्लीहहृत्पार्श्वशूलयोनिरुजापहम् ॥
दोषसंशमनं श्रेष्ठं दाधिकं परमं स्मृतम् ॥ ५७ ॥
कम्बलावृतगात्रस्य प्राणायामं प्रकुर्वतः ॥
कटुतैलाक्तसक्तूनां धूपः शूलापहः परः ॥ ५८ ॥
वेदना च तृषा मूर्छा आनाहो गौरवारुची ॥
कासः श्वासश्च हिक्का च शूलस्योपद्रवाः स्मृताः ॥ ५९ ॥
व्यायामं मैथुनं मद्यं लवणं कटुकानि च ॥
वेगरोधं शुचं क्रोधं वर्जयेच्छूलि वैदलम् ॥ ६० ॥