Adhikāra 29

260
आनाहेऽपि प्रयुञ्जीत उदावर्तहरां क्रियाम् ॥
द्विरुत्तरं हिङ्गु वचा सकुष्ठा सुवर्चिका चैव विडङ्गचूर्णम् ॥
सुखाम्बुनाऽऽनाहविषूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥ १ ॥
वचाभयाचित्रकयावशूकान्सपिप्पलीकातिविषान्सकुष्ठान् ॥
उष्णाम्बुनाऽऽनाहविमूढवातान्पीत्वा जयेदाशु हितौदनाशी ॥ २ ॥
त्रिवृद्धरीतकी श्यामाः स्नुहीक्षीरेण भावयेत् ॥
वटिका मूत्रपीतास्ताः श्रेष्ठाश्चाऽऽनाहभेदिकाः ॥ ३ ॥
राढधूमविडव्योषगुडमूत्रैर्विपाचिता ॥
गुदेऽङ्गुष्ठसमा वर्तिर्निधेयाऽऽनाहशूलनुत् ॥ ४ ॥
वर्तिस्त्रिकटुकसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः ॥
मधुनि गुडे वा पाय्वीरिताऽङ्गुष्ठप्रमाणवर्तिरियम् ॥ ५ ॥
दृष्टफला शनैः शनैः प्रणिहिता गुदे घृताभ्यक्ता ॥
आनाहोदावर्तप्रशमनी जठरगुल्मनिवारणी ॥ ६ ॥
261
मूलकं शुष्कमार्द्रं च वर्षाभूमूलपञ्चकम् ॥ ७ ॥
आरेवतफलं चाप्सु तेन पक्त्वा पचेद्घृतम् ॥
तत्पीतमात्रं शमयेदुदावर्तमशेषतः ॥ ८ ॥